________________
१०६४ • दुर्जेयश्रुतिपरामर्शः •
द्वात्रिंशिका-१५/२८ कस्याश्चिदुरवबोधायाः श्रुतेः विशिष्य = स्वकल्पिताऽर्थाऽनुसारेण तात्पर्याऽग्रहे तन्मानतायाः = 'तत्प्रमाणताया अग्रहात् (तन्मानताऽग्रहात्), स्वतात्पर्ये सर्ववेदप्रामाण्याऽभ्युपगमस्य दुःशकत्वात्। ___ 'अनाकलिततात्पर्यायामपि श्रुतौ प्रमोपहितत्वाऽग्रहेऽपि प्रमाकरणत्वस्य सुग्रहत्वान्न दोष' दिवा रात्रं प्रपूजयेत् ।।' (शां.उप.१/३८) इति शाण्डिल्योपनिषल्लक्षणायाः; 'नान्तःप्रज्ञं, न बहिःप्रज्ञं, नोभयतः प्रज्ञं, न प्रज्ञानघनं, न प्रज्ञं नाऽप्रज्ञ' (मा.उप.१/पृ.५६) इति माण्डूक्योपनिषल्लक्षणायाः; 'तदनुप्रविश्य सच्च त्यच्चाऽभवत्, निरुक्तञ्चाऽनिरुक्तञ्च, निलयनञ्चाऽनिलयनञ्च, विज्ञानञ्चाऽविज्ञानञ्च सत्यञ्चानृतञ्च सत्यमभवत्' (तै.उप.६) इति तैत्तिरीयोपनिषल्लक्षणायाः, वा कस्याश्चिद् दुरवबोधायाः = दुर्जेयतात्पर्यायाः श्रुतेः विशिष्य = स्वकल्पिताऽर्थाऽनुसारेण = स्वोत्प्रेक्षितपदार्थानुसरणतः तात्पर्याऽग्रहे = यथावस्थिताऽभिप्रायानवगमे तत्प्रमाणतायाः = तादृशश्रुतिप्रामाण्यस्य अग्रहात् = अभ्युपगमविरहात् स्वतात्पर्यानुसारिकृत्स्नवेदप्रामाण्याभ्युपगमप्रच्यवादव्याप्तिर्दुर्वारैव । न हि श्रुतित्वावच्छिन्ने सर्वस्य शिष्टस्य प्रामाण्यग्राहक-संयोग-विभाग-वाक्यशेष-विवृत्यादिबलेन प्रामाण्यनिश्चयनियमोऽस्ति । तदुक्तं महाभारते → न वेदानां वेदिता कश्चिदस्ति - (म.भा.उद्योग.१४३/५३) इति । ततश्चैकस्माद् वेदवचनादनेकेष्वर्थेष्वुपस्थितेषु ‘कस्मिन्नर्थे इयं श्रुतिः प्रमाणम् ?' इति संशयाऽऽपत्तौ तात्पर्याऽनिर्णयेन स्वतात्पर्ये = स्वमतिकल्पिततात्पर्यार्थे सर्ववेदप्रामाण्याऽभ्युपगमस्य = कृत्स्नवेदप्रामाण्यनिश्चयस्य दुःशकत्वात् ।
ननु दुरवबोधत्व-तात्पर्यग्राहकविरहादिना अनाकलिततात्पर्यायामपि = अनिश्चितैदम्पर्यायामपि दुरवबोधायां श्रुतौ प्रमोपहितत्वाऽग्रहेऽपि = स्वाऽव्यवहितोत्तरत्वसम्बन्धेन प्रमावैशिष्ट्याऽनिश्चये सत्यपि प्रमाकरणत्वस्य सुग्रहत्वात् = सुज्ञेयत्वात् न = नैवाऽव्याप्तिलक्षणो दोषः । यथा घटोत्पादव्यापृतकुम्भकारहस्तस्थे दण्डे घटोपहितत्वं = स्वाऽव्यवहितोत्तरवर्त्तित्वसम्बन्धेन घटवैशिष्ट्यमस्ति, अरण्यस्थे दण्डे घटोपहितत्वविरहेऽपि घटकरणत्वमनपलपनीयमेव, घटत्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकदण्डत्ववत्त्वस्याऽबाधात् तथैव प्राज्ञश्रूयमाणे वेदवचने प्रमोपहितत्वं वर्तते, मन्दश्रुते वेदवचने तु प्रमोपहितत्वविरहेऽपि प्रमाकरणत्वमनपलपनीयमेव, शाब्दप्रमात्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकाऽऽप्तवाक्यत्वादिलक्षण
આનું કારણ એ છે કે કોઈક અત્યંત અઘરી = દુય હૃતિનું (=વેદવચનનું) પોતે કલ્પેલા અર્થને અનુસારે વિશેષ પ્રકારે તાત્પર્યજ્ઞાન ન થાય ત્યારે તે શ્રુતિવચનનું પ્રામાણ્ય અજ્ઞાત રહેવાથી પોતાના વિશેષ તાત્પર્યની અપેક્ષાએ સર્વવેદવચનપ્રામાણ્યનો સ્વીકાર ન થઈ શકવાથી તે બ્રાહ્મણ વગેરેમાં પણ શિષ્ટલક્ષણની અવ્યાપ્તિ વજલેપ થશે.
પૂર્વપક્ષ :- પોતાના તાત્પર્ય મુજબ સર્વ વેદવચનોમાં પ્રામાણ્યનો બોધ થવો તો અત્યંત મુશ્કેલ છે. બધા વિદ્વાનોને બધા વેદવચનોમાં પોતાના વિશિષ્ટ તાત્પર્ય મુજબ અર્થઘટન કરીને તમામ વેદવચનનું પ્રામાણ્ય જાણી શકવું તો ખૂબ જ અઘરું હોવાના કારણે જે વેદવચનનું તાત્પર્ય વિશેષરૂપે જાણી નથી શકાયું તે વેદવચનમાં પ્રમાપિહિતત્વનો = સ્વઅવ્યવહિતોત્તરત્નસંબંધથી પ્રમાવૈશિટ્સનો નિશ્ચય ન થવા છતાં પણ વેદવચનમાં સામાન્યથી પ્રમાકરણત્વનો = પ્રમાસાધનતાનો નિશ્ચય થવો સરળ હોવાથી અવ્યાપ્તિને અવકાશ નહિ રહે.
१. 'तप्रमा'... इत्यशुद्धः पाठो मुद्रितप्रतौ । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org