________________
१००६ • सम्यग्दृष्टिलिङ्गवर्णनम् .
द्वात्रिंशिका-१५/१ शुश्रूषा-धर्मरागाभ्यां तथा गुरुदेवादिपूजया त्रिभिरेतैर्लिंगैः । यदाह- "शुश्रूषा धर्मरागश्च गुरुदेवादिपूजनम् । यथाशक्ति विनिर्दिष्टं लिङ्गमस्य महात्मभिः ।।” (यो.बि.२५३) ॥१॥ निच्छयओ सम्मत्तं नाणाइमयप्पसुहपरिणामो । इयरं पुण तुह समये भणियं सम्मत्तहेऊहिं ।।।
6 (स.स्व. १०-११) इति । ग्रन्थिभेदोत्तरं निश्चयसम्यक्त्वं भावसम्यक्त्वं वा लभ्यते । तच्चाऽऽत्मपरिणामरूपत्वादतीन्द्रियमेवेति लिङ्गाऽनुमेयं भवति । एतेन → देवेऽर्हति गुरौ साधौ धर्मे च जिनभाषिते । या स्थिरा वासना सम्यक् सम्यक्त्वमिदमाश्रय ।। (कु.मा.कथा-३ । गा.१६३ पृष्ठ-३५) इत्येवं कुवलयमालाकृतां रत्नप्रभसूरीणां वचनमपि व्याख्यातम् । सम्यक्त्वकौमुद्यां अपि → अनन्तपुद्गलावर्त्तान् भ्रामं भ्रामं भवार्णवे । कोटाकोट्यब्धितः शेषा स्थितिं कृत्वाऽष्टकर्मणाम् ।। अपार्धपुद्गलावर्तशेषायां तु भवस्थितौ । सम्यक्त्वं लभते जीवो ग्रन्थिभेदे कृते सति ।।
6 (सम्य.को.१/१२-१३) इत्येवं सम्यग्दर्शनप्राप्तिरावेदिता । युक्तञ्चैतत् । न हि संसारमूलभूतमिथ्यात्वमोहे दग्धे दीर्घकालं यावत् संसाराऽवस्थानं सम्भवति । एतेन → ये च मोहं पहत्वान तमोखन्धं पदालयुं । न ते पुन संसरन्ति हेतु तेसं न विज्जति ।। 6 (इतिवु.१।२।४) इति इतिवृत्तकवचनमपि व्याख्यातम् ।
मिथ्यात्वमोहोच्छेदेन लब्धे चास्मिन् सम्यग्दर्शने दृष्टिरतिशयेन विमला सम्पद्यते, तां विना चोग्रसंयमचर्ययाऽपि मुक्तिः न सम्पद्यते। यथोक्तं अध्यात्मतत्त्वालोके → विमला स्थितिरुच्यते दृशः किल सम्यक्त्वपदार्थ आर्हतैः। अपवर्गपुरप्रवेशनं न हि मुद्रामनवापुषामिमाम् + (अ.तत्त्वा.२/४४) इति ध्येयम् ।
अनुमितिलिङ्गान्याह- 'शुश्रूषेति । अत्र योगबिन्दुसंवादमाह- 'शुश्रूषेति । गुरुदेवादिपूजयेति। अत्र गुरुश्च → धम्मन्नू धम्मकत्ता य सया धम्मपरायणो। सत्ताणे धम्मसत्थत्थदेसओ भन्नए गुरु ।। (द. शु.४/४२) इति पूर्व(पृ.८५२)दर्शनशुद्धिप्रकरणोक्त उपादेयः, न तु पूर्वं (द्वा.द्वा.१२/१,भाग-३ पृ.८३५) पूर्वसेवाद्वात्रिंशिकायां दर्शितो निखिलो गुरुवर्ग इह ग्राह्यः । एवं देवोऽपि वीतरागत्व-सर्वज्ञत्वादिगुणयुक्त इह ग्राह्य इति ध्येयम् । दर्शितयोगबिन्दुकारिकावृत्तिस्त्वेवम् → शुश्रूषा सद्धर्मशास्त्रविषया धर्मरागश्च चारित्रधर्माऽनुरागरूपः गुरु-देवादिपूजनं = धर्माचार्य-जिन-साधर्मिकादिसमभ्यर्चनं यथाशक्ति = स्वसामर्थ्यानुरूपं विनिर्दिष्टं लिङ्गं = चिह्न अस्य = सम्यग्दृष्टेर्जीवस्य महात्मभिः = शास्त्रकारैः - (यो.बि.वृ.२५३) इति ।
पञ्चाशके योगशतके प्रवचनसारोद्धारे च → सुस्सूस धम्मराओ गुरु-देवाणं जहासमाहीए । वेयावच्चे णियमो सम्मद्दिस्सि लिंगाई ।। - (पं.३/५, यो.श.१४, प्र.सारो.९२९) इत्येवं सम्यग्दृष्टि-लिङ्गानि प्रोक्तानि । सम्बोधप्रकरणे सम्यक्त्वसप्ततिकायां च → परमागमसुस्सूसा अणुराओ धम्मसाहणे परमो । जिणगुरुवेयावच्चे नियमो सम्मत्तलिंगाइं ।। - (सं.प्र.४/६२, स.स.१३) इत्युक्तम्। → देवपूजा गुरोः पूजा धर्मस्याऽऽराधनं तथा। वैयावृत्त्यं सुसाधूनां, मोक्षमार्गो मनीषिणाम् ।। - (कृ.गी.११) इति 94. सभ्यष्टि छ'- माj अनुमान 25 : छ. १२९॥ ॐ योगबिंदु अंथम डेटा छ ? → “धर्मशुश्रूषा, ધર્મરાગ અને યથાશક્તિ ગુરુ-દેવાદિનું પૂજન- આ ત્રણ સમકિતી જીવના લિંગ છે. એમ મહાત્માઓએ ४॥वेला छे." - (१५/१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org