SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ १००८ • शुश्रूषां विना सम्यक्त्वशुद्ध्ययोगः • द्वात्रिंशिका-१५/२ भोगीति । भोगिनो = यौवन-वैदग्ध्य-कान्तासन्निधानवतः कामिनः किन्नरादीनां गायकविशेषाणां गेयादौ = गीतवर्णपरिवर्ताऽभ्यासकथाकथनादौ विषयः = श्रवणरसस्तस्मादाधिक्यं = अतिशयं (=भोगिकिन्नरगेयादिविषयाऽऽधिक्यं) ईयुषी = प्राप्तवती, किन्नरगेयादि-जिनोक्त्योर्हेत्वोस्तुच्छत्वमहत्त्वाभ्यामतिभेदोपलम्भात्, अस्य = सम्यग्दृष्टेः शुश्रूषा भवति । न परं सुप्तेशस्य = ___अथाऽऽद्यलिङ्गमेव भावयति- 'भोगी'ति । → न वि तं करेइ देहो न य सयणो नेय वित्तसंघाओ । जिणवयणसवणजणिया जं संवेगाइया लोए ।। - (श्रा.प्र.४) इति श्रावकप्रज्ञप्तितात्पर्यभावितत्वात् प्रकृते हेत्वोः = विषयतासम्बन्धेन शुश्रूषाकारणयोः किन्नरादि-जिनोक्त्योः तुच्छत्व महत्त्वाभ्यां आत्मस्वभावप्रतिकूलत्वाऽनुकूलत्वाभ्यां च अतिभेदोपलम्भात् = अत्यन्तवैलक्षण्यावबोधात् । प्रकृते च → न किन्नरादिगेयादौ शुश्रूषा भोगिनस्तथा । यथा जिनोक्तावस्येति हेतुसामर्थ्यभेदतः ।। तुच्छञ्च तुच्छनिलयाप्रतिबद्धञ्च तद्यतः । गेयं जिनोक्तिस्त्रैलोक्यभोगसंसिद्धिसङ्गता ।। हेतुभेदो महानेवमनयोर्यद् व्यवस्थितः । चरमात्तधुज्यतेऽत्यन्तं भावाऽतिशययोगतः ।। 6 (यो.बि. २५४-२५५-२५६) इति योगबिन्दुश्लोकाः स्मर्तव्याः । सम्यक्त्वसप्ततिकायामपि → तरुणो सुही वियड्ढो रागी पियपणइणीजुओ सोउं । इच्छइ जह सुरगीयं तओऽहिया समयसुस्सूसा ।। 6 (स.स.१४) इत्युक्तम् । तथा → कान्तकान्तासमेतस्य दिव्यगेयश्रुतौ यथा । यूनो भवति शुश्रूषा तथाऽस्यां तत्त्वगोचरा ।। - (यो.स.५२) इति योगदृष्टिसमुच्चयकारिकाऽप्यनुसन्धेया । → होइ दढं अणुराओ जिणवयणे परमनिव्वुइकरम्मि । सवणाइगोयरो तह सम्मद्दिहिस्स जीवस्स ।। 6 (श्रा.प्र. ५) इति श्रावकप्रज्ञप्तिवचनमपि स्मर्तव्यम्। अधिकृतशुश्रूषा तु मिथ्यात्वादिक्षयोपशमजन्या, यथोक्तं पञ्चाशके श्रावकधर्मविधौ च → मिच्छत्तखओवसमा सुस्सूसाई उ होंति दढं (पञ्चा.१/३, श्रा.ध.६८) इति। तत एव च सम्यक्त्वशुद्धिरपि प्रादुर्भवति, यथोक्तं धर्मरत्नप्रकरणे → सवणकरणेसु इच्छा, होइ रुई सद्दहाणसंजुत्ता । एईइ विणा कत्तो सुद्धी सम्मत्तरयणस्स ।। 6 (ध.प्र.४६) इति । तत्त्वशुश्रूषायाः श्रुत-प्रज्ञादिवर्धकत्वं सौगतानामपि सम्मतम् । तदुक्तं थेरगाथायां → सुसुस्सा सुतवद्धनी, सुतं पाय वद्धनं । पाय अत्थं जानाति, आतो अत्थो सुहावहो ।। - (थे.गा.२/१४१) इति । षोडशके → यूनो वैदग्ध्यवतः कान्तायुक्तस्य कामिनोऽपि दृढम् । किन्नरगेयश्रवणादधिको धर्मश्रुतौ रागः ।। - (षो.११/३) इत्येवं या परमा शुश्रूषोक्ता साऽत्र ज्ञेया, न त्वपरमेत्याशयेनाऽऽह- 'न ટીકાર્ય - યુવાની, સંગીતના વિષયમાં હોશિયારી, પ્રિય પત્નીનું સાંનિધ્ય- આ ત્રણ ચીજને પામેલ કામી પુરુષને કિન્નર વગેરે વિશિષ્ટ ગાયકોના ગીત, શબ્દપરિવર્તન, તાલ-લયનો મહાવરો, કથા-કથન વગેરે સાંભળવાના વિશે જે રસ હોય તેના કરતાં પણ ચઢિયાતાપણાને પામેલી જિનવચનશુશ્રુષા સમકિતીને હોય છે. આનું કારણ એ છે કે વિષયતાસંબંધથી શ્રવણેચ્છાના હેતુભૂત કિન્નરગેયાદિ અને જિનવચનમાં ઘણો બધો તફાવત તેણે ઓળખી લીધેલ હોય છે. કિન્નરના ગાયન વગેરે તુચ્છ-અસાર હોય છે. જ્યારે જિનવચન અત્યંત સારભૂત મહાન તત્ત્વ છે....” આવો બન્ને વચ્ચેનો ઘણો ભેદ સમકિતી જીવને ખ્યાલમાં હોય છે. (તેથી કામીને કામપોષક કિન્નરગીતગાનના શ્રવણમાં જે આનંદ આવે તેના કરતાં ઘણો જ ચઢિયાતો આનંદ સમકિતીને જિનવચનશ્રવણમાં આવે એમાં નવાઈ નથી.) પથારીમાં સૂવા માટે આડો પડેલો રાજા ઊંઘ લાવવા માટે કથાકાર પાસે કથા બોલાવે ત્યારે Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy