________________
• बोधिसत्त्वस्य विंशतिः गुणाः •
द्वात्रिंशिका - १५/१२
=
कल्याणप्रापकपथयायी, महाशयः = स्फीतचित्तः, गुणरागी गुणानुरागवान्, तथा इति बोधिसत्त्वगुणान्तरसमुच्चयार्थः, इत्यादि शास्त्रान्तरोक्तं सर्वं तुल्यं = समं द्वयोरपि •
=
सम्यग्दृष्टि
१०२४
बोधिसत्त्वयोः ।। १२॥
पुरुषे यः कश्चिद् लवतोऽपि गुणः तदनुमोदनादिशीलः भवाभिनन्दिनां धनाद्यनुरागवत् । इत्थञ्च सर्वजनहितरतः बहुजन श्रेयोमग्नो वा सम्प्रसाद-स्वस्थता-स्थिरता-सत्प्रज्ञादिनाऽपवर्गमार्गेऽयमभिसर्पत्येव । अवशिष्टमतिरोहितार्थम् ।
बोधिसत्त्वगुणान्तरसमुच्चयार्थ इति । सूत्रपिटकान्तर्गते दीघनिकाये पाथिकवर्गे लक्षणसूत्रे तथागतस्य पूर्वभवसम्बन्धिनीं दशामधिकृत्य यम्पि, भिक्खवे, तथागतो पुरिमं जातिं पुरिमं भवं पुरिमं निकेव पुब्बे मनुस्सभूतो समानो दळहसमादानो अहोसि कुसलेसु धम्मेसु, अवत्थितसमादानो कायसुचरिते वचीसुचरिते मनोसुचरिते दानसंविभागे सीलसमादाने ← ( दी. नि. ३/७/२०१, पृ.१०८) इत्यादिना (१) कुशलधर्मनिरतता, (२) बहुजनसुखकारिता, (३) प्राणातिपातविरतिः, (४) प्रणीतभोजनादि - वस्त्रादिदानरुचिः, (५) दान-प्रियवचनाऽर्थचर्यादिना जनसङ्ग्राहकता, (६) धर्माद्युपदेशदातृता, (७) सत्कारपूर्वं शिल्प-कर्मविद्यादिशिक्षणदानं, (८) कुशलजिज्ञासा, (९) अक्रोधशीलता, (१०) जननी-पुत्रादिमेलकत्वं, (११) योग्याऽयोग्यपुरुषज्ञातृता, (१२) परहिताऽऽकाङ्क्षा, (१३) परपीडनपरिहारः, (१४) प्रियदृष्टिः, (१५) सत्कार्याऽग्रेसरत्वं, (१६) सत्यवादित्वं, (१७) विग्रहविघटकत्वं, (१८) मधुरभाषिता, (१९) देश-कालाद्युचितभावसारवचनता, (२०) सम्यगाजीविका चेत्येवं ये गुणाः प्रदर्शिताः ते सर्वेऽपि दशाविशेषमधिकृत्य सम्यग्दृष्टौ सम्भवन्तीत्यवधेयम् ।
इदमप्यत्राऽवधेयं यदुत सम्यग्दृष्टिः सम्बोधिसम्पन्न एव, बोधिसत्त्वस्तु सम्बोधिलाभशून्योऽनभिसम्बुद्ध एवेति विशेषोऽप्यनयोः मय्हं पि खो राजकुमार ! पुब्बेव सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो एतदहोसि ← (म.नि. २/४/५/३२७-पृष्ठ २८८) इति मज्झिमनिकायगतबोधिराजकुमारसूत्रवर्तिसुगतोक्तिसिद्धोऽनपलपनीय एवेत्यवधेयम् । तदुक्तं मज्झिमनिकाये सङ्गारवसूत्रेऽपि सुगतेन इध मे भारद्वाज ! पुब्बेव सम्बोधा अर्नाभिसम्बुद्धस्स बोधिसत्तस्सेव सतो एतदहोस ← (म.नि. २/५/१०/४७५ ) इति भावनीयम् ।।१५/१२।।
મૂળ ગાથામાં ‘તથા’ શબ્દ છે તે બોધિસત્ત્વના બીજા ગુણોનો સંગ્રહ કરવા માટે છે એમ જાણવું. સમ્યગ્દષ્ટિમાં પણ આ બધા ગુણો રહેલા હોય છે. આમ બોધિસત્ત્વ અને સમ્યગ્દષ્ટિ બન્નેમાં બધો ગુણવૈભવ એકસરખો જ જણાય છે. (૧૫/૧૨)
વિશેષાર્થ :- પૂર્ણતત્ત્વબોધ (સંબોધિ) પામ્યા પૂર્વેની અવસ્થા બોધિસત્ત્વ અવસ્થાછે. આ વાત મઝિમનિકાય નામના બૌદ્ધાગમમાં જણાવેલ છે. મતલબ કે બોધિસત્ત્વ સંબોધિશૂન્ય છે. જ્યારે સમકિતી પાસે તો સંબોધિ પણ છે. છતાં બોધિસત્ત્વ અવસ્થામાં જે ગુણો બૌદ્ધશાસ્ત્રમાં જણાવ્યા છે તેનો ઉલ્લેખ ઉપર કરેલ છે. તે ગુણવૈભવ સમકિતી જીવમાં હોય છે. માટે બોધિસત્ત્વ અને સમકિતીમાં આ દૃષ્ટિએ તુલ્યતા રહેલી છે. (૧૫/૧૨)
શબ્દાર્થની યોજના કરવા દ્વારા પણ બોધિસત્ત્વ અને સમ્યગ્દષ્ટિ વચ્ચે રહેલી તુલ્યતાને ગ્રંથકારશ્રી જણાવેછે. ...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org