________________
६७८
• द्रव्यतो जिनाज्ञापालकस्याऽपि विराधकत्वसम्भव: • द्वात्रिंशिका-९/३२ इत्थं 'व्युत्पत्तिमान्याय्यां कथयन् पण्डितः कथाम् । स्वसामर्थ्याऽनुसारेण परमानन्दमश्नुते ।।३२॥
अत एव स्याद्वादसिद्धान्तानभिज्ञस्योगविहारिणः श्रद्धाऽपि द्रव्यत एवावगन्तव्या, यथोक्तं सम्मतितर्के → णियमेण सद्दहंतो छक्काए भावओ न सद्दहइ । हंदी अपज्जवेसु वि सद्दहणा होइ अविभत्ता ।। - (सं.त.३/२८) इति । द्रव्यतस्तस्य जिनाज्ञापालनेऽपि विराधकत्वं → छक्कायदयावंतोऽवि संजओ दुल्लहं कुणइ वोहिं । आहारे नीहारे दुगुंछिए पिंडगहणे य ।। (ओ.नि.४४१) इत्येवं ओघनियुक्तौ उक्तमिति प्राक् पृ.४४२)प्रदर्शितमेव । ततश्च यथावस्थितशास्त्रतत्त्वाभ्यासपरिपाकलभ्यज्ञानगर्भवैराग्य-स्वभूमिकोचितकुशलाचाराभ्यां स्वयोग्यतायोग-क्षेम-वृद्धि-शुद्ध्याद्यर्थमेव सर्वथा यतितव्यम्, अन्यथा व्यवहारतः सकलसावधनिवृत्तिकरणेऽपि न मोहोन्मूलनसम्भवः । तदुक्तं हरिभद्रसूरिभिः ब्रह्मसिद्धान्तसमुच्चये → निवृत्तिमात्रं नोपायस्तत्सिय योग्यतां विना । अभव्यदीक्षाक्रीडावदुक्तप्रायमिदं पुरा ।। - (ब्र.सि.३२९) इति दिक् ।।९/३१ ।।
देशनाद्वात्रिंशिकोक्तं (भा-१, पृ.१३२) सिंहावलोकनन्यायेन स्मारयन् उपसंहरति 'इत्थमि'ति । इत्थं = दर्शितरीत्या व्युत्पत्तिमान् = → लोक-शास्त्र-काव्येषु निपुणता = व्युत्पत्तिः - (काव्या.१/८) इति काव्यानुशासनसूत्रानुसारेणाऽत्र पारमार्थिकप्रयोजनप्रतिबद्धनानानयगर्भधर्मकथा-सार्वलौकिकशब्दप्रयोग-गद्यपद्यमयप्रज्ञापनानिपुणताशाली सम्प्राप्तधर्मः, परिदृष्टधर्ममर्मः, सुविदितधर्माशयः, स्वभ्यस्तधर्माचारः, समभिव्याप्तधर्मश्रद्धः, पर्यवगाढसद्धर्मरहस्यार्थः, सुविनिश्चितोत्सर्गापवादविभागः, तीर्णविचिकित्सः विगतविकत्थनः पण्डितः = बहुश्रुतः संयमी श्रोतृ-क्षेत्र-कालाद्यानुकूल्येन स्वसामर्थ्यानुसारेण च, न तु संयमयोगहान्यादिना, न्याय्यां = श्रोतृजनमनःसंवेगाद्यानयनलक्षणन्यायसङ्गतां → शृङ्गार-हास्य-करुणा रौद्र-वीरभयानका बीभत्साऽद्भुत-शान्ता नव रसाः ८(काव्य.२/२) इति काव्यानुशासनोक्तरसानुविद्धां कथां कथयन् परमानन्दं = हृद्यं कुतूहलापेक्षौत्सुक्याकाङ्क्षा-तृष्णादिकलाविकलमानन्दं अश्नुते = लभते। प्रकृते → पुण्यानुबन्धि पुण्यं च सम्यग्बोधे कृते सति । बोधिलाभसमो लाभो नान्यो विश्वे हि प्राणिनाम् ।। भव्यस्य साधुदीक्षायां साहाय्येन फलं महत् । असङ्ख्योद्धारतो जैनैज्ञेयं शत्रुञ्जयस्य वै ।।
विशेषार्थ :- श्रोता, देश, आस., स्वसामथ्र्य, परिस्थिति वगैरेने सक्षम राजाने ४ भु०४५ श्री તીર્થકર ભગવંતનો આંતરિક આશય છે તે મુજબ જે સંયમી ધર્મદેશના આપે છે તે જિનપ્રવચનની ખરા અર્થમાં પ્રભાવના કરે છે. તે વક્તા શ્રોતાના દિલમાં જિનશાસન પ્રત્યે વિશિષ્ટ પ્રકારનો અહોભાવ પેદા કરાવે છે. માટે જ તેવી વ્યક્તિ કદાચ અશક્તિ વગેરે કારણસર આચારમાં ઢીલાશવાળી હોય તો તે ચાલે. પરંતુ તપ-ત્યાગ વગેરે ધર્મના આચારમાં ચુસ્ત હોવા છતાં જેને મોક્ષમાર્ગનો અનુભવના સ્તરે કશો બોધ નથી તે વ્યક્તિ મૂઢતાના કારણે બીજાને આડેધડ ધર્મ કહેવા બેસે તો મોક્ષમાર્ગને લૂંટવાનું કામ કરે છે. માટે ક્રિયાહીન જ્ઞાની-શુદ્ધકરૂપક સારા. પરંતુ જ્ઞાનહીન ક્રિયાજડ સારા નહિ. (૯૩૧)
ગાથાર્થ :- આ રીતે યુક્તિસંગત એવી કથાને પોતાની શક્તિ મુજબ કહેતા વ્યુત્પત્તિવાળા પંડિત साधु ५२मानहने = मोक्षने भेगवे छे. (/३२) १. मुद्रितप्रतौ 'व्युत्पत्तिमात्रायां' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org