________________
• ब्राह्मणस्यापि शूद्रतासम्भवः .
१०८१ यत्तु → जन्मना ब्राह्मणो ज्ञेयः संस्काराद् द्विज उच्यते । विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते ।। - (अ.सं. १४०) इति अत्रिसंहितावचनात् श्रोत्रियत्वं शिष्टत्वप्रयोजकमिति, तन्न, सत्यवत्याख्यकैवर्तककन्यादिजातत्वेन व्यासादीनामशिष्टत्वापत्तेः । तदुक्तं शुकरहस्योपनिषदि → व्यासः सत्यवतीसुतः - (शु.रह.२२) इति । एतेन विप्रत्वमेव वेदविद्याप्रयुक्तं शिष्टत्वप्रयोजकमित्यऽप्यपास्तम्, वेदप्रामाण्याभ्युपगमादिलक्षणविद्यायाः प्रागसकृत् शिष्टलक्षणघटकत्वेन निराकरणात्, वेदविद्यायाः परमार्थत आत्मोपलम्भाऽहेतुत्वाच्च । तदुक्तं सुबालोपनिषदि → न वेदैर्न यज्ञैर्न तपोभिरुग्रैर्न साङ्ख्यैर्न योगै श्रमै न्यैरात्मानमुपलभन्ते + (सुबा.९) इति ।
___ एतेन ब्रह्मस्वरूपवेतृत्वं शिष्टलक्षणमित्यपि निरस्तम्, विहितानुष्ठानाऽकारिणि निषिद्धकर्मकारिणि चाऽतिव्याप्त्यापत्तेः । प्रकृते → कुशला ब्रह्मवार्तायां वृत्तिहीनाः सुरागिणः । तेऽप्यज्ञानतया नूनं पुनरायान्ति यान्ति च ।। - (ते.बि. १।४६) इति तेजोबिन्दूपनिषद्वचनमप्यनुसन्धेयम् । यथोक्तं महाभारतेऽपि → हिंसाऽनृतप्रियालुब्धाः सर्वकर्मोपजीविनः । कृष्णाः शौचपरिभ्रष्टास्ते द्विजाः शूद्रतां गताः।। 6 (म.भा.शांति.१८६/१२) इति । → शूद्रोऽपि शीलसम्पन्नो गुणवान् ब्राह्मणो मतः । ब्राह्मणोऽपि क्रियाहीनः शूद्रादप्यधमो भवेत् ।। 6 (ध.स्मृ.२२) इति धर्मस्मृतिवचनमप्यत्र स्मर्तव्यम् ।
यत्तु वज्रसूचिकोपनिषदि → कामरागादिदोषरहितः शम-दमादिसम्पन्नो भावमात्सर्य-तृष्णाऽऽशामोहादिरहितो दम्भाऽहङ्कारादिभिरसंस्पृष्टचेता वर्तते एवमुक्तलक्षणो यः स एव ब्राह्मण इति श्रुतिस्मृतिपुराणेतिहासानामभिप्रायः । अन्यथा हि ब्राह्मणत्वसिद्धिर्नास्त्येव - (वज्र. ब्राह्मण. अधि.४) इत्युक्तं तत्तु शिष्टलिङ्गतयेष्यत एवाऽस्माभिः । मत्स्यपुराणे अपि → ब्रह्मचर्याद् ब्राह्मणस्य ब्राह्मणत्वं विधीयते - (म.पु.१७५/३७) इत्युक्तमित्यवधेयम् । एतेन →
येनकेनचिदाच्छन्नो येनकेनचिदाशितः । यत्रक्वचन शायी च तं देवा ब्राह्मणं विदुः ।। अहेरिव गणाद् भीतः सौहित्यान्नरकादिव । कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः ।। न क्रुध्येन्न प्रहृष्येच्च मानितोऽमानितश्च यः । सर्वभूतेष्वभयदस्तं देवा ब्राह्मणं विदुः ।। 6 (सं.गी.९/७६-७८) इति, → जीवितं यस्य धर्मार्थं धर्मो हर्यर्थमेव च । अहोरात्राश्च पुण्यार्थं तं देवा ब्राह्मणं विदुः ।। निरामिषमनारम्भं निर्नमस्कारमस्तुतिम् । निर्युक्तं बन्धनैः सर्वैः तं देवा ब्राह्मणं विदुः ।।
- (सं.गी.९/८५-८६) संन्यासगीताकारिका अपि व्याख्याताः । महाभारतेऽपि शान्तिपर्वणि एतादृशप्रायः कारिकाप्रबन्धः वर्तते (म.भा.शा.प.१५१/१२-१८) इत्यवधेयम् । → जात्यशिष्टोऽपि विबुधो गुरुर्भवितुमर्हति । कर्माऽशिष्टस्तु कुत्राऽपि न गुरुत्वमवाप्नुयात् ।। - (रा.गी.१७/५४) इति रामगीतावचनतोऽपि ब्राह्मणत्वं न जात्या नियतमिति तात्पर्यवृत्त्या सिध्यति । तदुक्तं कण्ठतोऽपि रामगीतायामेव → चण्डालस्याऽपि विप्रत्वं प्रायश्चित्तेन सम्भवेत् - (रा.गी.९/४२) इति । अविस्मृतौ → देवो मुनिर्द्विजो राजा वैश्यः शूद्रो निषादकः। पशुम्र्लेच्छोऽपि चाण्डालो विप्रा दशविधाः स्मृताः ।।
બીજી મહત્ત્વની વાત એ છે કે દોષક્ષયસ્વરૂપ શિષ્ટત્વ અતીન્દ્રિય હોવા છતાં પણ શમ, સંવેગ, નિર્વેદ - વગેરે ચિહ્નો દ્વારા તેનું જ્ઞાન થઈ શકતું હોવાથી જૈનસંમત શિષ્ટત્વ દુર્રીય નથી. જ્યારે જૈનતરદર્શનકારોની માન્યતા મુજબના લાંબા-પહોળા શિષ્ટત્વના લક્ષણ દ્વારા સામેની વ્યક્તિમાં શિષ્યત્વ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org