SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ • 'बंधेणं न वोलइ कयाई' वचनविमर्शः • १०१९ दृशोऽपि सतो भिन्नग्रन्थेः बन्धभेदेन = अल्पस्थित्या कर्मबन्धविशेषेण स्वाशयः = शोभनः परिणामः । बाह्याऽसदनुष्ठानस्य प्रायः साम्येऽपि बन्धाऽल्पत्वस्य सुन्दरपरिणामनिबन्धनत्वादिति भावः । तदुक्तं"भिन्नग्रन्थेस्तृतीयं तु सम्यग्दृष्टेरतो हि न । पतितस्याप्यतो बन्धो ग्रन्थिमुल्लङ्घ्य देशितः।। एवं सामान्यतो ज्ञेयः परिणामोऽस्य शोभनः । मिथ्यादृष्टेरपि सतो महाबन्धविशेषतः ।। सागरोपमकोटीनां कोट्यो मोहस्य सप्ततिः । अभिन्नग्रन्थिबन्धोऽयं न त्वेकाऽपीतरस्य तु ।। तदत्र परिणामस्य भेदकत्वं नियोगतः । बाह्यं त्वसदनुष्ठानं प्रायस्तुल्यं द्वयोरपि ।।" (यो.बि.२६६-७-८-९) “बंधेण न वोलइ कयाई" (श्रावकप्रज्ञप्ति-३३) इत्यादिवचनानुसारिणां मिथ्यादृशोऽपि सतः भिन्नग्रन्थेः अल्पस्थित्या = अभिन्नग्रन्थिकर्तृककर्मस्थित्यादिबन्धाऽवधिकाऽपकर्षशालिस्थिति-रसाभ्यां कर्मबन्धविशेषेण । प्रकृते कारिकाचतुष्टयेन योगबिन्दुसंवादमाह- 'भिन्ने'त्यादि । 'महाबन्धविशेषत' इति । इह द्विधा बन्धः, महाबन्ध इतरश्च । तत्र मिथ्यादृष्टेमर्हाबन्धः शेषश्चेतरस्य । ततो महाबन्धस्य विशेषतः = अवस्थान्तरविशेषात् । इदमुक्तं भवति- लब्धसम्यक्त्वस्य प्राणिनो मिथ्यादृष्टित्वेऽपि न सामान्यमिथ्यादृष्टेरिव बन्धः, किन्तु कश्चिदत्यन्तन्यूनः तद्विशेष एवाऽन्तःकोटाकोटीसागरोपमलक्षणः । शिष्टः स्पष्टः संवादिश्लोकार्थः । प्रकृते → भेदोऽपि चास्य विज्ञेयो न भूयो भवनं तथा । तीव्रसङ्क्लेशविगमात् सदा निःश्रेयसाऽऽवहः ।। - (यो.बि.का.२८२) इति योगबिन्दुकारिकाऽप्यनुसन्धेया । श्रावकप्रज्ञप्तिसंवादमाह'बंधेण' इति। तदुक्तं धर्मसङ्ग्रहण्यां अपि → तं बंधेण न वोलइ कयाइ - (ध.सं.७५४) इति । 'तं = ग्रन्थि बन्धेन न व्यवलीयते = अतिक्रामति, तथारूपपरिणामाऽभावात् । कदाचिदपि नैवासावुत्कृष्टस्थितीनि कर्माणि बनातीति यावत्' (ध.सं.७५४ वृ.) इति तद्वृत्तौ श्रीमलयगिरिसूरिः। प्रकृते → सम्मट्ठिीणं पि हु गण्ठिं न कयाइ वोलए बन्धो ८ (स.क.भव-९/पृष्ठ ९५०) इति समरादित्यकथावचनमपि न विस्मर्तव्यम् । अत्र च पौनविका दारुणविपाकाः प्रदीर्घभवपरम्पराविधायिनो वर्धमानमालिन्यकारिणः आश्रवाः प्रहीणतया न स्वरसतः स्वसामर्थ्यतश्चोत्थितुमपि शक्नुवन्ति भग्नकटिकपुरुषवत् । अत एव इत एवाऽऽरभ्य भावतोऽसम्मूढदशा विशिष्टतरा सम्पद्यते सर्वप्रवृत्ताविति दर्शयिष्यामः चतुर्विंशतितमद्वात्रिंशिकायाम् (द्वा.द्वा.२४/१२ भाग-६, पृ.१६४८)। आगमिकमते भिन्नग्रन्थेः कदापि नैवोत्कृष्टस्थितिबन्धः सम्भवति कुत उत्कृष्टरसबन्धः ? परं અલ્પ કર્મસ્થિતિબંધનું કારણ સુંદર અધ્યવસાય છે. યોગબિંદુ ગ્રંથમાં પણ કહે છે કે – “ત્રીજું અનિવૃત્તિકરણ ગ્રંથિભેદ કરનાર જીવને હોય છે. તે સમ્યગ્દષ્ટિ બને છે. સમ્યગ્દર્શનથી પડવા છતાં પણ ગ્રંથિનું (=પ્રન્થિભેદકાલીન કર્મસ્થિતિનું) ઉલ્લંઘન કરીને તેને કર્મબંધ નથી થતો. આમ શાસ્ત્રમાં જણાવેલ છે.આ રીતે સામાન્યથી તેનો પરિણામ સુંદર હોય છે એમ જાણવું. કારણ કે મિથ્યાષ્ટિ થવા છતાં પણ વિશેષ પ્રકારે અલ્પસ્થિતિવાળો કર્મબંધ થાય છે. ગ્રંથિભેદ ન કરેલ હોય તે જીવને મોહનીય કર્મની ૭૦ કોટાકોટિ સાગરોપમકાલપ્રમાણ સ્થિતિ બંધાઈ શકે છે. જ્યારે ગ્રંથિભેદ થયા પછી મોહનીયાદિ કર્મની એક કોટાકોટિસાગરોપમપ્રમાણ પણ સ્થિતિબંધ થતો નથી. તેથી પ્રસ્તુતમાં ચોક્કસ રીતે પરિણામ જુદા જ પ્રકારના માનવા પડે. ભલે ને બાહ્ય પ્રવૃત્તિ અનાદિમિથ્યાષ્ટિ અને સમકિતભ્રષ્ટની પ્રાયઃ સમાન દેખાતી હોય.” ૯ ‘કર્મબંધથી સમકિતી કયારેય અંતઃકોટાકોટિ સાગરોપમપ્રમાણ કર્મસ્થિતિનું ઉલ્લંઘન કરતા નથી. આ પ્રમાણે શ્રાવકપ્રજ્ઞપ્તિ વગેરે ગ્રન્થોના વચનને અનુસરનારા સૈદ્ધાત્તિકોનો મત ઉપર જણાવ્યા મુજબ છે. Ed. सतिले योगनिन्दग्रन्थे . बन्धो गट ' इति पाठः । २ मदिततौ ‘न्तेको ' इत्यशद्धः पाठः । ३. मद्रितप्रतौ ‘बंधेणं' इति पाठः। www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy