________________
• धर्मकथाऽप्यवसरौचित्येन कार्या •
६७९
सन्धुक्षयन्तीत्याद्यारभ्याष्टश्लोकी प्रायः सुगमा विधिसूत्रादिविवेकश्चान्यत्र प्रपञ्चित इति ।। ३२ ।। ।। इति कथाद्वात्रिंशिका ।। ९ ।।
← (जै.गी.१०९/११०) इति श्री बुद्धिसागरसूरिकृत - जैनगीतावचनमप्यत्रानुयोज्यं यथागमम् । यथोक्तं दशवैकालिकनिर्युक्तौ खेत्तं कालं पुरिसं सामत्थं चऽप्पणो वियाणेत्ता । समण उ अणवज्जा पगयंमि कहा कहेयव्वा ।। ← ( दश.नि. ३ / २१५) तद्वृत्तिस्त्वेवम् → क्षेत्रं = भौतादिभावितं, कालं = क्षीयमाणादिलक्षणं, पुरुषं पारिणामिकादिरूपं सामर्थ्यं चात्मनो ज्ञात्वा प्रकृते वस्तुनीति योगः श्रमणेन त्वनवद्या = पापानुबन्ध-रहिता कथा कथयितव्या, नान्या ← (द.वै.नि.३ / २१५ वृत्ति) इति । प्रतिलेखनादिसंयमयोग-ग्लानादिसेवासूत्रार्थपौरुप्यादिपरिहान्या तु सदा धर्मकथाकरणेऽपि दोष एव । यथोक्तं निशीथभाष्ये →
=
कामं खलु धम्मकहा, सज्झायस्सेव पंचमं अंगं । अव्वोच्छित्तीइ ततो तित्थस्स पभावणा चेव ।। तह वियण सव्वकालं धम्मकहा, जीइ सव्वपरिहाणी । नाउं व खेत्तकालं पुरिसं च पवेदते धम्मं ।। ← (नि.भा.४३५४-५५ ) इति ध्येयं धर्मोपदेशकैः ।
प्रकृते लोगद्वयफलं तेन लब्धं भवति जन्तुना । यो विधत्ते कथां रम्यां सज्जनानन्ददायिनीम् ।। ← ( प. पु. १ /२७ ) इति पद्मपुराणवचनमपि स्मर्तव्यम् ।
यदपि जिनसेनाचार्येण आदिपुराणे
आक्षेपणीं कथां कुर्यात् प्राज्ञः स्वमतसंग्रहे । विक्षेपिणीं कथां तज्ज्ञः कुर्याद् दुर्मतनिग्रहे ।। संवेदिनीं कथां पुण्यफलसम्पत्प्रपञ्चने । निर्वेदिनीं कथां कुर्याद् वैराग्यजननं प्रति ।। इति धर्मकथाङ्गत्वादर्थाक्षिप्तां चतुष्टयीम् । कथां यथार्हं श्रोतृभ्यः कथकः प्रतिपादयेत् ।। ← (आ.पु.१/१३५-६-७) इत्युक्तं तदप्यत्रानुस्मर्तव्यं धर्मकथकेन । शास्त्रोक्तमर्यादानुसारेण धर्मकथाकरणे वक्तुः धर्मकथाफलं
I
धम्मकहाए णं णिज्जरं जणयइ धम्मक हाए णं पवयणं पभावेइ । पवयण- पभावणेणं जीवे आगमिस्सभद्दत्ताए कम्मं निबंधइ ← (उत्त. २९/२५) इत्येवं उत्तराध्ययने प्रदर्शितमिति शम् ।।९ / ३२ ।।
अर्थादिभेदभिन्नाऽपि सैव कथ्या बुधैर्मुदा । मार्गविज्ञप्ति - रुच्यादिर्ययाऽऽप्यते च वर्धते ॥१॥ इति मुनियशोविजयविरचितायां नयलतायां कथाद्वात्रिंशिकाविवरणम् ।।९।।
વિશેષાર્થ :- પ્રસ્તુતમાં વ્યુત્પત્તિ શબ્દનો અર્થ છે ધર્મદેશના અંગેની તાત્ત્વિક ઊંડી સમજ, પોતાની શક્તિ મુજબ, ધર્મદેશના અંગેની મર્યાદાને સાચવીને ઉપરોક્ત સમજવાળા જે જિનપ્રવચનમર્મવેદી ઉપદેશક શ્રોતાને માત્ર નિઃસ્વાર્થ બુદ્ધિથી, કરુણાબુદ્ધિથી ન્યાય્ય = યોગ્ય સંવેગાદિજનક એવી ધર્મકથા કહે છે તે ટૂંક સમયમાં મોક્ષને અચૂક મેળવે છે. (૯/૩૨)
૯ મી બત્રીસી સંપૂર્ણ
Jain Education International
=
For Private & Personal Use Only
www.jainelibrary.org