SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ • कृत्स्नवेदप्रामाण्याभ्युपगमाऽसम्भवः १०६१ अपि चाव्याप्त्यतिव्याप्ती कार्न्य देशविकल्पतः । आद्यग्रहे स्वतात्पर्यान्न दोष इति चेन्मतिः ।। २७ ।। अपि चेति। अपि च कार्त्स्य- देशविकल्पतः = कृत्स्नवेदप्रामाण्याऽभ्युपगमो विवक्षितो देशभ्युपगमो वा ? इति विवेचने अव्याप्त्यतिव्याप्ती । कृत्स्नवेदप्रामाण्याऽभ्युपगमस्य ब्राह्मणेष्वप्यभावात् । न हि वेदान्तिनो नैयायिकाद्यभिमतां श्रुतिं प्रमाणयन्ति, नैयायिकादयो वा वेदान्त्यभिमताम् । यद्यप्येवमप्येकस्मिन्नेव जन्मनि प्राग् वेदप्रामाण्यमभ्युपगम्य पश्चात् तिरस्कृत्य पुनश्च तदभ्युपगन्तरि ब्राह्मणेऽव्याप्तिर्दुर्वारैव, वेदप्रामाण्यग्रहोत्तरकालस्य वेदाऽप्रामाण्यग्रहध्वंसाऽऽधारतया तादृशब्राह्मणनिष्ठस्य वेदाऽप्रामाण्यग्रहाऽभावस्य स्वोत्तरवर्त्तिवेदाऽप्रामाण्यग्रहध्वंसाऽनाधारत्वविशिष्टवेदप्रामाण्यग्रहोत्तरकालवृत्तित्ववैशिष्ट्यशून्यत्वात् तथापि स्फुटत्वादेतद्दोषमुपेक्ष्य प्रकारान्तरेण तन्निराकरणाय ग्रन्थकार आह- 'अपी'ति । ननु प्रकृतशिष्टलक्षणमध्यप्रविष्टस्वारसिकवेदप्रामाण्यग्रहपदेन किं कृत्स्नवेदप्रामाण्याभ्युपगमो विवक्षितः देशतदभ्युपगमो वा = आंशिकवेदप्रामाण्याऽभ्युपगमो वा ? इति विवेचने विकल्पोद्भावने यथाक्रमं अव्याप्त्यतिव्याप्ती प्रसज्येते तथाहि - कृत्स्नवेदप्रामाण्याभ्युपगमस्य शिष्टत्वेन भवदभिमतेषु ब्राह्मणेषु अपि अभावाद् अव्याप्तिप्रसङ्गः । न हि वेदान्तिनः = ब्रह्माद्वैतवादिनः नैयायिकाद्यभिमतां श्रुतिं द्वैतवादिनैयायिक-साङ्ख्य-योग-मीमांसकाद्यभिमतार्थपरतया प्रमाणयन्ति । नैयायिकाभिमतां 'अहिंसन्सर्वाणि भूतान्यन्यत्र तीर्थेभ्यः, तस्माद् यज्ञे वधोऽवधः' (छां. उप. ८/१५/१) इति छान्दोग्योपनिषदुक्तिं याज्ञिकहिंसानिर्दोषत्वसमर्थनपरतया वेदान्तिनो नैव प्रमाणयन्ति । ईश्वरीयाऽऽनन्दाऽनभ्युपगन्तारो नैयायिकादयो वा ऋतं पिबन्तौ ← (कठो. १/३/१) इति कठोपनिषदुक्तिं ईश्वरस्य भोगप्रतिपादनपरां वेदान्त्यभिमतां 'न प्रमाणयन्ती 'त्यत्रानुवर्तनीयम् । ‘अनश्न्नन्योऽभिचाकशीति' (ऋ.वे.१/१६४/२०, मुण्डको ३/१/१) इति ऋग्वेद-मुण्डकोपनिषदुक्तिं परमात्मभोगनिषेधपरां नैयायिकाद्यभिमतां पातञ्जलानुयायिनो न प्रमाणयन्ति । 'आत्मैवेदं सर्वं ब्रह्मैवेदं सर्वं ← (छां. उप. ७/ १५/२) इति ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्' (छान्दो.६/१/१) इति च छान्दोग्योपनिषदुक्तिं आत्मेतरमिथ्यात्वप्रतिपादनपरां वेदान्त्यभिमतां नैयायिक-साङ्ख्य-योग-वैशेषिकादयो नैव प्रमाणयन्ति । → 'इन्द्रो मायाभिः पुरुरूप ईयते' ← (ऋ. वे. ६/४७/१८ ) इति ऋग्वेदोक्तिं ईश्वरे मायापरिणामप्रतिपादनपरां वेदान्त्यभिमतां नैयायिकादयो नैव प्रमाणयन्ति । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे' • ગાથાર્થ :- વળી, સંપૂર્ણતા અને એક દેશના વિકલ્પની અપેક્ષાએ ક્રમશઃ અવ્યાપ્તિ અને અતિવ્યાપ્તિ આવશે. ‘સ્વતાત્પર્યની અપેક્ષાએ યાવદપ્રામાણ્યગ્રહોનો પ્રવેશ કરવામાં કોઈ દોષ નથી' આવી જો પૂર્વપક્ષીની મતિ હોય. [તો તે વ્યાજબી નથી.- આ વાત આગળની ગાથામાં જણાવવામાં આવશે.] ( १५/२७) १. हस्तादर्शे 'च' नास्ति । २. मुद्रितप्रत ટીકાર્થ :- વળી, શિષ્ટલક્ષણમાં સંપૂર્ણવેદપ્રામાણ્યનો સ્વીકાર વિવક્ષિત છે કે આંશિક વેદપ્રામાણ્યસ્વીકાર? જો પ્રથમ વિકલ્પ માન્ય કરવામાં આવે તો અવ્યાપ્તિ દોષ આવશે. કારણ કે બ્રાહ્મણોમાં તમામ વેદોનું પ્રામાણ્ય માન્ય નથી. નૈયાયિક વગેરેને માન્ય દ્વૈતપ્રતિપાદક વેદવચનો વેદાન્તીઓને માન્ય નથી અને વેદાન્તિઓને માન્ય અદ્વૈતપ્રતિપાદક વેદવચનો નૈયાયિક વગેરે બ્રાહ્મણોને માન્ય નથી. આમ બ્રાહ્મણો Jain Education International = ..णेष्वभा...' इति पाठः । For Private & Personal Use Only www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy