SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ १००७ • नानाविधसम्यक्त्वलक्षणानि • भोगिकिन्नरगेयादिविषयाऽऽधिक्यमीयुषी । शुश्रूषाऽस्य न सुप्तेशकथाऽर्थविषयोपमा ॥२॥ कृष्णगीतावचनमप्यत्रानुयोज्यमागमानुसारेण । यद्यपि → से य संमत्ते पसत्थसमत्तमोहणियकम्माणुवेयणोवसम-खयसमुत्थे पसम-संवेगाइलिंगे सुहे आयपरिणामे पन्नत्ते - (आ.सू. सम्यक्त्वसूत्र-भाग-४/पृष्ठ ८११) इत्येवं आवश्यकसूत्रे सम्यक्त्वस्य प्रशमादिलिङ्गकत्वमावेदितम् । अन्यत्र तु प्रशमादेः तल्लक्षणत्वमावेदितम् । तदुक्तं तत्त्वार्थसूत्रभाष्ये उमास्वातिवाचकैः → प्रशम-संवेग-निदाऽनुकम्पाऽऽस्तिक्याऽभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् - (त,सू.१।२ भा.) इति । तदुक्तं श्रावकप्रज्ञप्ती धर्मसङ्ग्रहण्यां च → तं उवसम-संवेगादिएहिं लक्खिज्जए उवाएदि । आयपरिणामरूवं बज्झेहिं पसत्थजोगेहिं ।। (श्रा.प्र.५३, धर्म.सं.८०६) इति। तदुक्तं त्रिषष्टिशलाकापुरुषचरित्रेऽपि प्रथमजिनदेशनायां → शम-संवेग-निर्वेदाऽनुकम्पाऽऽस्तिक्यलक्षणैः । लक्षणैः पञ्चभिः सम्यक्, सम्यक्त्वं तत्तु लक्ष्यते ।। - (त्रि.श.पु.पर्व-१/आदिजिनदेशना-४६) इति । प्रवचनसारोद्धारे (प्र.सारो.९३६) योगशास्त्रे (यो.शा.२/१५) च शमादीन्येव पञ्च लक्षणान्युक्तानि । इहाऽप्यने → प्रशमसंवेगादिलिङ्गः तस्य सुग्रहत्वात् + (द्वा.द्वा.१५/१६ पृ.१०३३) इति वक्ष्यति ग्रन्थकृदेव । तदुक्तं ग्रन्थकृता वैराग्यकल्पलतायां अपि → सम्यक्त्वं शङ्कादिदोषरहितं गम्यं प्रशमादिभिर्लिङ्गः 6 (वै.क.ल.२ १२७) तथापि शुश्रूषादिलिङ्गकत्वोक्तिरपि नैव विरुध्यते इत्यवधेयम् । उद्योतनसूरिभिः कुवलयमालायां → उवसम-संवेगो च्चिय णिव्वेओ तह य होइ अणुकंपा । अत्थित्तभावसहियं समत्ते लक्खणं होइ ।। अहवा-मेत्ती-पमोय-कारुण्णं मज्झत्थं च चउत्थयं । सत्तगुणवंत-दीणे अविणए होंति सम्मं ।। अहवा वि जयसभावो कायसभावो य भाविओ जेण । संवेगो जेण तवे वेरग्गं चेव संसारे ।। एएहिं लक्खणेहिं णज्जइ अह अत्थि जस्स सम्मत्तं - (कु.मा.पृष्ठ२१८) इत्येवं यानि सम्यक्त्वचिह्नान्युक्तानि तान्यप्यत्राऽनुसन्धेयानि बहुश्रुतैः । पुष्पमालायान्तु श्रीहेमचन्द्रसूरिभिः → सव्वत्थ उचियकरणं गुणाणुराओ रई य जिणवयणे । अगुणेसु य मज्झत्थं सम्मद्दिहिस्स लिंगाइं ।। (पु.मा.१११) इत्युक्तमिति ध्येयम् ।।१५/१।। વિશેષાર્થ :- ગ્રંથિભેદ દ્વારા ઉત્પન્ન થનારો આત્માનો વિશિષ્ટ પરિણામ સમ્યગ્દર્શન કહેવાય છે. આત્મપરિણામ અદશ્ય-પરોક્ષ હોવાથી સમ્યગ્દષ્ટિ તરીકે જીવનો સાક્ષાત્કાર છદ્મસ્થ જીવો કરી શકતા નથી. જે બાબતોમાં પ્રત્યક્ષ પ્રમાણ અસમર્થ હોય તે બાબતોનો અભ્રાન્ત નિર્ણય કરવા માટે અનુમાન વગેરે પ્રમાણનો આશરો લેવો પડે છે. તેથી પ્રસ્તુતમાં શાસ્ત્રસિદ્ધ લિંગ = ચિહ્ન દ્વારા સમકિતી જીવનું अनुमान री शाय छ -माम ४९ छ. (१५/१) 2 dरपशुश्रूषानी मोगा . સમકિતીના પ્રથમ લિંગને ગ્રંથકારશ્રી જણાવે છે કે ગાથાર્થ :- ભોગી પુરુષને કિન્નર વગેરેના ગાનાદિને વિશે જે સાંભળવાની ઈચ્છા હોય તેના કરતાં તીવ્રતાને પામતી (=તીવ્રતાવાળી) ધર્મશુશ્રુષા સમકિતી જીવને હોય છે. સૂતેલા રાજાને કથાના પાત્રને વિશે જે શુશ્રુષા હોય છે તેવી શુશ્રુષા ધર્મ વિશે સમકિતીને હોતી નથી. (૧૫) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy