________________
१०९२ • कर्मणः चतुर्विधत्वोपदर्शनम् •
द्वात्रिंशिका-१६/१ योगिनः, त्रिविधमितरेषां" (यो.सू.४-७) । शुभफलदं कर्म यागादि शुक्लं, अशुभफलदं ब्रह्महत्यादि कृष्णं, उभयसङ्कीर्णं शुक्लकृष्णं । तत्र शुक्लं दान-तपः-स्वाध्यायादिमतां पुरुषाणां, कृष्णं नारकाणां, 'शुक्लकृष्णं मनुष्याणां, योगिनां तु विलक्षणमिति । साशयं चित्तमयोगिनां । तत्र फलत्यागाऽनुसन्धा'शुभफलदमिति । अत्र च नागोजीभट्टवृत्तिरेवं वर्तते → योगिनः समाधिसिद्धस्य निष्पन्नयोगस्य क्षीणक्लेशस्य कायादिव्यापाररूपं कर्माऽशुक्लाकृष्णं पुण्य-पापाऽहेतुरित्युक्तं भवति, ‘क्लेशमूलः कर्माशय' इत्युक्तेः । इतरेषामप्रयोगिनां जन्मादिसिद्धानामपि त्रिविधं कर्म भवति । शुक्लं कृष्णं शुक्लकृष्णञ्चेत्येवमर्थः। तत्र शुक्लं कर्म अन्तर्याग-जपादि, हिंसादिदोषाऽसन्निहितत्वात् । कृष्णं = मलिनं कर्म अपेयपानादि । शुक्लकृष्णञ्च बहिर्याग-युद्धादि स्वकर्म, पशुहिंसादिपापसाङ्कर्यात् । बहिःसाधनसाध्यं सर्वमप्येवमेव । एवं संन्यासिनां क्वचिदपि बहिःसाधनसाध्ये कर्मण्यप्रवृत्तानां कृष्णस्याऽभाव एव योगानुष्ठानसाध्यस्य फलस्येश्वरे समर्पणान्न शुक्लमपीत्यवधेयम् - (ना.भ.४/७) इति ।।
योगिनां तु विलक्षणं = त्रिविधकर्मविपरीतं, तत्फलत्यागानुसन्धानेनैवानुष्ठानान्न किञ्चित्फलमारभत इति भावः । इदमेव फलत्यागानुसन्धानमीश्वरप्रणिधानमप्युच्यते । तदुक्तं व्यासेन योगसूत्रभाष्ये → ईश्वरप्रणिधानं सर्वक्रियाणां परमगुरावर्पणं, तत्फलसंन्यासो वा 6 (यो.सू.भा. २/१) इति । पुराणोपदर्शितरीत्येदं ब्रह्मार्पणमुच्यते, तदुक्तं कूर्मपुराणे →
'नाऽहं कर्ता सर्वमेतत् ब्रह्मैव कुरुते तथा । एतद् ब्रह्मार्पणं प्रोक्तमृषिभिस्तत्त्वदर्शिभिः ।। यद्वा फलानां संन्यासं प्रकुर्यात् परमेश्वरे । कर्मणामेतदप्याहुर्ब्रह्मापर्णमनुत्तमम् ।।'
6 (कूर्मपु.३/१६-१८)। भगवद्गीतायामपि → यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय ! तत्कुरुष्व मदर्पणम् ।। (भ.गी.९/२७) इत्येवं योगानुष्ठानसाध्यफलत्यागविधानमुपलभ्यत इति ध्येयम् ।
बौद्धैरप्यशुक्लाकृष्णं कर्म कर्मक्षयायोपयुज्यत इत्यङ्गीकृतम् । तदुक्तं मज्झिमनिकाये कुक्कुरव्रतिकसूत्रे दीघनिकाये च → अत्थि पुण्ण ! (१) कम्मं कण्हं कण्हविपाकं, अत्थि पुण्ण! (२) कम्मं सुक्कं सुक्कविपाकं, अत्थि पुण्ण ! (३) कम्मं कण्हसुक्कं कण्हसुक्कविपाकं, अत्थि पुण्ण! (४) कम्मं अकण्हं असुक्कं अकण्हसुक्कविपाकं कम्मक्खयाय संवत्तति ८ (म.नि.भाग-२/२-१-८१ पृष्ठ ५९ + दीघनिकाय-३।१०।३१२)
साशयं = क्लेश-कर्म-विपाकाऽऽशयोपेतं चित्तं अयोगिनां, तत्र = अयोगिचित्ते फलत्यागाऽनुसन्धानाજીવોને ત્રણેય પ્રકારના અનુષ્ઠાનો હોય છે.” શુભ ફળ આપે તેવી જપયજ્ઞ વગેરે ક્રિયા શુક્લ કર્મ કહેવાય. અશુભ ફળને આપે તેવી બ્રહ્મહત્યા વગેરે પ્રવૃત્તિ કૃષ્ણકર્મ તરીકે ઓળખાય. તથા શુભ-અશુભ બન્ને ફળથી સંકીર્ણ પ્રવૃત્તિ શુકલ-કૃષ્ણ કહેવાય. (જેમ કે જ્યોતિષ્ઠોમ વગેરે બાહ્ય યજ્ઞ, ધર્મશુદ્ધ વગેરે પ્રવૃત્તિ) આ ત્રિવિધ કર્મ યોગીભિન્ન જીવોને હોય. તેમાં દાન, તપ, સ્વાધ્યાયાદિ પ્રવૃત્તિવાળા સામાન્ય જીવને શુકલ કર્મ હોય. નરકના જીવોને કૃષ્ણ કર્મ હોય. તથા સામાન્ય મનુષ્યોને શુકલ-કૃષ્ણ કર્મ હોય છે. યોગીઓને ઉપરોક્ત ત્રણેય કર્મથી વિલક્ષણ અશુકલ-અકૃષ્ણ કર્મ (= પ્રવૃત્તિ) હોય છે.
અયોગીઓનું ચિત્ત સાશય = આશયસહિત = ક્લેશ-કર્મવિપાકસંસ્કારયુક્ત હોય છે. યોગી સિવાયના ....... चिह्न द्वयमध्यवर्ती पाठो हस्तादर्श नास्ति । १. हस्तादर्श 'शुक्लं मनु...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org