________________
१०१८
• सम्यक्त्व प्राप्तौ वर्धमानशुभलेश्याऽपूर्वाऽऽनन्दौ •
द्वात्रिंशिका - १५/९
=
पतितस्याऽपि नाऽमुष्य ग्रन्थिमुल्लङ्घ्य बन्धनम् । स्वाशयो बन्धभेदेन सतो मिथ्यादृशोऽपि तत् ।। ९ ।। पतितस्यापीति । अमुष्य = भिन्नग्रन्थेः पतितस्याऽपि = तथाविधसङ्क्लेशात् सम्यक्त्वात् परिभ्रष्टस्याऽपि न = नैव ग्रन्थिं ग्रन्थिभेदकालभाविनीं कर्मस्थितिं उल्लङ्घ्य अतिक्रम्य सप्ततिकोटिकोट्यादिप्रमाणस्थितिकतया बन्धनं ज्ञानावरणादिपुद्गलग्रहणम् । तत् = तस्माद् मिथ्याभिन्नग्रन्थेः तृतीयं तु । ← (यो.बि.का. २६४-२६५ - २६६ ) इति योगबिन्दुकारिकाः स्मर्तव्याः । अत्रान्तरे तेजोलेश्याद्यन्यतरशुभलेश्यैव वर्धमाना भवति । तदुक्तं पञ्चसङ्ग्रहवृत्तौ सम्यक्त्व - देशविरति-सर्वविरतीनां प्रतिपत्तिकालेषु शुभलेश्यात्रयमेव, तदुत्तरकालं तु सर्वा अपि लेश्याः परावर्तन्तेऽपि ← (पं.स. ३१ वृत्ति) इति । सम्यग्दर्शनलाभाधिकारे कषायप्राभृतचूर्णी अपि तेउ-पम्ह - सुक्कलेस्साणं णियमा वड्ढमाणलेसा ← (क. प्रा. भाग-१२ /गा. ९४ चूर्णि - पृष्ठ २०४ ) इत्युक्तम् ।
ग्रन्थिभेदे चाऽत्यन्तमानन्दो जायते । यथोक्तं योगबिन्दौ
=
=
तथा च भिन्ने दुर्भेदे कर्मग्रन्थिमहाचले । तीक्ष्णेन भाववज्रेण बहुसङ्क्लेशा ।। आनन्दो जायतेऽत्यन्तं तात्त्विकोऽस्य महात्मनः । सद्व्याध्यभिभवे यद्वद् व्याधितस्य सदौषधात् ।।
← (यो.बिं.२८०/२८१) इति । ऋणविशेषमुक्तवत्, कारागृहविमुक्तवत्, दीर्घकालीनरोगविप्रमुक्तवत्, जातिदासत्वोन्मुक्तवत्, घोरातिघोरारण्य-सागरादिनिस्तीर्णवत् कोऽप्यनतिशयितो महानन्दो जायतेऽपूर्वसम्यग्दर्शनलाभकाले स्वाऽनुभवप्रकाशबलेन भव्यानामित्याशयः । ग्रन्थिभेदोत्तरमेव मुक्तिलाभ इति तु परेषामपि सम्मतम् । तदुक्तं रुद्रहृदयोपनिषदि → छित्त्वाऽविद्यामहाग्रन्थिं शिवं गच्छेत् सनातनम् ← (रु.हृ.३७) इति । ततश्च ग्रन्थिभेदलभ्यं सम्यग्दर्शनमपवर्गमूलमवसेयम् । अत एव शास्त्रवार्तासमुच्चये दर्शनं मुक्तिबीजं च सम्यक्त्वं तत्त्ववेदनम् । दुःखान्तकृत् सुखारम्भः पर्यायास्तस्य कीर्त्तिताः ।। ← (शा. वा. स. ९/५) इत्येवं सम्यग्दर्शनपर्याया उक्ताः । तदुक्तं दर्शनप्राभृते अपि जह मूलाओ खंधो साहापरिवार बहुगुणो होइ । तह जिणदंसणमूलो णिद्दिट्ठो मोक्खमग्गस्स ।। ← (द.प्रा. ११) इति भावनीयम् ।।१५/८ ।।
करणत्रयलाभोत्तरभाविप्रभावमाह- 'पतितस्याऽपीति । सप्ततिकोटिकोट्यादिप्रमाणस्थितिकतया सप्ततिकोटिकोटिसागरोपमादिपरिमितस्थितिरूपेण ज्ञानावरणादिपुद्गलग्रहणं मोहनीयादिपुद्गलोपादानं, मोहनीयस्यैव सप्ततिकोटिकोटिसागरोपमस्थितिकत्वात् । सम्यक्त्वलाभोत्तरं तथाविधमिथ्यात्वमोहोदयात् * સમક્તિભ્રષ્ટના પણ પરિણામ પ્રશસ્ત શ્ન
ગાથાર્થ ઃ- સમકિતી જીવ પડી જાય તો પણ ગ્રંથિનું ઉલ્લંઘન કરીને તે કર્મ બાંધતો નથી. તેથી મિથ્યાદૃષ્ટિ થવા છતાં પણ વિશેષ પ્રકારના (અલ્પ)કર્મબંધના લીધે તેનો આશય સારો હોય છે. (૧૫/૯)
ટીકાર્થ :- ગ્રંથિનો ભેદ કરનાર જીવ કદાચ તેવા પ્રકારના સંકલેશના લીધે સમકિતથી ભ્રષ્ટ થાય તો પણ ગ્રંથિભેદ સમયે થનારી કર્મસ્થિતિનું ઉલ્લંઘન કરીને ૭૦ કોટાકોટિ પ્રમાણ મોહનીયકર્મ વગેરેના પુદ્ગલનું = કાર્મણવર્ગણાનું વિશિષ્ટ રીતે ગ્રહણ = ઉત્કૃષ્ટ કર્મસ્થિતિબંધ તે જીવ કરતો નથી. તેથી મિથ્યાત્વ ઉદયમાં આવવા છતાં, મિથ્યાર્દષ્ટિ બનવા છતાં અલ્પસ્થિતિવાળો વિશિષ્ટ કર્મબંધ થવાના લીધે સિદ્ધ થાય છે કે તેનો પરિણામ સુંદર હોય છે. સમતિથી ભ્રષ્ટ થયા પછી બાહ્ય આરંભ-પરિગ્રહાદિ ખરાબ પ્રવૃત્તિ અનાદિકાલીન મિથ્યાદૅષ્ટિની પ્રવૃત્તિ જેવી જ પ્રાયઃ હોવા છતાં પણ સમકિતભ્રષ્ટ જીવને કર્મબંધ અલ્પ થતો હોવાથી સિદ્ધ થાય છે કે અનાદિકાલીન મિથ્યાદષ્ટિ જીવ કરતાં તેના પરિણામ સારા હોય છે. કારણ કે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
=
=