________________
६७६ • ज्ञातुर्धर्मकथनं कर्तव्यम् •
द्वात्रिंशिका-९/३० एवं ह्येकान्तबुद्धिः स्यात्सा च सम्यक्त्वघातिनी । विभज्यवादिनो युक्ता कथायामधिकारिता ॥३०।। १-२-२०,२१) इति । सम्मोसाय = लोपाय, पदव्यञ्जनं = पदव्यञ्जनं, शिप्टं स्पष्टार्थम् ।
श्रद्धोपेत-यथावस्थितार्थपदाद्यवगमाऽविनाभाविधर्मगोचरप्रमोदोत्कर्पण च समाधिलाभोऽपि सुकरः । बौद्धानामपि सम्मतमिदम् । तदुक्तं मज्झिमनिकाये → लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्जं । पमुदितस्स पीति जायति, पीतिमनस्स कायो पस्सम्भति, पस्सद्धकायो सुखं वेदेति, सुखिनो चित्तं समाधियति (म. नि. १.१.७५) इति भावनीयं स्वपरतन्त्रसमवतारकुशलैः । पामोज्जं = प्रामोद्यं, पस्सद्धकायो = प्रश्रब्धकायः, शिष्टं स्पष्टम्। ____ यत्तु योगवाशिष्ठे → अज्ञातारं वरं मन्ये न पुननिबन्धुताम् + (यो.वा.निर्वाणप्रकरण-उत्तरार्ध ४/३६) इत्येवमुक्तं तत्र ज्ञानवन्धुतापदं संविग्नपाक्षिकव्यावृत्त-शुष्कज्ञानित्वपरमवसेयमिति न कश्चिद् विरोधः ।।९/२९।।
प्रकृतप्रज्ञापकापटुत्वकारणमाह- ‘एवमिति । एवं = अपरिच्छिद्य केवलसूत्रकथने हि श्रोतुः संशयः स्यात्, → निउणो खलु सुत्तत्थो न हु सक्को अपडिवोहितो नाउं 6 (नि.भा.५२५२/५३७५) इति निशीथभाष्यवचनात् । लोकतत्त्वनिर्णये अपि → आचार्यस्यैव तज्जाड्यं यच्छिष्यो नावबुध्यते । गावो गोपालकेनेव कुतीर्थनाऽवतारिताः ।। 6 (लोक.१/५) इत्युक्तम् । यद्वाऽपरिणतस्य श्रोतुः उत्सर्गादिगोचरा अतिपरिणतस्य चाऽपवादादिविषयिणी एकान्तबुद्धिः स्यात् । एवञ्च प्रज्ञापकः परीक्षकाणां निन्दनीयः स्यात् । तदुक्तं सम्मतितर्के → एयन्ताऽसत्भूयं सत्भूयमणिच्छियं च वयमाणो । लोइयपरिच्छियाणं वयणिज्जपहे पडइ वादी।। - (स.त.३/५९) इति । सा च = एकान्तबुद्धिर्हि सम्यक्त्वघातिनी → “एगंते होइ मिच्छत्तं - (म.नि.अध्य.५) इति पूर्वोक्त(पृ.१२२)महानिशीथवचनात् । यथोक्तं धर्मरत्नप्रकरणेऽपि → तेसिं विसयविभागं अमुणतो नाणवरणकम्मुदया । मुज्झइ जीवो तत्तो सपरेसिमसग्गहं जणइ ।। - (धर्मर.प्र.१०७) इति ।
तर्हि कस्य कथाकथनाधिकारः ? इत्याशङ्कायामाह- विभज्यवादिनः = स्याद्वादिनः कथायां कथाप्रज्ञापनायां अधिकारिता युक्ता, अन्यस्य तु मौनमेव श्रेयः, न तु समर्थस्य । तदुक्तं प्रतिमाशतकवृत्तौ → स्याद्वादेन वस्तुस्थापनाऽशक्तस्यैव च मौनं, तच्छक्तेन तेन च देश-कालाद्यौचित्येनाऽन्यतरोपदेश एव विधेय इत्ययमेव मौनीन्द्रः सम्प्रदायः - (प्र.श.२१ वृ.पृ.१५४ वृ.) इति ।
कथाऽपि स्याद्वादिना स्याद्वादगर्भेव वक्तव्या। तदुक्तं सूत्रकृताङ्गे → विभज्जवायं च वियागरेज्जा -- (सूत्रकृ.१/१४/२२) इति । यथोक्तं सम्मतितर्केऽपि → दव्यं खित्तं कालं भावं पज्जाय-देससंजोगे । भेदं च पडुच्च समा भावाणं पन्नवणपज्जा ।। (सं.त.३/६०) इति ।
इत्थमेवोत्साहवतां श्रोतॄणां विरत्यादिलाभसम्भवात् । तदुक्तं सूत्रकृताङ्गे → तस्स भिक्खुस्स अंतियं धम्म सोच्चा णिसम्म उट्ठाय वीरा अस्मिं धम्मे समुट्टिता जे ते तस्स भिक्खुस्स अंतियं धम्म
ગાથાર્થ :- આવું કહેવામાં એકાન્તબુદ્ધિ થાય. અને તે એકાંતબુદ્ધિ સમકિતનો નાશ કરનારી છે. भाटे वि५यविमा ७रीने प्रोदना२ (१५ ते
२ २
Jain Education International
For Private & Personal use only
www.jainelibrary.org