________________
६७०
• वेदमोहोदयकारणप्रज्ञापनम् • द्वात्रिंशिका-९/२६ तपोनियमसारा तु कथनीया विपश्चिता । 'संवेगं वापि निर्वेदं यां श्रुत्वा मनुजो व्रजेत् ।।२६।। खेडकव्वडाणं च । रायकहा चोरकहा जणवदणयराऽऽयरकहाओ । णडभडमल्लकहाओ मायाकरजल्लमुट्ठियाणं च । अज्जउललंघियाणं कहासु ण वि रज्जए धीरा ।। - (मूला.८५५/८५६) इति मूलाचारवचनमपि व्याख्यातम्, अकुशलभावनिवन्धनतया विकथायाः त्याज्यत्वात् ।
प्रकृतेऽशुभभावश्च स्व-परयोः मैथुनसंज्ञोदयप्रभृतिलक्षणोऽवगन्तव्यः, शृङ्गारकथाश्रवणादिजनितमत्याः तदुत्पादकत्वात् । यथोक्तं निशीथभाष्ये → आय-परमोहुदीरणा उड्डाहो सुत्तमादिपरिहाणी । वंभव्यते अगुत्ती पसंगदोसा य गमणादी ।। - (नि.भा.पीठिका-१२१) इति । एकं तावदनादिकालतः प्रवृत्ततया बलिप्ठा कामवासना विद्वांसमप्याकर्षति । तदुक्तं भर्तृहरिणा वैराग्यशतके → अलमतिचपलत्वात् स्वप्नमायोपमत्वात्, परिणतिविरसत्वात् सङ्गमेन प्रियायाः । इति यदि शतकृत्वः तत्त्वमालोकयामि, तदपि न हरिणाक्षी विस्मरत्यन्तरात्मा ।। - (वै.श.३३) इति । तत्र च शृङ्गारोपगृहनाधुक्तिगर्भा कथा जीवमत्यन्तं बाधते स्व-परयोः रीरंसोत्पादनात् । तदुक्तं कामसूत्रे अपि → पृच्छतां शृण्वतां वाऽपि तथा कथयतामपि । उपगूहविधिं कृत्स्नं रिरंसा जायते नृणाम् ।। - (का.सू.२/२/३०) इति । ____ अत एव स्त्र्यादिकथाकथने प्रायश्चित्तमार्गणं निशीथभाष्ये → इत्थिकहं भत्तकहं देसकहं चेव तह य रायकहं । एता कहा कहते पच्छित्ते मग्गणा होति ।। (नि.भा.११८) इत्येवमावेदितम् । शृङ्गारादिगर्भस्त्र्यादिविकथातः संयमोद्यतस्यापि तद्भेदो निशीथभाष्ये →
संजममहातलागस्स णाण-वेरग्ग-सुपरिपुण्णस्स । सुद्धपरिणामजुत्तो तस्स तु अणतिक्कमो पाली ।।
संजमअभिमुहस्स वि विसुद्धपरिणामभावजुत्तस्स । विकहातिसमुप्पन्नो तस्स तु भेदो मुणेतव्यो ।। 6 (नि.भा.१६८०-८१) इत्येवमुपदर्शितः । तदुक्तं स्थानाङ्गसूत्रे → चउहिं ठाणेहिं मेहुणसन्ना समुप्पज्जति, तं जहा (१) चितमंससोणिययाए, (२) मोहणिज्जस्स कम्मस्स उदएणं, (३) मतीते (४) तदट्ठोवओगेणं - (स्था.४/४/३५७) इति शृङ्गारादिगर्भा स्त्रीकथा त्याज्यैव ब्रह्मचर्यसिद्धिमिच्छता ।।९/२५।।
यत्प्रकारा कथा कथनीया तत्प्रकारामाह- 'तप' इति । संवेगं = तात्त्विकदेवादिगोचरानुरागं, यथोक्तं 'तथ्ये धर्म ध्वस्तहिंसाप्रवन्धे, देवे राग-द्वेप-मोहादिमुक्ते । साधौ सर्वग्रन्थसन्दर्भहीने संवेगोऽसौ निश्चलो योऽनुरागः ।।' (योगबिन्दु २९० वृ.उद्धृत) इति पूर्वोक्तं(पृ.१३८)इहानुसन्धेयम् । प्रकृते मुद्रितप्रतौ तु 'संवेदमि'त्यशुद्धः पाठः । निर्वेद = भवोद्वेगम् । शिष्टं स्पप्टम् । अधिकारिणा धर्माऽकथने त्वल्पकर्मरजोमलानां धर्माऽश्रवणेन धर्माऽनव-गमतो धर्महानिप्रसङ्गोऽपि दुर्वार एव । ___ सम्मतञ्चेदं वौद्धानामपि । तदुक्तं मज्झिमनिकाये पाशराशिसूत्रे → सन्ति सत्ता अप्परजक्खजातिका, अस्सवनता धम्मस्स परिहायन्ति, भविस्सन्ति धम्मस्स अातारो - (म.नि.१/३/६/२८२ पृष्ठ-२२७) इति भावनीयं यथागमम् ।
ગાથાર્થ :- તપ અને નિયમથી સમૃદ્ધ એવી કથા પંડિતે કરવી જોઈએ કે જેને સાંભળીને મનુષ્ય संवेग निर्वहने पामे. (४/२६) १. मुद्रितप्रती 'संवेदं' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org