________________
• तथाभव्यत्ववैचित्र्यसमर्थनम् •
१०२७ अन्यथा तुल्यायां योग्यतायां सहकारिणोऽपि तुल्या एव भवेयुः तुल्ययोग्यतासामर्थ्याऽऽक्षिप्तत्वातेषामिति सद्बोधेर्योग्यताभेद एव पारम्पर्येण तीर्थकरत्वनिबन्धनमिति भावनीयम् ।।१३।। भेदेनात्मनां बीजसिद्धिभावात् नानारूपतापन्नम् - (ध.बि.व.२/६८) इत्युक्तम् । उपदेशपदवृत्तौ अपि तैरेव → भव्यत्वं नाम सिद्धिगमनयोग्यत्वं अनादिपारिणामिको भावः । तथाभव्यत्वन्त्वेतदेव विचित्रं द्रव्य-क्षेत्रादिभेदेन जीवानां बीजाधानादिहेतुः (उ.प.वृ.गा.१६३) इत्युक्तम् । उपदेशपदेऽपि श्रीहरिभद्रसूरिभिः → तहभव्वत्तं चित्तं अकम्मजं आयतत्तमिह णेयं । फलभेया तह कालाइयाणमक्खेवगसहावं ।। - (उ.प.९९९) इत्युक्तम् । स्याद्वादकल्पलतायां प्रकृतग्रन्थकृता → मुक्तत्वप्रयोजिका सामान्यतोऽभव्यव्यावृत्ता जातिभव्यत्वमिति गीयते, प्रत्यात्म तथातथापरिणामितया समुपात्तविशेषा च तथाभव्यत्वम् (स्या.क.९/६) इति व्याख्यातं तदप्येतदर्थानुपात्येव ।
ननु समानेऽपि भव्यत्वे सहकारिभेदात् फलभेदो भविष्यतीति किं योग्यतावैचित्र्याऽभ्युपगमेन ? इत्याशङ्कायामाह- ‘अन्यथेति। तुल्यायां = सर्वथा समानायां योग्यतायां = मुक्तिगमनाऽर्हतायां सद्धर्मप्रशंसादिबीजसिद्धयादियोग्यतायां वा स्वीक्रियमाणायां तु सहकारिणः = बीजसिझ्यादिनिमित्तभूताः काल-क्षेत्र-नियति-कर्मादयः अपि सर्वेषां तीर्थकराऽतीर्थकरादीनां तुल्याः = सर्वथा समाना एव भवेयुः, तुल्ययोग्यतासामर्थ्याऽऽक्षिप्तत्वात् = सर्वथा समानायाः बीजसिद्ध्यादियोग्यतायाः सामर्थ्येन आकृष्टत्वात् तेषां = सहकारिणाम् । इदमेवाऽभिसन्धायोक्तं योगबिन्दौ →
सर्वथा योग्यताऽभेदे तदभावोऽन्यथा भवेत् । निमित्तानामपि प्राप्तिस्तुल्या यत्तन्नियोगतः ।। अन्यथा योग्यताऽभेदः सर्वथा नोपपद्यते । निमित्तोपनिपातोऽपि यत्तदाक्षेपको ध्रुवम् ।। योग्यता चेह विज्ञेया बीजसिद्ध्याद्यपेक्षया । आत्मनः सहजा चित्रा तथाभव्यत्वमित्यतः ।। वरबोधेरपि न्यायात् सिद्धिों हेतुभेदतः । फलभेदो यतो युक्तस्तथा व्यवहितादपि ।।
- (यो.बि.२७६-२७९) इति प्रागुक्तं(पृ.२२०) स्मर्तव्यम् । पञ्चसूत्रेऽपि → तहाभब्वत्ताइभावओ, विचित्तमेअं तहाफलभेएण, नाऽविचित्ते सहकारिभेओ, तदविक्खो तओत्ति – (पं.सू.५/३) इत्युक्तम् । 'तथाफलपरिपाकीह तथाभव्यत्वम् । अत एवाह विचित्रं एतत् = तथाभव्यत्वादि । कुतः ? इत्याहतथाफलभेदेन = कालादिभेदभाविफलभेदेन' (पं.सू.५/३ वृ.) इति तद्वृत्तौ श्रीहरिभद्रसूरयः ।
ललितविस्तरायामपि → भव्यत्वं नाम सिद्धिगमनयोग्यत्वं, अनादिपारिणामिको भावः । तथाभव्यत्वमिति च विचित्रमेतत्, कालादिभेदेनाऽऽत्मनां बीजादिसिद्धिभावात्, सर्वथा योग्यताऽभेदे तदभावात् । तत्सहकारिणामपि तुल्यत्वप्राप्तेः, अन्यथा योग्यताऽभेदाऽयोगात्, तदुपनिपाताक्षेपस्यापि तन्निबन्धनत्वात् 6 (ल.वि.पृ.३२) इत्युक्तम् । इत्थमेव वरबोधेः तीर्थकरत्वनिबन्धनत्वं युज्यत इत्यवधेयम् ।
यत्तु दिगम्बरीयपञ्चसङ्ग्रहे → सम्मत्तगुणनिमित्तं तित्थयरं 6 (दि.पं.सं. अधि. २/१२ पूर्वार्ध) इत्युक्तं तत्तु सामान्याऽऽदेशेनाऽवगन्तव्यम् ।
प्रकृतोपसंहारमाह- सद्बोधेः योग्यताभेद एव स्वीक्रियमाणः पारम्पर्येण = कालक्रमेण विंशति
બાકી તો યોગ્યતા = મુક્તિગમનયોગ્યતા = ભવ્યતા સર્વ ભવ્ય જીવોમાં સર્વથા સમાન જ માનવામાં આવે તો સહકારી કારણો પણ બધાને સમાન જ મળે. કારણ કે સમાન યોગ્યતાના સામર્થ્યથી જ સહકારી કારણો ખેંચાઈને આવેલા હોય છે. આ કારણે સબોધિની યોગ્યતા જુદા જ પ્રકારની માનવામાં
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org