________________
• आंशिकवेदप्रामाण्यग्रहनिवेशेऽतिव्याप्तिः •
द्वात्रिंशिका-१५/२७
यत्किञ्चिद्वेदप्रामाण्यं च बौद्धादयोऽप्यभ्युपगच्छन्ति “न हिंस्यात् सर्वभूतानि ” ( छान्दोग्योपनिषत्अ.८), “अग्निर्हिमस्य भेषजम्” (यजुर्वेद - २३/१०) इत्यादिवचनानां तेषामपि सम्मतत्वादिति । “स्वतात्पर्यात् स्वाऽभिप्रायमपेक्ष्य आद्यग्रहे = यावद्वेदप्रामाण्याभ्युपगमनिवेशे' न दोषः, 'स्व-स्वतात्पर्ये प्रमाणं श्रुतिरिति हि सर्वेषां नैयायिकादीनामभ्युपगमः” इति चेन्मति: ← (मुण्ड. उप.२/२/८) इति मुण्डकोपनिषदुक्तिं ज्ञानान्मुक्तिप्रतिपादनपरां वेदान्त्यभिमतां मीमांसकादयो नैव प्रमाणयन्ति । 'तस्मिंश्चिद्दर्पणे स्फारे समस्ता वस्तुदृष्टयः । इमास्ताः प्रतिबिम्बन्ति सरसीव तटद्रुमाः ।।” (अन्न.उप.४/७१) इति अन्नपूर्णोपनिषदुक्तिं पुरुषप्रतिबिम्बप्रतिपादनपरां साङ्ख्याद्यभिमतां नैयायिक-वेदान्ति-मीमांसकादयो न प्रमाणयन्ति । 'धाता यथापूर्वमकल्पयत्' (ऋ. वे. १०/१९०/३) इति ऋग्वेदोक्तिं ईशप्रेरणाप्रतिपादनपरां पातञ्जलयोगदर्शनानुगाम्याद्यभिमतां साङ्ख्य-मीमांसकादयो नैव प्रमायन्ति । कियन्ति च तादृशवचनानि दर्श्यन्ते ? ततश्च तेष्वव्याप्तिर्दुर्वारैव ।
१०६२
=
देशतो वेदप्रामाण्याभ्युपगमस्य शिष्टलक्षणमध्यनिवेशे चाऽतिव्याप्तिः दुर्वारैव, यतो यत्किञ्चिद्वेदप्रामाण्यं च = खलु बौद्धादयोऽपि भवतां शिष्टत्वेनाऽनभिमता अभ्युपगच्छन्ति एव । न हिंस्यात् सर्वभूतानि' (छां. अध्याय-८), 'अग्निर्हिमस्य भेषजम्' (य. वे. २३/१०) इत्यादिवचनानां छान्दोग्योपनिषद्यजुर्वेदाद्युक्तानां, आदिपदेन “न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न इत्येषा परमार्थता ।।” (अव.उप.८, त्रिपु.५/१०, आत्मो . ३१) इति अवधूतोपनिषदः त्रिपुरातापिन्युपनिषद् आत्मोपनिषदश्च वचनस्य पूर्वोक्तस्य (पृ.७३४) तेषामपि = विज्ञानवादिनां शून्यवादिनाञ्च सम्मतत्वादिति । 'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति, न प्रेत्यसंज्ञाऽस्ति' (बृ.आ.२/४/१२) इति बृहदारण्यकोपनिषदुक्तिं परलोकनिषेधपरतया चार्वाका अपि प्रमाणयन्तीति तेषामपि शिष्टत्वप्रसङ्गो दुर्निवार एव ।
=
-
ननु शिष्टलक्षणमध्ये स्वाभिप्रायमपेक्ष्य यावद्वेदप्रामाण्याभ्युपगमनिवेशे न अव्याप्तिलक्षणो दोषः प्रसज्यते, हि सिद्धायस्मात् 'स्व-स्वतात्पर्ये श्रुतिः प्रमाणमिति सर्वेषां नैयायिकादीनां अभ्युपगमः न्तः । 'यज्ञे वधोऽवध' (छां. उप. ८/१५/१) इति छान्दोग्योपनिषद्वचनं वधाऽऽभासतापरमिति तात्पर्येण वेदान्ति-सांख्य-पातञ्जलानुयायिनोऽभ्युपयन्ति प्रमाणत्वेन । 'ऋतं पिबन्तौ' इति (कठो. १/३/१ ) इति कठोपनिषद्वचनमीश्वरगतौपचारिकभोगपरमिति तात्पर्येण प्रमाणतयाऽभ्युपगच्छन्ति नैयायिकादयः । पूर्वोक्तां (पृ.१०६१) 'अनश्न्नन्योऽभिचाकशीति' (मुण्डको ३/१/१) इति मुण्डकोपनिषदुक्तिं अभिमानपूर्वक-सुखाद्यनुभवलक्षणसांसारिकभोगनिषेधतात्पर्यमुन्नीय पातञ्जलाः प्रमाणयन्त्येव । ' आत्मैवेदं सर्वमिति ( छान्दो. ७/१५/२) તમામ વેદોને પ્રમાણભૂત માનતા નથી. તથા ગમે તે વેદવચનનું પ્રામાણ્ય જો શિષ્ટલક્ષણમાં વિવક્ષિત હોય તો બૌદ્ધ વગેરેમાં શિષ્ટ લક્ષણની અતિવ્યાપ્તિ આવશે. કારણ કે ‘સર્વ જીવોને મારવા નહિ.' ‘અગ્નિ હિમનું = ઠંડીનું ઔષધ છે' વગેરે વેદવચનોને બૌદ્ધ વગેરે પણ પ્રમાણરૂપે સ્વીકારે છે. પૂર્વપક્ષ :- પોતાના અભિપ્રાયની અપેક્ષાએ યાવદપ્રામાણ્યસ્વીકારનો શિષ્ટલક્ષણમાં અમે પ્રવેશ કરીએ છીએ. તેથી તેમાં કોઈ દોષ નહિ આવે. કારણ કે નૈયાયિક વગેરે વિદ્વાનો પણ તમામ વેદવચનને પોત-પોતાના તાત્પર્યમાં પ્રમાણભૂત જ માને છે.
१. हस्तादर्शे '... पगमे निवेशे' इति अशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
=
www.jainelibrary.org