________________
• ग्रन्थिव्याख्यानम् •
१००५ ॥ अथ सम्यग्दृष्टिद्वात्रिंशिका ।।१५।। अपुनर्बन्धकोत्तरं सम्यग्दृष्टिर्भवतीति तत्स्वरूपमाहलक्ष्यते ग्रन्थिभेदेन सम्यग्दृष्टिः स्वतन्त्रतः । शुश्रूषा-धर्मरागाभ्यां गुरुदेवादिपूजया ॥१॥
लक्ष्यत इति । ग्रन्थिभेदेन = अतितीव्रराग-द्वेषपरिणामविदारणेन' स्वतन्त्रतः = सिद्धान्तनीत्या सम्यग्दृष्टिः लक्ष्यते = सम्यग्दर्शनपरिणामाऽऽत्मनाऽप्रत्यक्षोऽप्यनुमीयते ।
नयलता अन्त्याऽऽवर्ताऽर्धकालेन यो ध्रुवं मोक्षमाप्नुयात् । लक्षणादिविमर्शेन तत्स्वरूपं प्रकथ्यते ।।१।।
अथ अपुनर्बन्धकोत्तरं अपूर्वकरणादिक्रमेण जीवः सम्यग्दृष्टिः भवतीति हेतोः तत्स्वरूपं = सम्यग्दृष्टिस्वरूपं ग्रन्थकार आह- 'लक्ष्यत' इति । → घणरागदोसपरिणामलक्खणो णाणावरण-दरिसणावरणऽन्तरायपडिवन्नसहायभावो मोहणीयकम्मनिव्वत्तिओ अच्चन्तदुब्भेओ कम्मगण्ठी हवइ + (सम.क. १/पृ.५८) इति समरादित्यकथायां श्रीहरिभद्रसूरिभिरुक्ता, → गंठित्ति सुदुब्भेओ कक्खड-घण-रूढ-गूढगंठिव्व । जीवस्स कम्मजणिओ घणरागद्दोसपरिणामो ।। 6 (वि.आ.भा.११९५, ध.सं.७५३) इत्येवं विशेषावश्यकभाष्ये धर्मसङ्ग्रहण्यां च दर्शिता तन्त्रान्तरेऽपि → देहोऽहमिति सङ्कल्पो हृदयग्रन्थिरीरितः - (ते.बि.५/९२) इति तेजोबिन्दूपनिषदुक्तिसूचिता या ग्रन्थिः तद्भेदेन सिद्धान्तनीत्या = → वन्नियकम्मस्स जया घंसणघोलणनिमित्ततो कह वि । खविया कोडाकोडी सव्वा एक्कं पमोत्तूणं ।। तीए विय थेवमेत्ते खविए तहिमंतरंमि जीवस्स । भवति हु अभिनपुव्वो गंठी एवं जीणा बेंति ।। - (ध.सं.७५१७५२) इत्यादिरूपेण धर्मसङ्ग्रहण्यां प्रदर्शितया वक्ष्यमाणया (द्वा.द्वा.१५/७-८, पृ.१०१५-१०१८) च जैनदर्शनपद्धत्या उत्पादितसम्यक्त्वः सम्यग्दृष्टिः → जीवादिसद्दहणं सम्मत्तं रूवमप्पणो तं तु - (बृ.द्र.सं.४१) इति बृहद्रव्यसङ्ग्रहादिवचनतः सम्यग्दर्शनपरिणामात्मना अप्रत्यक्षोऽपि अनुमीयते । अयमत्राशयःसम्यक्त्वं द्विधा द्रव्यतो भावतश्च । अज्ञातुः जिनोक्ततत्त्वरुचिः द्रव्यतः, ज्ञातुश्च भावतः । यद्वा निश्चयतो व्यवहारतश्च द्विधा सम्यक्त्वम् । निश्चयतो ज्ञानादिमयशुभात्मपरिणामः सम्यक्त्वं, तत्कारणञ्च व्यवहारतः । तदुक्तं सम्यक्त्वस्वरूपस्तवे → तुह वयणे तत्तरुइ परमत्थमजाणओ वि दव्वगयं । सम्, भावगयं पुण परमत्थवियाणओ होइ ।।
જ સમ્યગ્દષ્ટિ દ્વાત્રિશિક પ્રકાશ જ અપુનબંધક દશાની પ્રાપ્તિ થયા પછી જીવ સમ્યગૃષ્ટિ બને છે. આ કારણસર ૧૫મી બત્રીસીમાં સમકિતી જીવનું સ્વરૂપ ગ્રંથકારશ્રી જણાવે છે.
ગાથાર્થ - જૈન સિદ્ધાન્ત મુજબ, ગ્રંથિભેદ દ્વારા સમ્યગ્દષ્ટિ થનાર જીવ શુશ્રુષા, ધર્મરાગ અને गुरु-वाहिनी पू% द्वारा मोजपाय छे. (१५/१)
જ સમ્યગ્દષ્ટિના ત્રણ લિંગ છે ટીકા - રાગ-દ્વેષનો અત્યંત તીવ્ર પરિણામ ગ્રંથિ કહેવાય છે. તેનો ભેદ કરવાથી, જૈનસિદ્ધાન્ત મુજબ, જીવ સમ્યગ્દષ્ટિ થાય છે. જો કે સમ્યગ્દર્શનપરિણામ સ્વરૂપે સમ્યગ્દષ્ટિ જીવનું પ્રત્યક્ષ થઈ શકતું નથી. તેમ છતાં પણ શુશ્રુષા, ધર્મરાગ અને ગુરુ-દેવાદિની પૂજા- આ ત્રણ લિંગ દ્વારા “આ १. हस्तादर्श ....दारेणेन' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org