SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ • भगवतो जीवदुर्गतिदायकत्वाऽसम्भवः • ११०९ आर्थं व्यापारमाश्रित्य 'तदाज्ञापालनात्मकम् । युज्यते परमीशस्याऽनुग्रहस्तन्त्रनीतितः ।।७।। आर्थमिति । आर्थं = ततः सामर्थ्यप्राप्तं, न तु प्रसह्य तेनैव कृतं, तदाज्ञापालनात्मकं व्यापारमाश्रित्य परं केवलं तन्त्रनीतितः अस्मत्सिद्धान्तनीत्या ईशस्याऽनुग्रहो युज्यते । किममरैः ? किं च विधिना ?, नमस्तत् कर्मभ्यो विधिरपि येभ्यो न प्रभवति ।। ← (भक्ता.४१,पृ.११३) इति । एतेन ईश्वराधिष्ठितं कर्म फलतीह शुभाशुभम् ← (शि. ७ /११३) इति शिवोपनिषद्वचन मपि निरस्तम्, न च कर्मणो जडत्वादीश्वराधिष्ठितस्यैव फलजनकत्वादीश्वरकल्पनाऽऽवश्यकीति शङ्कनीयम्, चेतनानधिष्ठितादपि मेघादेर्वृष्ट्यादिजननत्वदर्शनात्तादृशनियमाऽ सिद्धेः । यथोक्तं श्रीमद्भागवते अपि रजसा चोदिता मेघा वर्षन्त्यम्बूनि सर्वतः । प्रजास्तैरेव सिध्यन्ति महेन्द्रः किं करिष्यति ? ।। ← (श्री. भा. १० / २४/२३) इति । तस्यापि पक्षतायां तव स्वाऽऽगमाऽनाश्वासापत्तेः । किञ्च अन्यत्रापि व्यभिचारिणः पक्षतायां निवेशेऽनैकान्तिकोच्छेदप्रसङ्गात् इति अधिकं व्यक्तं शास्त्रवार्तासमुच्चयविवरणे स्याद्वादकल्पलताभिधाने तृतीयस्तबके । तदुक्तं शास्त्रवार्तासमुच्चयेऽपि श्रीहरिभद्रसूरिभिः नरकादिफले कांश्चित् कांश्चित्स्वर्गादिसाधने । कर्मणि प्रेरयत्याशु स जन्तून् केन हेतुना ? ।। स्वयमेव प्रवर्तन्ते सत्त्वाश्चेत् चित्रकर्मणि । निरर्थकमिहेशस्य कर्तृत्वं गीयते कथम् ? ।। फलं ददाति चेत् सर्वं तत्तेनेह प्रचोदितम् । अफले पूर्वदोषः स्यात् सफले भक्तिमात्रता ।। आदिसर्गेऽपि नो हेतुः कृतकृत्यस्य विद्यते । प्रतिज्ञातविरोधित्वात् स्वभावोऽप्यप्रमाणकः कर्मादेस्तत्स्वभावत्वे न किञ्चिद् बाध्यते विभोः । विभोस्तु तत्स्वभावत्वे कृतकृत्यत्वबाधनम् ।। ← (शा. वा. स. स्त. ३ / ५-६-७-८-९) इति । विस्तरस्तु तद्वृत्तितो ज्ञेयः ।।१६ / ६ ।। अथ कथञ्चित्परमतमप्यनुमन्यमान आह- 'आर्थमिति । ततः = ईश्वरात् सामर्थ्यप्राप्तं = लब्धसामर्थ्यं, न तु नैव प्रसह्य = बलात्कारेण तेनैव = ईश्वरेणैव कृतं = कारितं, तदाज्ञापालनात्मकं 11 = ईश्वराऽऽवेदितविधि-प्रतिषेधाऽनुपालनस्वरूपं व्यापारं आश्रित्य केवलं अस्मत्सिद्धान्तनीत्या जीवेश्वरगतस्वभावविशेषाऽविनाभाविपरिणामित्वसूचकजैनराद्धान्तदर्शितरीत्या ईशस्यानुग्रहो ह्यर्थक्रियाकारित्वेन = = = रूपेण युज्यते । यथा राजाज्ञापालनात्सेवकस्य जायमानोऽर्थादिलाभो राजनिमित्त उच्यते तथेदं विज्ञेयमित्याशयः । केवलादेवेशानुग्रहादपवर्गप्राप्तावादितोऽयत्न एवाऽऽपद्येत, करणीयत्वाऽभावात् । इत्थमभ्युपगमे तु → * સ્યાદ્વાદમાં ઈશાનુગ્રહને સંમતિ ગાથાર્થ :- ઈશ્વરની આજ્ઞાના પાલન સ્વરૂપ પ્રવૃત્તિ ઈશ્વરપ્રભાવલબ્ધ હોવાથી તેની અપેક્ષાએ જૈનદર્શનના સિદ્ધાન્ત મુજબ ઇશાનુગ્રહ સંગત થઇ શકે છે. (૧૬/૭) ટીકાર્થ :- ઈશ્વરની આજ્ઞાના પાલન સ્વરૂપ પ્રવૃત્તિ ઈશ્વરીય સામર્થ્યથી પ્રાપ્ત થયેલ છે. તે પ્રવૃત્તિ કાંઈ ઈશ્વરે બળાત્કારે કરાવેલ નથી. તેથી ફક્ત તે પ્રવૃત્તિની અપેક્ષાએ અમારા જૈનસિદ્ધાન્તની રીત મુજબ ઇશ્વરનો જીવો ઉપર અનુગ્રહ સંગત થાય છે. १. हस्तादर्शे 'तदानापाल' इत्वशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy