________________
१०२६
• भव्यत्व-तथाभव्यत्वव्याख्यावैविध्यम् • द्वात्रिंशिका-१५/१३ भव्यत्वं नाम सिद्धिगम'नयोग्यत्वं अनादिपारिणामिको भावः । तथाभव्यत्वं चैतदेव कालनैयत्यादिना प्रकारेण वैचित्र्यमापन्नं । एतभेद एव च बीजसियादिफलभेदोपपत्तिः ।
योगबिन्दुवृत्त्यनुसारेणाह- ‘भव्यत्वमि'त्यादि । → भव्वा जिणेहि भणिया इह खलु जे सिद्धिगमणजोग्गा उ । ते पुण अणाइपरिणामभावओ हुंति नायव्वा ।। - (श्रा.प्र.६६) इति श्रावकप्रज्ञप्ती उमास्वातिवाचकाः । → भव्या सिद्धिः यस्याऽसौ भव्यः, उत्तरपदलोपात्, भीमादिवत्, भव्य एव भव्यत्वम् 6 (त.सू. २/८ वृ.) इति तत्त्वार्थसूत्रवृत्तौ सिद्धसेनगणिवराः । → भाविनी सिद्धिर्यस्यासौ भव्यसिद्धिकः = भव्यो जीवः - (वि.आ.२७१२) इति विशेषावश्यकवृत्तौ हेमचन्द्रसूरयः ।
अनादिपारिणामिको भाव इति । 'परिणमनं = परिणामः = कथञ्चिदवस्थितस्य वस्तुनः पूर्वावस्थापरित्यागेनोत्तरावस्थागमनं, स एव तेन वा निवृत्तः = पारिणामिकः' (प्र.सारो.१२९० वृ.) इति प्रवचनसारोद्धारवृत्तौ सिद्धसेनसूरयः । ‘पारिणामिकशब्देन च द्रव्य-भावप्राणावस्थाऽऽख्यः परिणाम उच्यते । तथा सेधनयोग्यः परिणामः भव्यः' (त.सू.२/२ वृ.पृष्ठ १४०) इति तत्त्वार्थसूत्रवृत्तिकृतः। → भव्याः = अनादिपारिणामिक-सिद्धगमनयोग्यतायुक्ताः - (नं.सू.५७ म.वृ.पृष्ठ-२४८) इति नन्दिसूत्रवृत्तौ श्रीमलयगिरिसूरयः । तत्त्वार्थसूत्रे अपि → जीव-भव्याऽभव्यत्वादीनि च - (त.सू.२/७) इति पारिणामिकभावप्रदर्शनावसरे भव्यत्वमदर्शि उमास्वातिवाचकैः । अत्राऽऽदिपदेन अस्तित्वं, अन्यत्वं, कर्तृत्वं, भोक्तृत्वं, गुणवत्त्वं, असर्वगतत्वं, अनादिकर्मसन्तानबद्धत्वं, प्रदेशवत्त्वं, अरूपत्वं, नित्यत्वमित्येवमादयोऽपि अनादिपारिणामिका जीवस्य भावा गृहीताः (त.सू.भा.२/७) इति व्यक्तं तत्त्वार्थभाष्ये । उपलक्षणात् 'लोकस्थितिरलोकस्थितिधर्मास्तिकायत्वमित्यादिरूपस्त्वनादिपारिणामिकः' (प्र.सारो. १२९४) इति प्रवचनसारोद्धारवृत्तिकृतः इत्यलं प्रसङ्गेन ।
एतदेव = भव्यत्वमेव कालनैयत्यादिना = कालविशेष-नियति-कर्मादिलक्षणेन प्रकारेण सद्धर्मप्रशंसा-चिन्ता-श्रवणाऽनुष्ठानादिलक्षणबीजसिद्धिभावतः वैचित्र्यं = वैविध्यं आपन्नं सांसिद्धिकं कालाद्याक्षेपकं तथाभव्यत्वं कथ्यते । यथोक्तं योगबिन्दौ → सांसिद्धिकमिदं ज्ञेयं सम्यक् चित्रञ्च देहिनाम् । तथाकालादिभेदेन बीजसिद्धयादिभावतः ।। (यो.बि.२७५) इति । तवृत्तिस्त्वेवम् → सांसिद्धिकं = आत्मसमकालोद्भवं इदं = तथाभव्यत्वं ज्ञेयं सम्यक् = यथावत् चित्रं च = नानारूपं पुनः देहिनाम् । कथमित्याह- तथा = तत्प्रकारा ये कालादयः काल-स्वभावादयः कारणप्रकारास्तेषां भेदेन = वैचित्र्येण बीजस्य धर्मप्रशंसादेः सिद्धिः = लाभः आदिशब्दाद्धर्मचिन्ता-श्रवणाऽनुष्ठानादिग्रहः तेषां भावतः = भावात् + (यो.बि. २७५ वृत्ति) इति । धर्मबिन्दुवृत्तौ श्रीमुनिचन्द्रसूरिभिरपि → भव्यत्वं नाम सिद्धिगमनयोग्यत्वं अनादिपारिणामिको भाव आत्मसतत्त्वमेव । तथाभव्यत्वं तु भव्यत्वमेव कालादि
જ તથાભવ્યત્વ વિચારણા હ भव्यत्वं.। भोक्षम पानी योग्यता मेटर भव्यत्व. मा भव्यत्व अनादीन पारिभि ભાવ છે. અને આ જ ભવ્યત્વ ચોક્કસ પ્રકારના કાળ વગેરે સ્વરૂપે વિવિધતાને ધારણ કરે ત્યારે તથાભવ્યત્વ કહેવાય. બીજા જીવોના તથાભવ્યત્વ કરતાં તીર્થંકર પરમાત્માઓનું તથાભવ્યત્વ જુદું હોય તો જ બીજસિદ્ધિ વગેરેમાં તારતમ્યરૂપ ફલભેદની સંગતિ થઈ શકે. १. 'गयन' इति मुद्रितप्रतावशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org