________________
• प्रणवजपफलविचारः .
१११३ ५६) इति योगशिखोपनिषद्वचनात्, → हरिः ॐ एकाक्षरं त्वक्षरेऽत्रास्ति - (एका.१) इति एकाक्षरोपनिषद्वचनात्, → ब्रह्मशब्दः प्रणवः - (पार.१/६) इति पारमात्मिकोपनिषद्वचनात्, → विष्णुश्च रुद्रश्च ईश्वरः शिव एव च । पञ्चधा पञ्चदेवत्यः प्रणवः परिपठ्यते ।। 6 (अ.शिखा.२/३) इति अथर्वशिखोपनिषद्वचनात्, → ओमिति ब्रह्म - (ना.परि.८/१) इति नारदपरिव्राजकोपनिषद्वचनात् → ब्रह्म = प्रणवः - (तुरी.९) इति तुरीयोपनिषद्वचनात्, → ॐ = देवता - (पिं.१) इति पिण्डोपनिषद्वचनात्, → ओमित्येकाक्षरमुद्गीथमुपासीत - (शौ.१०) इति शौनकोपनिषद्वचनात्, → प्रणवं ब्रह्म-विष्णुशिवात्मकं - (राधो.२/६) इति राधोपनिषद्वचनात्, → रामाङ्गं प्रणवं 6 (रा.रह.१/९) इति रामरहस्योपनिषद्वचनात्, → एकाक्षरं परं ज्योतिः प्रणवं भवति - (शां.१/१७) इति शाण्डिल्योपनिषद्वचनात्, → ॐकार एव सर्वं ह्येतद् ब्रह्म (नृ.पू.३/२) इति नृसिंहपूर्वतापनीयोपनिषद्वचनात्, → सोऽयमात्माऽध्यक्षरमोङ्कारः - (माण्डू. ८) इति माण्डूक्योपनिषद्वचनात्, → ओमिति ब्रह्मणो योनिः 6 (म.भा.शान्ति.२७४/३८) इति महाभारतवचनात्, → ओमिति ब्रह्म - (बौ.ध.सू.१०/१८/२/३६) इति बौधायनधर्मसूत्रवचनाच्च प्रणवस्य परब्रह्मादिवाचकत्वात् तज्जपस्य दुरितविनाशद्वारा विघ्नविनाशकत्वमुचितमेव । ___अत एव कैवल्योपनिषदि → आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ज्ञाननिर्मथनाभ्यासात् पापं दहति पण्डितः ।। (कैव.११) इत्युक्तम् । ॐकारमुद्दिश्य विश्रामोपनिषदि अपि → यस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते - (विश्रा.११) इत्युक्तम् । → ॐ प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपं, अकार उकारो मकार इति त्र्यक्षरं प्रणवं तदेतदोमिति । यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् 6 (आत्मप्र.१।१) इति आत्मप्रबोधोपनिषद्वचनमप्येतदर्थानुपात्येव । तदुक्तं वराहोपनिषदि → सर्वविघ्नहरश्चायं प्रणवः सर्वदोषहा - (वरा.५/७१) इति । तदुक्तं योगतत्त्वोपनिषदि अपि → सर्वविघ्नहरो मन्त्रः प्रणवः सर्वदोषहा (यो.त.६४) इति । यथोक्तं नारायणाथर्वशिरउपनिषदि → ओमिति यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् + (नारा. अ.४) इति । तदुक्तं शिवगीतायां अपि → ओङ्कारजापी यः स मुक्तो नाऽत्र संशयः 6 (शि.गी.१५/२४) इति ।
प्रकृते → यस्तु द्वादशसहस्रं प्रणवं जपतेऽन्वहम् । तस्य द्वादशभिर्मासैः परं ब्रह्म प्रकाशते ।। - (सं.उप.२/१०४) इति संन्यासोपनिषद्वचनमपि स्मर्तव्यम् । परं भवनिर्वेदादिभावगर्भो जपः कार्यः । तदुक्तं गुरुगीतायां → निवेदनेन मौनेन जपं स्तोत्रं समारभेत् । जाप्येन जयमाप्नोति जपसिद्धिं फलं तथा ।। 6 (गु.गी.२११/२१२) इति ।।१६/८।।
વિશેષાર્થ :- ઈશ્વરના જાપથી વિપ્નનાશ અને જ્ઞાનપ્રાપ્તિની વાત પતંજલિ મહર્ષિએ યોગસૂત્રમાં કરેલી છે. તેનો આશય એવો જણાય છે કે ઈશ્વર પોતે કાંઈ વિઘ્નોનો નાશ કરતા નથી કે જ્ઞાન આપતા નથી. પરંતુ તેનું પ્રણિધાન કરવાથી આત્મામાં વિશિષ્ટ સામર્થ્ય ઊભું થવાથી વિદ્ગવિયોગ કે જ્ઞાનલાભ થાય છે. નાગોજી ભટ્ટના મત મુજબ પ્રણવજપથી પ્રત્યેકચેતનાલાભ = આત્મસાક્ષાત્કાર થાય છે. આમ વિબવિયોગ કે જ્ઞાનલાભમાં કે આત્મસાક્ષાત્કારમાં ઈશ્વર આલંબનરૂપે નિમિત્ત બને છે, સાક્ષાત્ કર્તા બનતા નથી. પતંજલિની આ વાત જૈન દર્શનને માન્ય છે. પરદર્શનની પણ સત્ય વાતનો સહર્ષ સ્વીકાર કરવાની વૃત્તિ ગ્રંથકારશ્રીની મધ્યસ્થ આત્મદશા વ્યક્ત કરે છે. (૧૬/૮)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org