SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ • पञ्चविधसिद्धिप्रदर्शनम् . १०८९ जलाऽऽपूरणवत्पाश्चात्त्यप्रकृत्यापूरणेनैव सिद्धिविशेषोपपत्तेः । तदुक्तं- “जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः' (यो.सू.४/१)। सिद्धिश्चोत्कर्षविशेषः कार्यकारणस्य। 'जात्यन्तरपरिणामः प्रकृत्याऽऽपूरात्' (यो.सू.४/२) = देवदेहपरिणामादिप्रतिबन्धकविघटने सति पाश्चात्त्यप्रकृत्यापूरणेनैव = पाश्चात्त्यानामेव प्रकृतीनामिहैव जन्मनि जात्यन्तराकाराऽऽपूरणद्वारैव सिद्धिविशेषोपपत्तेः = विशिष्टजात्यादिप्रादुर्भावसङ्गतिसम्भवात् । उदाहरणद्वारैतन्निदर्शयति- केदारान्तरे जलाऽऽपूरणवदिति । यथा कृषीवलो जलपूर्णात् क्षेत्राज्जलं केदारान्तरे निनीषुरालवालभङ्गमात्रं करोति, जलं तु गतिस्वाभाव्यात्स्वयमेव गच्छत् केदारान्तरमापूरयति तद्वदित्यर्थः। प्रकृते योगसूत्रसंवादमाह 'जन्मेति । → काश्चन जन्मनिमित्ता एव सिद्धयः । यथा पक्ष्यादीनामाकाशगमनादयः। यथा वा कपिलमहर्षिप्रभृतीनां जन्मसमनन्तरमेवोपजायमाना ज्ञानादयः सांसिद्धिका गुणाः । औषधिसिद्धयो यथा पारदादिरसायनाधुपयोगात् । मन्त्रसिद्धिर्यथा मन्त्रजपात्केषाञ्चिदाकाशगमनादि । तपःसिद्धिर्यथा विश्वामित्रादीनाम् । समाधिसिद्धिः प्राक्प्रतिपादिता । एताः सिद्धयः पूर्वजन्मक्षपितक्लेशानामेवोपजायन्ते । तस्मात् समाधिसिद्धाविवान्यासां सिद्धीनां समाधिरेव जन्मान्तराभ्यस्तः कारणं, मन्त्रादीनि निमित्तमात्राणि - (रा.मा. ४/१ पृ.१७२) इति राजमार्तण्डकारः । सिद्धिस्वरूपमावेदयति सिद्धिश्च = सिद्धिपदप्रतिपाद्यश्च कार्यकारणस्य उत्कर्षविशेषः = कारणोत्कर्षविशेषाऽऽधानद्वारा कार्योत्कर्षविशेषोपधानं सिद्धिरित्यर्थः । ननु नन्दीश्वरादीनां जात्यादिपरिणामोऽस्मिन्नेव जन्मनि दृश्यते तत्कथमस्मिन् जन्मनि जन्मान्तराभ्यस्तस्य समाधेः कारणत्वमुच्यते ? इत्याशङ्कायां योगसूत्रसंवादमाह- 'जात्यन्तरे'ति । 'योऽयमिहैव जन्मनि नन्दीश्वरादीनां जात्यादिपरिणामः स प्रकृत्यापूरात् पाश्चात्त्या एव प्रकृतयोऽमुष्मिन् जन्मनि विकारानापूरयन्ति = जात्यन्तराऽऽकारेण परिणामयन्ति' (रा.मा.४/२ पृ.१७३) इति राजमार्तण्डकारो भोजराजर्षिः । मणिप्रभाकृत् रामानन्दस्तु → 'प्रधानादयः पृथिव्यन्ताः प्रकृतयः, तासां सर्वत्र सत्त्वात् नरादिदेहावयवेषु तासामापूराद् धर्मादिनिमित्तानुरोधेनावयवानुप्रवेशात् जात्यन्तरपरिणामो युज्यते, यथाऽग्निकणस्य प्रकृत्याऽनुग्रहाद् वनादौ बहुतृणादिमण्डलव्यापित्वं तद्वदित्यर्थः' - (म.प्र.४/२ पृ.१७४) इत्याचष्टे । ननु धर्माऽधर्मादयः तत्र क्रियमाणा उपलभ्यन्ते तत्कथं प्रकृतीनामापूरकत्वम् ? इत्याशङ्कायां આકારરૂપે ફેલાઈ જવાથી વિશિષ્ટ જાતિપ્રાદુર્ભાવ વગેરે વિશેષ પ્રકારની સિદ્ધિ સંગત થઈ શકે છે. યોગસૂત્રમાં જણાવેલ છે કે – “જન્મ, ઔષધિ, મંત્ર, તપ અને સમાધિથી સિદ્ધિઓ ઉત્પન્ન થાય છે” ૯ સિદ્ધિનો મતલબ છે કાર્ય-કારણનો વિશિષ્ટ ઉત્કર્ષ. અર્થાત્ કારણમાં ઉત્કર્ષ લાવવા દ્વારા કાર્યમાં વિશિષ્ટ પ્રકારનો ઉત્કર્ષ લાવવો તે સિદ્ધિ કહેવાય છે. યોગસૂત્રમાં કહેલ છે કે – “પ્રકૃતિના આપૂરણથી જાત્યન્તરપરિણામ થાય છે. મતલબ કે પાછલા જન્મની પ્રકૃતિઓ આ મનુષ્ય જન્મમાં જ દેવાદિજાતિ સ્વરૂપ પરિણામને = વિકારને પરિણાવે છે. નંદીશ્વરનું ઉદાહરણ અહીં વિચારવું.) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy