SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ = = • ग्रन्थिभेदोपायप्रज्ञापना • १०१७ ग्रन्थ्युल्लङ्घने क्रियमाणे । तृतीयं तु = अनिवर्तिकरणं भिन्नग्रन्थेः = कृतग्रन्थिभेदस्य योगिनाथैः तीर्थकरैः प्रदर्शितम् ।।८ ॥ ऽसङ्ख्येयभागन्यूनैकसागरोपमकोटाकोटीस्थितिकानि करोति । अत्र चान्तरे जीवस्य कर्मजनितो घनरागद्वेषपरिणामः कर्कश-निबिड - चिरप्ररूढगुपिलवक्रग्रन्थिवद् दुर्भेदोऽभिन्नपूर्वो ग्रन्थिर्भवति ← (क.स्त. २ / वृत्ति) इत्येवं ग्रन्थिदेश- लाभप्रबन्धवर्णनमकारि । ततः → तण्हाय विप्पहानेन सव्वं छिंदति बंधणं ← ( सं . नि. 9 19 1६५) इति संयुत्तनिकायोक्तोपायेन, यद्वा आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः । स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः ← (छां.७/२६/२) इति छान्दोग्योपनिषदुक्तोपायैः, यद्वा वासनाक्षय-विज्ञान-मनोनाशा महामते ! | समकालं चिराभ्यस्ता भवन्ति फलदा मताः 11 त्रिभिरेभिः समभ्यस्तैर्हृदयग्रन्थयो दृढाः । निःशेषमेव त्रुट्यन्ति बिसच्छेदाद् गुणा इव ।। ← (अन्न.४/८३-८४) इति अन्नपूर्णोपनिषदुक्तोपायैः, यद्वा यद्वा रुद्रग्रन्थिं ततो भित्त्वा छित्त्वा मोहमलं तथा । अनेकजन्मसंस्कार-गुरु- देवप्रसादतः ।। योगादभ्यासात् ततो वेधो जायते तस्य योगिनः । ← ( वरा. ५ / ६६-६७ ) इति वराहोपनिषदुक्तनिमित्तैः, यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ।। ← (केन.१/ ५) इति केनोपनिषदुक्तशुद्धाऽऽत्मगोचराऽखण्डसुदृढ-विशुद्धोपयोगबलेन, यद्वा वक्ष्यमाणोपायैः (द्वाद्वा.२०/ २६,भाग-५ पृ.१३९०,२२ / २४ पृ. १५२६) ग्रन्थ्युल्लङ्घने ग्रन्थिभेदे क्रियमाणे अपूर्वकरणं भवति, प्राक्तनाद् विशुद्धतराऽध्यवसायरूपेण तेनैव ग्रन्थेर्भेदात् । अनिवर्तिकरणं तु कृतग्रन्थिभेदस्य अभिमुखसम्यक्त्वस्य तीर्थकरैः प्रदर्शितम् । यथोक्तं विशेषावश्यकभाष्ये बृहत्कल्पभाष्ये च जा गंठी ता पढमं गंठि समइच्छओ अपुव्वं तु । अणियट्टीकरणं पुण सम्मत्तपुरक्खडे जीवे ।। ← (वि. आ. १२०३, बृ.क.भा. ९५) इति । तृतीयपञ्चाशकेऽपि (पं. ३/३०) एतदर्थानुपातिनी गाथा वर्तत इत्यवधेयम् । सम्यक्त्वलाभक्रमो बृहत्कल्पभाष्ये विशेषावश्यकभाष्ये च अंतिमकोडाकोडीए सव्वकम्माणमाउवज्जाणं । पलियाऽसंखिज्जइमे भागे खीणे भवइ गंठी ।। भिन्नम्मि तम्मि लाभो सम्मत्ताईण मोक्खहेऊणं । सो य दुलभो परिस्सम-चित्तविघायाइविग्घेहिं ।। ← (बृ.क.भा. ९३, वि. आ.भा. ११९४,११९६ ) इत्येवमुपदर्शितः । प्रकृते च करणं परिणामोऽत्र सत्त्वानां तत्पुनस्त्रिधा । यथाप्रवृत्तमाख्यातमपूर्वमनिवृत्ति च || एतत् त्रिधाऽपि भव्यानामन्येषामाद्यमेव हि । ग्रन्थिं यावत्त्विदं तं तु समतिक्रामतोऽपरम् ।। બીજું અપૂર્વકરણ હોય. તથા ગ્રન્થિભેદ કર્યા બાદ ત્રીજું અનિવર્તિકરણ પ્રાપ્ત થાય છે. આમ યોગીશ્વર તીર્થંકર ભગવંતોએ જણાવેલ છે. (૧૫/૮) વિશેષાર્થ :- અત્યંત તીવ્ર રાગ-દ્વેષના પરિણામ ગ્રંથિ કહેવાય છે. તેનું ઉલ્લંઘન કરીને જીવ આગળ ન વધે ત્યાં સુધી પ્રથમ કરણ, ઉલ્લંઘન કરે ત્યારે બીજું કરણ અને ઉલ્લંઘન થયા બાદ ત્રીજું કરણ શરૂ થાય. ત્રીજા કરણમાં અંતરકરણ શરૂ થાય. તે અંતઃકરણમાં ભવ્ય જીવો સમકિત પામે છે. સમકિત પામનાર દરેક જીવને આ પ્રક્રિયામાંથી પસાર થવું પડે છે. (૧૫/૮) Jain Education International For Private & Personal Use Only = www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy