________________
१११०
भगवदनुग्रहस्वरूपविमर्शः •
द्वात्रिंशिका - १६/७
तदुक्तं- “आर्थं व्यापारमाश्रित्य न च दोषोऽपि विद्यते " ( यो . बिं. २९८ ) इति ।।७।। समो जितात्मा विज्ञानी ज्ञानीन्द्रियजयाऽऽवहः । अभ्यसेत् सततं योगं यदा युक्ततमो हि सः ।। ← ( ग.गी. ५/६ ) इति गणेशगीतादिवचनस्य विधायकत्वानुपपत्तेः । न चैवमीश्वरेच्छातः कार्यानुदयः प्रसज्येतेति वाच्यम्, इष्टत्वात् । न हीश्वरोऽस्मन्नये घटं प्रति कुलालस्येव निर्वर्तकं कारणं, मृद इव वा परिणामिकारणं किन्तु दण्डादेरिव निमित्तमेवाऽपवर्गादिकं प्रति । कारणत्रैविध्यप्रतिपादिका → निर्वर्तको निमित्तं परिणामी च त्रिधेष्यते हेतुः । कुम्भस्य कुम्भकारो वर्ता मृच्चेति समसङ्ख्यम् ।। ← ( तत्त्वार्थवृत्ती उद्धृता- पृ.३३८) इति कारिका स्मर्तव्या । यथा च सरित्तडागसमुद्रादिषु अवगाहित्वे सति मत्स्यस्य स्वयमेव सञ्जातजिगमिषस्योपग्राहकं जलं निमित्ततयोपकरोति तथा भवसमुद्रावगाहित्वे सति चरमावर्तवर्तिनां प्राणिनां स्वयमेव सञ्जातमुमुक्षाणां जिननामप्रयुक्तयथावस्थिताऽमोघोपदेशदानादिनोपग्राहक ईश्वरो निमित्ततयोपकरोत्येव । एतावतैव सर्वकार्याणां स परमो हेतुरुच्यते ।
तदुक्तं सिद्धर्षिगणिवरैरपि उपमितिभवप्रपञ्चायां कथायां अष्टमे प्रस्तावे
·
तदाज्ञालङ्घनाद् दुःखं, तदाज्ञाकरणात्सुखम् । यतः सम्पद्यते सर्वं सर्वेषामपि देहिनाम् ।। अणुमात्रमपि नास्ति, भुवनेऽत्र शुभाशुभम् । तदाज्ञानिरपेक्षं हि यज्जायते कदाचन ।। तेनेच्छा-रागविद्वेषरहितोऽपि स भूपतिः । निर्वृतिस्थोऽपि कार्याणां ज्ञेयः परमकारणम् ।।
← (उप.भ.प्र.८/२९०,२९१,२९२ ) इति । युक्ततरञ्चैतत् । न हि चारित्रधर्माऽऽसन्नस्यापि भगवदनुग्रहं तदीयाऽऽज्ञापालनात्मकं विना कदापि चारित्रलाभः सम्भवति । अत एव ललितविस्तरायां → नायं भगवदनुग्रहमन्तरेण, विचित्रहेतुप्रभवत्वेऽपि महानुभावतयाऽस्यैव प्राधान्यात् । भवत्येतदासन्नस्य भगवति बहुमानः । ततो हि सद्देशनायोग्यता, ततः पुनरयं नियोगतः इत्युभयतत्स्वभावतया तदाधिपत्यसिद्धेः कारणे कार्योपचारात् धर्मं ददतीति धर्मदाः ← ( ल. वि. ५० ) इति प्रोक्तं श्रीहरिभद्रसूरिभिः ।
एतेन ईश्वरानुग्रहादेव पुंसामद्वैतवासना । महद्भयपरित्राणा विप्राणामुपजायते । । ← ( अ.गी. १/ १) इति अवधूतगीतावचनमपि व्याख्यातम्, सर्वभूतात्मभूतभावनागोचरप्रयत्नात्मकमीशानुग्रहमृतेऽद्वैतसंस्कारानुत्पत्तेः । अत्रैव योगबिन्दुसंवादमाह - 'आर्थमिति । अधुना योगबिन्दौ ' आर्थ्यमिति पाठो लभ्यते । 'आर्थ्यं = सामर्थ्यप्राप्तं व्यापारमीश्वरानुग्रहरूपम् ' (यो.बि. २९७ ) इति योगबिन्दुवृत्तिकारः । एतेन शब्दमात्रो महादेवो लौकिकानां मते मतः । शब्दतो गुणतश्चैवार्थतोऽपि जिनशासने ।। ← (महा. स्तो. ६) इति महादेवस्तोत्रवचनमपि व्याख्यातम् ।।१६ /७।।
કેમ કે યોગબિંદુ ગ્રંથમાં શ્રી હરિભદ્રસૂરિજી મહારાજે જણાવેલ છે કે → ‘આર્થ વ્યાપારને આશ્રયીને ईश्वरानुग्रह मानवमां ओो छोष नथी.' ← (१६/७)
વિશેષાર્થ :- જંગલમાં ભૂલો પડેલો મુસાફર ભોમીયાના માર્ગદર્શન મુજબ જાતે ચાલીને જંગલનો પાર પામે છે અને ભોમીયાનો અનુગ્રહ માને છે. ભોમીયો માર્ગ દેખાડે છે પણ પરાણે તે માર્ગ ઉપર ચલાવતો નથી. તેમ છતાં તેના આદેશના પાલનથી જંગલને સલામતીપૂર્વક પાર કરવાથી ભૂલો પડેલ મુસાફર ભોમીયાનો આભાર માને છે. આ જ રીતે સંસારમાં ભૂલા પડેલા અને ભટકતા નિરાધાર જીવો ઈશ્વરની આજ્ઞા-માર્ગદર્શન અનુસાર સ્વેચ્છાથી પ્રવૃત્તિ કરે તો ભવાટવીનો પાર પામે છે અને ઈશ્વરનો અનુગ્રહ માને છે. ઈશ્વર મોક્ષમાર્ગ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org