________________
१०६५
• यावन्तः परसमयाः तावन्तो नयाः • इत्यत आह- सामान्यतो नयरूपत्वेन स्वतात्पर्ये स्वाऽभिप्राये प्रामाण्यं = वेदप्रामाण्यं नः = अस्माकं जैनानां अपि सम्मतम् । ' यावन्तो हि परसमयास्तावन्त एव नया' इति श्रुतपरिकर्मितमतेः सर्वमेव शब्दं प्रमाणीकुर्वतः सकलवेदप्रामाण्याऽभ्युपगमोऽनपाय एवेति ।। २८ । । एतदेवाऽऽह - धर्मवत्त्वस्याऽबाधादिति श्रुतित्वावच्छिन्ने प्रामाण्यापराभिधानस्य प्रमाकरणत्वस्य सुग्रहत्वात् स्वतात्पर्ये कृत्स्नवेदप्रामाण्याभ्युपगमस्य न दुःशकत्वमिति नाऽव्याप्तिप्रसङ्ग इति अतः = पूर्वपक्ष्याशङ्कातः तन्निराकरणाय ग्रन्थकार आह- नयरूपत्वेन = नैगमादिनयरूपतया स्वाभिप्राये = तत्तन्नयाभिप्राये तु वेदप्रामाण्यं जैनानामपि सम्मतं व नयस्यापि स्वविषये प्रामाण्याभ्युपगमात् । तदुक्तं सम्मतितर्फे 'णिययवयणिज्जसच्चा सव्वणया' (सं.त. १/२८) इति । एतेन नीयते संवित्तिं प्राप्यते वस्तु अनेनेति न्यायः प्रस्तुतार्थसाधकं प्रमाणम् ← (वि. आ. २४८३ वृत्ति) इति विशेषावश्यकभाष्यमलधारवृत्तिवचनमपि व्याख्यातम् । स्याद्वादकल्पलता (७/१०/पृ.६०) दर्शितरीत्या नयवाक्येऽनेकान्तवस्तुग्राहकत्वरूपस्य प्रमाणवाक्यनिष्ठस्य प्रमाणत्वस्य विरहेऽपि तद्वति तत्प्रकारकबोधजनकत्वस्य, समारोपव्यवच्छेदकत्वस्य निर्धार - कत्वस्य इतरांशाऽप्रतिक्षेपित्वस्य वा प्रमाणत्वस्य सत्त्वादतिव्याप्तिर्वज्रलेपायितैव ।
=
=
=
यद्वा जिनागमप्रामाण्याऽभ्युपगमे सकलवेदप्रामाण्यमपि यथानयमभ्युपगतमेवानेकान्तवादिभिः, सर्ववेदानां तत्र प्रतिष्ठितत्वात् । तदुक्तं बुद्धिसागरसूरिभिः जैनगीतायां सर्वज्ञवीरवाण्यां हि सर्वे वेदाः प्रतिष्ठिताः ← (जै.गी. २८) वीरवाणीमहावेदः सिद्धान्तो विश्वपावकः ← (जै.गी. १५० ) इति । 'जावइया वयणपहा तावइया चेव होंति णयवाया। जावइया णयवाया तावइया चेव परसमया ।।' (सं.त.३/ ४७) इति प्रागुक्तात् (द्वा. द्वा. ४ / २२, भाग - १ पृ. २८४) सम्मतितर्कवचनात् जावन्तो वयणपहा तावन्तो वा नया विसद्दाओ । ते चेव परसमया सम्मत्तं समुविया सव्वे ।। ← (वि. आ.भा. २२६५ ) इति विशेषावश्यकभाष्यवचनात् → जावदिया वयणपहा तावदिया चेव होंति णयवादा। जावदिया णयवादा तावदिया चेव होंति परसमया । । ← (गो. सा. कर्म. ८९४ ) इति गोम्मटसारवचनाच्च, 'यावन्तो हि परसमयास्तावन्त एव नया, यावन्तश्च नयास्तावन्त एव वचनप्रकाराः समुदितसर्वतन्त्रसिद्धान्ते चैव सम्यक्त्वम्' इति श्रुतपरिकर्मितमतेः सर्वमेव शब्दं तत्तन्नयाभिप्रायेण प्रमाणीकुर्वतः स्याद्वादिनः सकलवेदप्रामाण्याभ्युपगमः अनपायः = अव्याहत एवेति दुर्वारैव तत्र शिष्ट लक्षणाऽतिव्याप्तिः । प्रकृते इय सव्वनय-मयाइं परित्तविसयाई, समुदियाई तु । जइणं बज्झब्भंतरनिद्देसनिमित्तसंगाहि ।। ← (वि.आ. भा. १५३०) इति विशेषावश्यकभाष्यवचनमपि यथातन्त्रं योज्यम् ।।१५/२८ ।।
આ વેદમાં પણ સાપેક્ષ પ્રામાણ્ય માન્ય
ઉત્તરપક્ષ :- સામાન્યથી નયસ્વરૂપે પોતાના અભિપ્રાય વિશે તો વેદપ્રામાણ્ય અમને = જૈનોને પણ માન્ય છે. કારણ કે ‘જેટલા પરદર્શનો છે તેટલા જ નયવાદ છે’- આવા જિનવચનથી જેની બુદ્ધિ પરિકર્મિત થયેલી છે તે પ્રાજ્ઞ પુરુષ તો બધા જ શાસ્ત્રવચનને, તમામ દર્શનોના વચનોને અલગ-અલગ નયની અપેક્ષાએ પ્રમાણ રૂપે સ્વીકારે છે. તેથી સર્વ વેદવચનોનું પ્રામાણ્ય પણ તે રીતે સ્વીકારવાનું નિશ્ચિત જ બને છે. (૧૫/૨૮)
વિશેષાર્થ :- પ્રમાઉપહિત વેદવચન એટલે શ્રવણ પછી તરત જ સાંભળનારમાં પ્રમાસ્વરૂપ બોધને ઉત્પન્ન કરે તેવું વેદવચન. અર્થાત્ સ્વઅવ્યવહિતઉત્તરત્વસંબંધથી પ્રમાવિશિષ્ટ એવું વેદવચન. જે વેદવચનને સાંભળીને શ્રોતાને પ્રમાત્મક બોધ ઉત્પન્ન થાય તે વેદવચન પ્રમાઉપહિત કહેવાય. જ્યાં સુધી વેદવચનનું १. हस्तादर्शे ... यप्रामाण्यं' इत्यशुद्धः पाठः । मुद्रितप्रतौ च 'स्वाऽभिप्रायप्रामाण्ये' इत्यशुद्धः पाठः I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org