________________
• मूढतया क्रियापरस्य धर्माध्वतस्करता
६७७
=
=
विधिना कथयन् धर्मं हीनोऽपि श्रुतदीपनात् । वरं न तु क्रियास्थोऽपि मूढो धर्माऽध्वतस्करः ।। ३१ ।। सोच्चा णिसम्म सम्मं उट्ठाणेणं उट्ठाय वीरा अस्सिं धम्मे समुवट्ठिता ते एवं सव्वोवगता ते एवं सव्वोवरता ते एवं सव्वोवसंता ते एवं सव्वत्ताए परिनिव्वुडे ← (सू.कृ. २/१/६९१ ) इति ।।९ / ३० ।। प्रज्ञापना-क्रिययोः का श्रेयसी ? इत्याशङ्कायां धर्मिमुखेन प्रत्युत्तरयति - 'विधिने 'ति । न धर्मकथामन्तरेण दर्शनप्राप्तिरस्ति ← ( उत्त. चू. अध्य. १ ) इति उत्तराध्ययनसूत्रचूर्णिवचनमनुस्मृत्य केवलकरुणावुद्ध्या विधिना = आचाराङ्ग-सूत्रकृताङ्गाद्युक्तविधानेन धर्मं धर्मकथां कथयन् = प्रज्ञापयन् नोऽपि क्रियारहितोऽपि श्रुतदीपनात् प्रवचनप्रभावनात् वरम् । तदुक्तं दर्शनशुद्धिप्रकरणे इवि हु सकम्मदोसा मणयं सीयंति चरण- करणेसु । सुद्धप्परूवगा तेण भावओ पूयणिज्जंति ।। ← (द.शु. ३/३१) इति । परं शुद्धप्ररूपणा गच्छान्तरीयसाधुनिन्दाद्याशयेन नैव कार्या; न वा शुद्धप्ररूपणाव्याजेन परे तिरस्करणीयाः । किन्तु अन्ये साधवः शुद्धदेशनयोपबृंहणीयाः । अत एव ‘जइ नवि सक्कं काउं सम्मं जिणभासिअं अणुट्ठाणं । तो सम्मं भासिज्जा जहभणिअं खीणरागेहिं । । ओसन्नोऽवि विहारे कम्मं सोहेइ सुलभबोही य । चरणकरणं विसुद्धं उववूहिंतो परूविंतो ।। ← (ग.प्र.३३/३४) इत्येवं गच्छाचारप्रकीर्णके क्रियाशून्यस्यापि शुद्धप्ररूपणयाऽन्यसाधूपबृंहकस्य महत्फलमावेदितम् । न तु = नैव क्रियास्थोऽपि = चारित्रक्रियास्थितोऽपि मूढः = ज्ञान-क्रियोत्सर्गाऽपवाद-निश्चयव्यवहाराद्यनभिज्ञः सन् निरपेक्षदेशनाप्रवृत्त्या धर्माध्वतस्करः = तात्त्विकमोक्षमार्गलुण्टाकः, विशेषणद्वयं हेतुमुखेनावगन्तव्यम् । तदुक्तं उपदेशमालायां नाणाहिओ वरतरं हीणोऽवि हु पवयणं पभावंतो । नय दुक्करं करतो सुवि अप्पागमो पुरिसो ।। (उप.मा. ४२३ ) अपरिच्छिय सुयनिहसस्स, केवलमभिन्नसुत्तचारिस्स । सव्वुज्जमेण वि कयं अन्नाणतवे बहुं पडइ ।। ← ( उप. मा. ४१५ ) इति । गच्छाचारप्रकीर्णकेऽपि → जे अणहीअपरमत्थे गोअमा ! संजए भवे । तम्हा ते वि विवज्जिज्जा दुग्गइपंथदायगे ।। ← (ग.प्र.४३ ) इत्युक्त्याऽज्ञानिसङ्गस्य त्याज्यतोक्ता । श्रीहरिभद्रसूरिभिरपि सम्यक्त्वसप्ततिकायां → पल्लवगाही सबोहसंतुट्ठा। सुबहुंपि उज्जमंता ते दंसणबाहिरा नेया ← ( स.स.६८) इत्युक्तम् ।
=
વિશેષાર્થ :- કયું સૂત્ર ઉત્સર્ગવિષયક છે ? કયા સૂત્રનો વિષય અપવાદ છે ? નિશ્ચય નયની અપેક્ષાએ કઈ વાત છે ? કઈ વાત વ્યવહારનયની અપેક્ષાએ છે ? ‘આ સ્વદર્શનનો સિદ્ધાન્ત છે તથા આ પરદર્શનનો સિદ્ધાન્ત છે’ - આવો ખુલાસો કર્યા વિના કથા કરવામાં આવે તો શ્રોતાને - શિષ્યને તે વાતની પક્કડ થઈ જાય એવી ઘણી શક્યતા છે. તથા એવી એકાંતબુદ્ધિથી તો સમકિત નાશ પામે छे. माटे उत्सर्ग-अपवाह, ज्ञाननय-प्रियानय, निश्चय-व्यवहार, स्वद्दर्शन-परदर्शन, पूर्वयक्ष - उत्तरपक्ष આ પ્રમાણે વિષયવિભાગ કરીને ઉપદેશકે શાસ્ત્રની વ્યાખ્યા શિષ્યને કહેવી જોઈએ. (૯/૩૦)
ગાથાર્થ :- આચારમાં હીન હોવા છતાં વિધિપૂર્વક ધર્મને કહેનારા દેશક સારા, કારણ કે તે શ્રુતની = પ્રવચનની પ્રભાવના કરે છે. પરંતુ ક્રિયામાર્ગમાં રહેવા છતાં જે મૂઢ હોય અને ધર્મમાર્ગને, મોક્ષમાર્ગને લૂંટનાર હોય તે સારો નહિ. (૯/૩૧)
Jain Education International
•
For Private & Personal Use Only
www.jainelibrary.org