SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १०८० • बाह्मणत्वं न जात्या नियतम् • . द्वात्रिंशिका-१५/३२ उर्वशीगर्भसम्भूतो वशिष्ठश्च महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ।। शफरीगर्भसम्भूतो वल्मीकश्च महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ।। क्षत्रवंशसमुत्पन्नो विश्वामित्रो महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ।। कलशीगर्भसम्भूतो द्रोणाचार्यो महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ।। न तेषां ब्राह्मणी माता न संस्कारश्च विद्यते । तपसा ब्राह्मणाः जाताः तस्माज्जातिरकारणम् ।। 6 (म.भा.उद्योग.५/४२३/११ मिता. ) इति । यथोक्तं वज्रसूचिकोपनिषदि अपि → ऋष्यशृङ्गो मृग्याः, कौशिकः कुशात्, जाम्बूको जम्बूकात्, वाल्मीको वल्मिकात्, व्यासः कैवर्तकन्यकायां, शशपृष्ठात् गौतमः, वशिष्ठ उर्वश्यां, अगत्स्यः कलशे जात इति श्रुतत्वात् । एतेषां जातिं विनाप्यग्रे ज्ञानप्रतिपादिता ऋषयो बहवः सन्ति । तस्मान्न जातिर्ब्राह्मणः - (वज्रसू. १३) इति । अन्यत्रापि → हस्तिन्यामचलो जातः उलुक्यां केशकम्बलः । अगस्त्योऽगस्त्यपुष्पाच्च कौशिकः कुशसंस्तरात् ।। कठिनात्कठिनो जातः शरगुल्माच्च गौतमः । द्रोणाचार्यस्तु कलशात् तित्तिरेस्तित्तिरीसुतः ।। रेणुकाऽजनयद्रामं ऋषिशृङ्गं वने मृगी । कैवर्ती जनयेद् व्यासं कक्षीवन्तं च शूद्रिका ।। विश्वामित्रं च चाण्डाली वशिष्टं चैव उर्वशी । विप्रजातिकुलाभावेऽप्येते तात ! द्विजोत्तमाः ।। 6 (श्राद्धदिनकृत्य-२२८, स्वोपज्ञवृत्तौ भाग २/पृष्ठ-५८) इत्युक्तम् । यदपि निरालम्बोपनिषदि → सर्वधर्मान्परित्यज्य निर्ममो निरहड्कारो भूत्वा ब्रह्मेष्टं शरणमुपगम्य (१) 'तत्त्वमसि (२) अहं ब्रह्माऽस्मि (३) सर्वं खल्विदं ब्रह्म, नेह नानास्ति किञ्चने'त्यादिमहावाक्यार्थानुभवज्ञानाद् ब्रह्मैवाहमस्मीति निश्चित्य निर्विकल्पसमाधिना स्वतन्त्रो यतिश्चरति स संन्यासी स मुक्तः स पूज्यः स योगी स परमहंसः सोऽवधूतः स ब्राह्मण इति 6 (निरा.२९) इत्युक्तं ततोऽपि ब्राह्मण्यं न कस्याऽपि जात्या नियतमिति सिध्यति । एतेन → कम्मं विज्जा च धम्मो च सीलं जीवितमुत्तमं । एतेन मच्चा सुज्झन्ति न गोत्तेन धनेन वा ।। - (म.नि. ३/४३/३) इति मज्झिमनिकायवचनमपि व्याख्यातम् । → न ब्राह्मणो बहिवण्णो अन्तोवण्णो हि ब्राह्मणो - (थे.गा.२/१४०) इति थेरगाथावचनमप्यत्र स्मर्तव्यम् । → हीनजच्चो पि चे होति उट्ठाता धितिमा नरो । आचार-सीलसम्पन्नो निसे अग्गीव भासति ।। 6 (जा.१५/५०२/१५७) इति जातकवचनमप्यत्र नैव विस्मर्तव्यम् । कलिकाले तु विशिष्य जन्मतो ब्राह्मणे शिष्टत्वं नैव सम्भवति । तदुक्तं वाल्मीकिरामायणे → राक्षसाः कलिमाश्रित्य जायन्ते ब्रह्मयोनिषु - (वा.रामा. १/१४) इति चिन्तनीयम् । વિશેષાર્થ - ઘણી મહત્ત્વની બાબતો ટીકાર્યમાં જ સ્પષ્ટ કરેલી છે. એક મહત્ત્વની વાત એ છે કે શિષ્ટત્વ તારતમ્યવાળું હોય છે. સમકિતી કરતાં શ્રાવકમાં શિવ ચઢિયાતું હોય. શ્રાવક કરતાં સાધુમાં, સાધુ કરતાં ઉપાધ્યાયમાં, ઉપાધ્યાય કરતાં આચાર્યમાં, આચાર્ય કરતાં તીર્થકર ભગવંત વગેરેમાં શિષ્ટતા ઉત્તરોત્તર ચઢિયાતું હોય છે. આવો સર્વ લોકોનો અસ્મલિત અનુભવ પણ છે. માટે શિષ્ટત્વ તારતમ્યવાળું માનવું જરૂરી છે. જૈનદર્શનની માન્યતા મુજબ શિષ્ટત્વ તારતમ્યવાળું સિદ્ધ થઈ શકે છે. બાકી વેદપ્રામાધ્યસ્વીકાર વગેરે સ્વરૂપ શિષ્ટત્વના સ્વીકારમાં તારતમ્યવાળું શિષ્ટત્વ જરા પણ સંગત થઈ શકતું નથી. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy