________________
१११२
पतञ्जलेरुक्तं युक्तम् ।
'तस्य वाचकः प्रणवः, तज्जपस्तदर्थभावनं, ततः प्रत्यक्चेतनाऽधिगमोऽप्य'न्तरायाऽभावश्च' ( यो. सू. १/ २७ - २८-२९) इति प्रसिद्धेः, गुणविशेषवतः पुरुषस्य प्रणिधानस्य महाफलत्वात् ॥ ८ ॥ इति पतञ्जलेरुक्तं युक्तं युक्तिसङ्गतं वर्तते ।
=
=
अत्रैव योगसूत्रगतसूत्रत्रयसंवादमाह 'तस्य' इत्यादि । → तस्य = परमेश्वरस्य प्रणवः, प्रकर्षेण नूयते स्तूयतेऽनेनेति प्रणवः = ॐकारः, वाचकः = अभिधायक इत्यर्थः । तस्य प्रणवस्य यो जपः तस्मिन् दीर्घकाल-नैरन्तर्य-सत्कारैस्तदर्थाऽसङ्गचिद्रूपेश्वरभावनापुरस्सरं प्राधान्येन दृढमासेविते सति, पश्चात् स्वत एव वाग्व्यापारे तस्मिन् प्रलीने वाचकस्य न्यग्भावात्तदर्थाऽसङ्गचिद्रूपगोचरवृत्तिसन्तानरूपभावनायां दीर्घकालादिभिर्दृढमासेवितायां, ततस्तत्प्रसादेन चित्तं निरोधाभिमुखं प्रत्यासत्त्यभावेनेश्वरं विश्रान्तभूमितया लभमानं सत् तत्सादृश्यात् स्वस्वामिनमसङ्गचिद्रूपमात्मानं स्मारयित्वाऽविषयतया तमप्यलभमानं निरिन्धनाग्निवत्स्वयं संस्कारावशेषं भवति । ततः प्रत्यक्चेतनाधिगमः । प्रत्यक् चासौ चेतना, तस्याः प्राप्तिः अधिगमः । सर्वान्तरतया भासमाना चितिशक्तिः स्वे महिम्नि निरन्तरं निर्विघ्नमवतिष्ठते । अतः सर्वासां वृत्तीनां प्रविलयादन्तरायाभावश्च भवति ← (यो. सू. १/२७-२८२९ पृ.३४-३५) इति योगसुधाकरवृत्तिकृत् ।
‘प्रतीपं = विपरीतं अञ्चति = विजानाति स चासौ चेतनश्चेति प्रत्यक्चेतनः = जीवः, तदधिगमः = तत्साक्षात्कारः' (ना.भ.१ / २९ पृ. ३६ ) इति नागोजीभट्टः प्रचष्टे । भावागणेश - रामानन्दयोरप्ययमेवाभिप्रायः ।
ॐकारविमर्शः •
=
=
द्वात्रिंशिका - १६/८
=
→ अकारणं परं ब्रह्म ॐ ← (नारा.अश्व.४) इति नारायणार्थवशिरउपनिषद्वचनात्, अखण्डसच्चिदानन्दं प्रसिद्धं ब्रह्म यत्परम् । तदेव प्रणवस्याऽस्य मुख्योऽर्थस्तारकस्य हि ।। ← (रा.गी. १३/ ३१) इति रामगीतावचनात् एतद्ध्येवाक्षरं ब्रह्म ← (क. व. २ / १६ ) इति कठवल्लिकोपनिषद्वचनात्, → चैतन्यमात्रमोङ्कारं ब्रह्मैव सकलं स्वयम् ← (ते. बिं. ४३) इति तेजोबिन्दूपनिषद्वचनात्, → ओमित्येकाक्षरं ब्रह्म ध्येयं सर्वमुमुक्षुभिः ← ( ध्या. बिं. ९) इति ध्यानबिन्दूपनिषद्वचनात्, ओमित्येकाक्षरं ब्रह्म ← (अमू. २१, प्र.२, सू. १, गणे. १/१, ब्र.वि. २ ) इति अमृतनादोपनिषत् प्रणवोपनिषत्-सूर्योपनिषद्गणेशोत्तरतापिन्युपनिषद्-ब्रह्मविद्योपनिषदां वचनात् → चिन्मयो ह्ययमोङ्कारः ← (नृ.ताप.८/१) इति नृसिंहोत्तरतापनीयोपनिषद्वचनात् ब्रह्म अक्षरोऽहमोङ्कारः ← (गो.उ.१७) इति गोपालोत्तरतापिन्यु - पनिषद्वचनात् ॐ इत्येदक्षरं परं ब्रह्म ← ( तार. २/१) इति तारकोपनिषद्वचनात् हंस-प्रणवयोरभेदः ← (पा.ब्र. १ ) इति पाशुपतब्रह्मोपनिषद्वचनात् तत्परं ज्योतिः ओमिति ← (यो.शि. ६/
યોગસૂત્રમાં પતંજલિ મહર્ષિએ પ્રસિદ્ધ કરેલ છે કે “ઈશ્વરનો વાચક = પ્રતિપાદક શબ્દ પ્રણવ ૐકાર છે. તે ૐકારનો જાપ એટલે તેના અર્થનું ભાવન કરવું. તેનાથી પ્રત્યક્ ચેતનાનો લાભ થાય છે અને અન્તરાયો રવાના થાય છે.’’ ગુણવિશેષસંપન્ન આત્માનું = પરમાત્માનું પ્રણિધાન મહાફળવાળું હોવાથી પંતજલિની ઉપરોક્ત વાત વ્યાજબી છે. (૧૬/૮)
१. मुद्रितप्रतौ '...गमोऽन्त...' इति पाठ: । परं योगसूत्रानुसारेणाऽत्राऽपेक्षितः पाठोऽस्माभिः योजितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org