________________
• कर्मण ईश्वरत्वसमर्थनम् •
द्वात्रिंशिका-१६/६
११०८
एतेन स्वस्मिन् विलीनं सकलं जगदाविर्भावयति प्राणिकर्मवशादेष पटो यद्वत्प्रसारितः, प्राणिकर्मक्षयात् पुनः तिरोभावयति ← ( पै.१ / ४ ) इति पैङ्गलोपनिषद्वचनमपि प्रत्यस्तम्, परकीयाऽदृष्टवन जगदुत्पादनाऽयोगात्, अन्यथाऽतिप्रसङ्गात्, ईश्वरीयस्य च कर्मण एव विरहेण ततो जगदुत्पादाऽसम्भवात् । ततश्च सुष्ठुक्तं कलिकालतमोभास्करेण श्रीजिनभद्रगणिक्षमाश्रमणेन विशेषावश्यकभाष्ये उवगरणाभावाओ निच्चेट्ठाऽमुत्तयाइओ वा वि । ईसरदेहारंभे वि तुल्लया वाऽणवत्था वा ।। ← (वि.आ.भा.१६४२) इति। एतेन चक्षुः पश्यति रूपाणि श्रोत्रं सर्वं शृणोत्यपि । अन्यानि खानि सर्वाणि तेनैव प्रेरितानि तु ।। स्वं स्वं विषयमुद्दिश्य प्रवर्तन्ते निरन्तरम् । प्रवर्तकत्वं चाप्यस्य मायया न स्वभावतः ।। ← (पा.ब्र.९-१० ) इति पाशुपतब्रह्मोपनिषत्कारिके अपि निरस्ते, सर्वथा मायाशून्यत्वे जगत्प्रेरकत्वाऽयोगात्, तद्युक्तत्वे तु संसारित्वाऽऽपातात्, कर्माद्यपराभिधानमाययैव तत्तत्प्रवृत्त्युपपत्तावीश्वरस्यान्यथासिद्धत्वाऽऽपाताच्च । न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ।। ← (भ.गी.५/९४ ) इति भगवद्गीतावचनमपीश्वरस्य जगत्कर्तृत्वाभ्युपगमे बाधकमेव । ततश्च सुष्ठुक्तं श्रीसागरानन्दसूरिभिः जैनगीतायां शिशोर्न जातिर्जनकाद्यभीष्ट्या, शिशोरभीप्साऽपि न तत्र हेतुः । तन्वादिहीनस्य न चेश्वरस्य किन्त्वेकमेवात्र सहं हि कर्म ।। ← (जै.गी. १२/१४) इति । सौगतानामपि सम्मतमिदम् । तदुक्तं सुत्तनिपाते कम्मना वत्तती लोको कम्मना वत्तती पजा ← (सु.नि. ३/३५ /६१) इति । तदुक्तं श्रीमद्भागवते अपि कर्मैव गुरुरीश्वरः ← ( श्री. भा. १०/ २४/१७) इति । प्रकृते सुखस्य दुःखस्य न कोऽपि दाता, परो ददातीह कुबुद्धिरेषा । अहं करोमीति वृथाऽभिमानः स्वकर्मसूत्रग्रथितो हि लोकः ।। ← ( अ. रा. अयोध्याकाण्ड - ६/६ ) इति अध्यात्मरामायणवचनमपि यथातन्त्रमनुयोज्यम् ।
किञ्चेश्वरस्याऽपि कर्मलक्षणोपकरणापेक्षाया अवश्यम्भावे तत्र स्वातन्त्र्येण जगत्कर्तृत्वकल्पनावेयर्थ्यात् । यथोक्तं रुद्रोपनिषदि अपि दैवाऽधीनं जगदिदम् ← ( रु. पृ.१) इति । → यद् यावद् यादृशं येन कृतं कर्म शुभाशुभम् । तत् तावद् तादृशं तस्य फलमीशः प्रयच्छति ।। ← ( ) इत्युक्तिस्तु स्पष्टमेव महेशस्य कर्मापेक्षामावेदयति । ततश्च सुष्ठुक्तं भक्तामरस्तोत्रवृत्तौ नमस्यामो देवान् ननु हतविधेस्तेऽपि वशगा विधिर्वन्द्यः सोऽपि प्रतिनियतकर्मैकफलदः । फलं कर्माऽऽयत्तं यदि
તે જ રીતે જીવોમાં અનુગ્રાહ્યતા પણ વિવિધ પ્રકારની માનવી પડે. જુદા-જુદા સમયે વિવિધ પ્રકારના ફળને ઈશ્વરીય અનુગ્રહ દ્વારા જીવો મેળવે છે. આ વાત પાતંજલોને માન્ય છે. તથા આ વાતની સંગતિ માટે કાળભેદે, ફળભેદે જીવમાં વિવિધ પ્રકારની પરિવર્તનશીલ અનુગ્રાહ્યતા માનવી જરૂરી છે. તે તે સમયે તે તે જીવને તે તે ફળ મળે ત્યાર બાદ તે તે કાળ અને ફળની અપેક્ષાએ અનુગ્રાહ્યતા તે-તે જીવોમાંથી રવાના થાય તથા તે તે જીવ, કાળ અને ફળની અપેક્ષાએ અનુગ્રાહકતા ઈશ્વરમાંથી ૨વાના થશે. આવું ન માનવામાં આવે તો કાયમ માટે બધા જીવોને તમામ ફળ ઈશ્વરીય અનુગ્રહથી મળે જ રાખશે. આમ ઈશ્વરમાં રહેલી અનુગ્રાહકતા અને જીવોમાં રહેલી અનુગ્રાહ્યતા પરિવર્તનશીલ હોવાથી ઈશ્વર અને આત્માઓને પરિણામી માનવા પડશે. આમ પાતંજલવિદ્વાનોને અપસિદ્ધાન્ત દોષ આવશે. બાકીની વિગત ટીકાર્થમાં સ્પષ્ટ છે. (૧૬/૬)
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org