SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १०७८ • भ्रमवैविध्यविमर्शः • द्वात्रिंशिका-१५/३२ रोपाऽनन्तरं 'नाऽदृष्टसाधनमिति भ्रमवतश्च मुच्छिष्टमि'त्यध्यारोपोत्तरकालं 'इदमुच्छिष्टं गङ्गाजलं नाऽदृष्टसाधनं = नैव पुण्यसाधनं' इति भ्रमवतश्च ब्राह्मणस्य अदृष्टसाधनतागोचरभ्रमवत्त्वेन शिष्टलक्षणाऽव्याप्तिरापद्यते । निरुक्ताऽव्याप्तिदोषग्रस्ततयैकान्तवादिसिद्धान्तनीत्या न तस्य स्वतन्त्रलक्षणता युज्यत इत्याशयः ।। ___ ननु अदृष्टसाधनताविषयकमिथ्याज्ञानमत्राऽदृष्टसाधनतावच्छेदकरूपाऽपुरस्कारेण विवक्षितम् । द्वितीयस्थले यद्यपि ब्राह्मणेऽदृष्टसाधनताविषयकं मिथ्याज्ञानं विद्यते तथापि तादृशमिथ्याज्ञानीयाऽदृष्टसाधनतानिष्ठप्रकारताया अदृष्टसाधनताऽवच्छेदकगङ्गाजलत्वावच्छिन्नविशेष्यतानिरूपकत्वान्नाऽव्याप्तिः, अदृष्टसाधनतावच्छेदकगङ्गाजलत्वानवच्छिन्नविशेष्यतानिरूपिताऽदृष्टसाधनतानिष्ठप्रकारतानिरूपकमिथ्याज्ञानाऽभाववत्त्वस्य कूपजलं गङ्गाजलत्वेनाऽवगम्य 'इदं गङ्गाजलमदृष्टसाधनमिति भ्रमवति ब्राह्मणेऽबाधात् । इत्थं अन्वयमुखेन मिथ्याज्ञानस्वरूपमावेदितम् । व्यतिरेकमुखेन तु तादृशमिथ्याज्ञानमदृष्टसाधनताविरोधिरूपाऽपुरस्कारेणाभिमतम् । तथा च न प्रथमस्थलेऽव्याप्तिः । तादृशमिथ्याज्ञानीयाऽदृष्टसाधनत्वाभावनिष्ठप्रकारताया अदृष्टसाधनताविरोधिकूपजलत्वावच्छिन्नविशेष्यतानिरूपितत्वात् । एतेन तृतीयस्थलेऽप्यव्याप्तिः परिहता, तादृशभ्रमीयाऽदृष्टसाधनत्वाभावनिष्ठप्रकारताया अदृष्टसाधनताविरोधितावच्छेदकोच्छिष्टगङ्गाजलत्वावच्छिन्नविशेष्यतानिरूपितत्वात् । __ अयमाशयः- प्रकृतेऽदृष्टसाधनताविषयकोऽन्वयमुखेन भ्रमो द्विविधः कूपजलमुद्दिश्य 'इदं कूपजलमदृष्टसाधनमिति स्वरूपः, कूपजलमुद्दिश्य गङ्गाजलत्वारोपोत्तरं 'इदं गङ्गाजलमदृष्टसाधनमिति स्वरूपश्च । तत्र प्रथमो भ्रमोऽशिष्टत्वाऽऽपादको न तु द्वितीयः । चरमो भ्रमोऽदृष्टसाधनतावच्छेदकधर्मावच्छिन्नविशेष्यतानिरूपिताऽदृष्टसाधनतानिष्ठप्रकारतानिरूपकः प्रथमश्च तद्भिन्नः। अतोऽन्वयमुखेन भ्रमस्थलेऽदृष्टसाधनतावच्छेदकधर्मावच्छिन्नविशेष्यतानिरूपिताऽदृष्टसाधनतानिष्ठप्रकारत्वाऽनिरूपकभ्रमाऽभाववत्त्वं शिष्टलक्षणमुच्यते । एवमेव निषेधमुखेनाऽपि भ्रमो द्विविधः, गङ्गाजलमुद्दिश्य ‘इदं गङ्गाजलं नाऽदृष्टसाधनमिति स्वरूपः, गङ्गाजलमुद्दिश्य कूपजलत्वाऽऽरोपोत्तरं 'इदं कूपजलं नाऽदृष्टसाधनमि'ति स्वरूपश्च । तत्र प्रथमो भ्रमोऽशिष्टत्वप्रयोजको, न तु द्वितीयः। प्रकृते चरमो भ्रमोऽदृष्टसाधनताविरोधितावच्छेदकधर्मावच्छिन्नविशेष्यतानिरूपिताऽदृष्टसाधनत्वाभावनिष्ठप्रकारतानिरूपकः, प्रथमश्च तद्भिन्नः । अतो निषेधमुखेन भ्रमस्थले त्वदृष्टसाधनताविरोधितावच्छेदकधर्मावच्छिन्नविशेष्यतानिरूपिताऽदृष्टसाधनत्वाभावनिष्ठप्रकारत्वाऽनिरूपकभ्रमाऽभाववत्त्वं शिष्टलक्षणमुच्यते। ततो न काचिदव्याप्तिरिति चेत् ? ભ્રમ થયા પછી “આ ગંગાજળ પુણ્યસાધન છે'- આવો ભ્રમ થયેલ છે તેમાં શિષ્ટલક્ષણની અવ્યાપ્તિ નહિ આવે. કારણ કે તેને અન્વયમુખે જે મિથ્યાજ્ઞાન થયેલ છે તે અષ્ટસાધનતાઅવચ્છેદક ગુણધર્મસ્વરૂપ ગંગાજલને આગળ કરીને થયેલ છે, નહિ કે તેને આગળ કર્યા વિના. અમે તો અન્વયમુખે અદષ્ટસાધનતાઅવચ્છેદકધર્મનું અવગાહન ન કરે તેવા મિથ્યાજ્ઞાનનો અભાવ જ્યાં હોય ત્યાં શિષ્ટતા માનીએ છીએ. તેવો અભાવ હાજર હોવાથી શિષ્ટલક્ષણની અવ્યાપ્તિની શક્યતા તે બ્રાહ્મણમાં રહેતી નથી. આમ અન્વયમુખે અદષ્ટસાધના-અવચ્છેદકધર્મઅનવગાહી મિથ્યાજ્ઞાનાભાવવત્ત્વને અને વ્યતિરેકમુખે અદષ્ટસાધનતાવિરોધીધર્મઅનવગાહી મિથ્યાજ્ઞાનાભાવવત્ત્વને શિષ્ટલક્ષણ માનવામાં કોઈ દોષ નહિ આવે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy