________________
१०७२
• यौक्तिकाऽयौक्तिकार्थव्यवस्थाविचारः • द्वात्रिंशिका-१५/३१ निग्रहाभिधानात् । यद् वादी- “जो हेउवायपखंमि हेउओ आगमे अ आगमिओ ।
सो समयपन्नवओ सिद्धंतविराहगो अन्नो ।।" (सं.त.३/४५) इति । भाऽपसिद्धान्तादिनिग्रहस्थानभिन्नं भवति । प्रत्युत यौक्तिकोऽर्थोऽतिगहनोऽपि हेतूदाहरणादिना परिस्फुटमुपलभ्यते । यथोक्तं बृहत्कल्पभाष्ये निशीथभाष्ये च → अंधकारो पदीवेण वज्जए न उ अन्नहा। तहा दिटुंतिओ भावो तेणेव उ विसुज्झई ।। 6 (बृ.क.भा. १००७/नि.भा. ४८६८) इति । अन्यथा = युक्तिबोध्यपदार्थस्य श्रद्धामात्रेण समर्थने कदाग्रहेण वा खण्डने तु निग्रहाभिधानात् = अपसिद्धान्ताद्यभिधाननिग्रहस्थानाऽऽवेदनात् । यद् = यस्माद् वादी सिद्धसेनदिवाकरसूरिः सम्मतितकें बभाण- 'जो' इत्यादि । उपदेशपदे (उ.प. ८५३) पञ्चवस्तुकेऽपि (पं.व. ९९३) चायं श्लोक उद्धृतो वर्तते । ___ अत्र च सम्मतितर्कवृत्तिलेशस्त्वेवम् → यो हेतुवादागमविषयमर्थं हेतुवादाऽऽगमेन तद्विपरीताऽऽगमविषयं चार्थं आगममात्रेण प्रदर्शयति वक्ता स स्वसिद्धान्तस्य द्वादशाङ्गस्य प्रतिपादनकुशलः । अन्यथा प्रतिपादयंश्च तदर्थस्य प्रतिपादयितुमशक्यत्वात् तत्प्रतिपादके वचसि अनास्थादिदोषमुत्पादयन् सिद्धान्तविराधको भवति, सर्वज्ञप्रणीताऽऽगमस्य निस्सारताप्रदर्शनात् तत्प्रत्यनीको भवतीति यावत् + (सं.त. वृ.३/४५) इति । युक्तञ्चैतत् → युक्तिमार्गसहेषु अपि अर्थेषु आगमगम्यत्वमेव पुरस्कुर्वता तेन नास्तिकादिप्रणीतकुयुक्तिनिराकरणाऽभावाद् न श्रोतृणां दृढा प्रतीतिः कर्तुं पार्यते । आगमगम्येषु तु युक्तिपथातीतेषु युक्तिमुद्ग्राहयन् असम्पादितविवक्षितप्रतीतिर्निष्फलारम्भत्वेन स्वयमेव वैलक्ष्यं श्रोतुश्चानादेयस्वभावं प्राप्नुयादिति न सम्यक् सिद्धान्तः तेनाऽऽराधितो भवति, विपरीतव्यवहारित्वात् तस्य 6 (उप. प.८५३) इति उपदेशपदवृत्तौ श्रीमुनिचन्द्रसूरयः । अत एव बृहत्कल्पभाष्ये सम्यक्त्वप्रकरणे च → पंचविहे आयारे जुत्तो सुत्तऽत्थ-तदुभयविहिन्नू । आहरण-हेउ-उवणय-नयनिउणो गाहणाकुसलो ।। ससमय-परसमयविऊ गंभीरो दित्तिमं सिवो सोमो । गुणसयकलिओ जुत्तो पवयणसारं परिकहेउं ।।
6 (बृ.क.भा.२४३-२४४, स.प्र.१५०/१५१) इत्यादिरूपेण सिद्धान्तप्ररूपकस्वरूपमावेदितम् । सर्वत्र हेतूदाहरणान्वेषणे आज्ञागम्यपदार्थोच्छेदप्रसङ्गो बृहत्कल्पभाष्ये निशीथभाष्ये च → न कमति सव्वत्थ दिटुंतो ।। जइ दिटुंता सिद्धी एवमसिद्धी उ आणागेज्झाणं । - (बृ.क.भा. १००३/४, नि.भा. ४८६४/५) इत्येवमावेदितः । हेतुलक्षणं तु विशेषावश्यकभाष्ये → हेऊ अणुगम-वइरेगलक्षणो सज्झवत्थुपज्जाओ 6 (वि.आ.भा. १०७७) इत्येवमावेदितम् ।।
इत्थञ्च युक्तिगम्यार्थस्य युक्तिमृत एव प्रतिपादने हेतुवादगम्यस्याऽऽगमवादग्राह्यत्वाऽऽपादनेनाऽपसिद्धान्तनिग्रहस्थानप्रसङ्गः स्पष्ट एव। अस्थानयोजकतया च तत्र ज्ञानगर्भवैराग्यमपि प्रच्यवते, 'आज्ञयाऽऽगमिकार्थानां यौक्तिकानाञ्च युक्तितः । न स्थाने योजकत्वं चेत् ? न तदा ज्ञानगर्भता।।' (अ.सा.६/३८) इति अध्यात्मसारवचनादिति प्रागुक्तं(भाग-२ पृ.४३३) स्मर्तव्यमत्र । યુક્તિસંગત પદાર્થમાં યુક્તિને દર્શાવ્યા વિના શ્રદ્ધાગ કરે તો નિગ્રહનું સ્થાન બની જાય- એવું શાસ્ત્રમાં જણાવેલ છે. કારણ કે સમ્મતિતર્ક ગ્રંથમાં સિદ્ધસેનદિવાકરસૂરિજી મહારાજે જણાવેલ છે કે – “હેતુવાદપક્ષમાં હેતુથી અને આગમિક પદાર્થમાં આગમથી પ્રતિપાદન કરે તે સ્વસિદ્ધાંતપ્રરૂપક છે. આવું ન કરનાર अथवा विपरीत ४२नार तो निसिद्धान्तनो वि२।५ छ.' -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org