________________
१०८२
• दशविधब्राह्मणविमर्शः •
द्वात्रिंशिका - १५/३२
← (अ.स्मृ.३६०) इत्येवं दशधा विप्राः स्व-स्वकर्मानुसारेण दर्शिताः ततोऽपि ब्राह्मण्यं न जात्या शिष्टलक्षणतया सम्भवत्यवधेयम् । विस्तरतो दशविधब्राह्मणलक्षणानि ततोऽवसेयानि ।
प्रकृतेन जातिः कारणं तात ! गुणाः कल्याणकारणम् । चाण्डालमपि सद्वृत्तं तं देवा ब्राह्मणं विदुः।। ← (म.भा. ५/४२३/१०) इति महाभारतवचनमपि न विस्मर्तव्यम् । तदुक्तं गणेशगीतायामपि → भजन्भक्त्या विहीनो यः स चाण्डालोऽभिधीयते । चाण्डालोऽपि भजन्भक्त्या ब्राह्मणेभ्योऽधिको मम ।। ← (ग.गी.९/८) इति ध्येयम् । ब्राह्मणः शिवपूजारतः । शिवभक्तिविहीनश्चेत् स चण्डाल उपचण्डालः ← (रुद्रो. १) इति रुद्रोपनिषद्वचनात् भवदीयाः शैवा अपि ब्राह्मण्यं न जात्या नियतमिति समामनन्ति ।
एतेन शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् । ब्राह्मण्यं सकलं तस्य इति वेदानुशासनम् ।। ← (शा. १७ ) इति शाट्यायनीयोपनिषद्वचनमपि व्याख्यातम्, तस्य दोषक्षयाऽविनाभाविगुणानुविद्धभावब्राह्मण्यपरत्वात् । नोऽपि तदिष्टम् । अत एव अध्यात्मतत्त्वालोके भवन्ति शुद्रा अपि सच्चरित्रा द्विजा अपि स्युः कुचरित्रशीलाः । न कोऽपि मान्यः खलु जातिमात्राद् गुणा हि पूज्या गुणिनां भवन्ति ।। ← ( अ.त. ८/३९) इति ।
यदपि सत्यं दानं क्षमा शीलमानृशंस्यं तपो घृणा । दृश्यन्ते यत्र नागेन्द्र ! स ब्राह्मण इति स्मृतः ।। ← (म.भा. वनपर्व- १८१/२१) इति महाभारते युधिष्ठिरवचनं, यदपि च भागवतपुराणे → शमो दमः तपः शौचं सन्तोषः क्षान्तिरार्जवम् । मद्भक्तिश्च दया सत्यं ब्रह्मप्रकृतस्त्विमाः ।। ← (भाग.११/१७/१६) इत्युक्तं यदपि योगस्तपो दमो दानं सत्यं शौचं श्रुतं घृणा । विद्या विज्ञानमास्तिक्यमेतद् ब्राह्मणलक्षणम् ।। ← ( व .ध.शा. २१) इति वशिष्ठधर्मशास्त्रे दर्शितं यच्च वशिष्ठस्मृती योगस्तपो दमो दानं सत्यं शौचं दया श्रुतम् । विद्या विज्ञानमास्तिक्यमेतद् ब्राह्मणलक्षणम् ।। ← (व. स्मृ. १/६/२० ) इत्येवं व्याख्यातं यदपि शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् । ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदो विदुः ।। ← ( ब्र.उप. २७) इति ब्रह्मोपनिषदि नारदपरिव्राजकोपनिषदि च निरूपितं यच्चापि लघुहारितस्मृती विद्या- तपोभ्यां सम्पन्नो ब्राह्मणो योगतत्परः ← (ल.हा.स्मृ.७/११) इत्युक्तं यदपि वाचो वेगं मनसः क्रोधवेगं विधित्सावेगमुदरोपस्थवेगम् । एतान् वेगान् यो विषहेदुदीर्णान् तं मन्येऽहं ब्राह्मणं वै मुनिञ्च ।। ← ( म.भा.शांति. २९९/ १४) इति महाभारते दर्शितं यो न लिप्पति कामेसु तमहं ब्रूमि ब्राह्मणं ← (सु. नि. ३/३५ / ३२) इति सुत्तनिपाते कथितं तदपि शिष्टलिङ्गतया कामं युज्यत एव जैनतन्त्रानुवादरूपेण ।
गर्हितकर्मकरणे तु ब्राह्मणस्याऽप्यशिष्टत्वमेव परेषामप्यभिमतम् । तदुक्तं महाभारते ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु । दाम्भिको दुष्कृतः प्राज्ञः शूद्रेण सदृशो भवेत् ।। ← ( महाभा. वनपर्व २१६ / ३-४ ) इति । तदुक्तं मनुस्मृतौ अपि शूद्रो ब्राह्मणतामेति ब्राह्मणश्चैति शूद्रताम् ← (मनु.१०/६५) इति । बौद्धानामपि सम्मतमिदम् । तदुक्तं मज्झिमनिकाये मधुरसूत्रे अपि → ब्राह्मणो જાણવું પણ ઘણું અઘરું પડી જાય છે. માટે જૈનદર્શનમાં દર્શાવેલ શિષ્ટત્વ અને તેના ચિહ્નની વાત खेऽहम व्याजी छे. खावुं सिद्ध थाय छे (14/3२ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org