________________
• स्वापादिदशायामतिव्याप्तिः .
१०७९ अशिष्टत्ववारणायाऽदृष्टसाधनताऽवच्छेदक'रूपा(प?)पुरस्कारेण निषेधमुखेनाऽदृष्टसाधनताविरोधिरूपाऽपुरस्कारेण चाऽदृष्टसाधनताविषयकत्वविवक्षायामपि स्वापादिदशायां बौद्धादावतिव्याप्तेः । ____एतावदग्रहेऽपि सर्वत्र शमादिलिङ्गेन शिष्टत्वव्यवहाराच्चेति किमनया कुसृष्ट्या ? ।।३२।।
मैवम्, इत्थमुक्तस्थलत्रितये अशिष्टत्ववारणाय शिष्टलक्षणाऽव्याप्तिनिवारणाय अन्वयमुखेन अदृष्टसाधनतावच्छेदकरूपाऽपुरस्कारेण = अदृष्टसाधनताऽवच्छेदकधर्माऽनवच्छिन्नविशेष्यताघटितत्वेन निषेधमुखेन अदृष्टसाधनताविरोधिरूपाऽपुरस्कारेण च = अदृष्टसाधनताविरोधिताऽवच्छेदकधर्माऽनवच्छिन्नविशेष्यताघटितत्वेन च अदृष्टसाधनताविषयकत्वविवक्षायामपि स्वापादिदशायां बौद्धादौ अतिव्याप्तेः, तत्र तदानीं ज्ञानमात्रस्य विरहेण तादृशभ्रमाऽभाववत्त्वस्याऽनपायात् । प्रकृते मूलादर्श मुद्रितप्रतौ च सर्वत्र ‘अदृष्टसाधनतावच्छेदकरूपपुरस्कारेण' इति पाठः । परं सोऽशुद्धः, 'अदृष्टसाधनतावच्छेदकरूपाऽपुरस्कारेण' इत्ययमेव सम्यक् पाठ इत्याभाति । 'अदृष्टसाधनमि'त्युपलक्षणं 'दुरितनाशकमि'त्यस्य । तदुक्तं महाभारते → यद्यकार्यशतं कृत्वा कृतं गङ्गाभिषेचनम्। सर्वं तत् तस्य गङ्गाऽम्भो दहत्यग्निरिवेन्धनम् ।। (म.भा.वन.८५/८९) इति। अत्राऽपि पूर्ववत् 'इदं न दुरितनाशनमि'त्यादयो विकल्पा उद्भाव्याः अव्याप्त्यापादनेन निराकर्तव्याश्च । निरुक्तशिष्टलक्षणे दोषान्तरमाह- एतावदग्रहेऽपि = अदृष्टसाधनतावच्छेदकधर्माऽनवच्छिन्नविशेष्यताद्यभानेऽपि सर्वत्र शमादिलिङ्गेन = आंशिकदोषक्षयाऽविनाभाविप्रशमादिचिह्नन शिष्टत्वव्यवहाराच्चेति न परोक्तं शिष्टलक्षणं निर्दोषम् । दर्शनशुद्धिप्रकरणे शमादयः पञ्च → उवसमसंवेगो वि य निव्वेओ वि य तहेव अणुकंपा । अत्थिक्कं चेव तहा सम्मत्ते लक्खणा पंच ।। - (द.शु.४/४४) इत्येवं तल्लक्षणतयोक्ता इत्यवधेयम् ।
केचित्तु शिष्टत्वप्रयोजिका वैदिकसंस्कारविशिष्टा ब्राह्मणत्वजातिरेवेत्याहुः । तन्न चारु, जन्मतोऽब्राह्मणत्वेऽपि पराशर-व्यासादीनां शिष्टत्वेष्टौ जातेरप्रयोजकत्वात् । तदुक्तं महाभारते मिताक्षरायां च →
श्वपाकीगर्भसम्भूतः पाराशरो महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ।। कैवर्तीगर्भसम्भूतो व्यासो नाम महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ।। हरिणीगर्भसम्भूत ऋषिशृङ्गो महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ।। मण्डुकीगर्भसम्भूतो माण्डव्यश्च महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ।।
ઉત્તરપક્ષ - આ રીતે મિથ્યાજ્ઞાનીય અસાધનહાનિષ્ઠ પ્રકારતાને અન્વયમુખે અદષ્ટસાધનતાઅવછેદકધર્મઅનવગાહીત્વરૂપે અને નિષેધમુખે અદષ્ટસાધનતાવિરોધિધર્માનવગાહીત્વરૂપે વિવક્ષિત કરીને તાદશ મિથ્યાજ્ઞાનાભાવને શિષ્ટલક્ષણ બનાવીને ઉપરોક્ત ત્રણેય સ્થળે અવ્યાપ્તિનું નિરાકરણ કરવાછતાં પણ નિદ્રા, મૂછ વગેરે દશામાં બૌદ્ધમાં ઉપરોક્ત શિષ્ટલક્ષણ રહી જવાથી અતિવ્યાપ્તિ દુર્વાર બનશે. નિદ્રા, મૂછ વગેરે દશામાં આત્મામાં કોઈ પણ પ્રકારનું જ્ઞાન જ ઉત્પન્ન ન થતું હોવાથી ઉપરોક્ત મિથ્યાજ્ઞાનનો અભાવ સૂતેલા બૌદ્ધ, અનાર્ય પુરુષ વગેરેમાં અબાધિત જ રહેવાના લીધે તેને શિષ્ટ માનવા પડશે. માટે ઉપરોક્ત શિષ્ટલક્ષણને સ્વીકારી શકાય તેમ નથી. વળી, બીજી મહત્ત્વની વાત તો એ છે કે અન્વયમુખે અષ્ટસાધનતાઅવચ્છેદકધર્મ અનવગાહી કે નિષેધમુખે અષ્ટસાધનતાવિરોધીધર્મઅનવગાહી મિથ્યાજ્ઞાનનો અભાવ સામેની વ્યક્તિમાં છે કે નહિ? એ ખબર ન પડે તો પણ શમ, સંવેગ વગેરે લિંગોના જ્ઞાન દ્વારા શિષ્ટત્વનો વ્યવહાર તો થાય જ છે.તેથી આવી શિષ્ટલક્ષણની અવનવી કુસૃષ્ટિથી સર્યું. (૧૫૩૨) १. '...करूपपु..' इति अशुद्धः पाठः मुद्रितप्रतौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org