________________
• शृङ्गारव्याख्या-स्वरूपयोः वैविध्यम् ।
६६९ 'सन्धुक्षयन्ती मदनं शृङ्गारोक्तैरुदर्चिषम्। कथनीया कथा नैव साधुना सिद्धिमिच्छता ।।२५।।
निश्चय-व्यवहाराभ्यां कथाऽकथा-विकथाव्यवस्थामुक्त्वा साम्प्रतं श्रमणेन यथाविधा कथा न कार्या तथाविधामाह- ‘सन्धुक्ष्यन्ती'ति । या कथा शृङ्गारोक्तैः = रतिरूपशृङ्गारवचनैः, 'व्यवहारः पुंना•रन्योऽन्यं रक्तयोः रतिप्रकृतिः शृङ्गार' ( ) इति वचनात् । केचित्तु ‘रतिक्रीडाद्यर्थस्त्री-पुंसयोरन्योऽन्यं प्रतीच्छा शृङ्गार' ( ) इति वदन्ति । 'विभावानुभावव्यभिचारिभिरभिव्यक्तं रतिरूपस्थायिभावावच्छिन्नं स्वप्रकाशानन्दात्मकं चैतन्यं शृङ्गार' ( ) इति परे, 'प्राकृतिकसौन्दर्यव्यक्तिकारी शृङ्गार' ( ) इत्यन्ये । अनुयोगद्वारसूत्रे शृङ्गारलक्षणोदाहरणव्यावर्णनं → सिंगारो नाम रसो रतिसंजोगाभिलाससंजणणो । मंडण-विलास-विव्वोय-हास-लीला-रमणलिंगों ।। सिंगाररसो जहा- महुरं विलासललियं हिययुम्मादणकरं जुवाणाणं । सामा सद्दद्दामं दाएती मेहलादामं ।।
6 (अनु.सू.२६२/६६-६७) इत्येवमुपलभ्यते । शृङ्गारप्रकारौ तु अग्निपुराणगते काव्यालङ्कारशास्त्रे → सम्भोगो विप्रलम्भश्च शृङ्गारो द्विविधः स्मृतः । प्रच्छन्नश्च प्रकाशश्च तावपि द्विविधौ पुनः ।। - (का.अ.४/१०) इत्यादिरूपेण दर्शितौ । → स्त्री-पुंस-माल्यादिविभावा जुगुप्साऽऽलस्यौग्र्यवर्जव्यभिचारिका रतिः सम्भोग-विप्रलम्भात्मा शृङ्गारः - (काव्या.२/३) इति काव्यानुशासने श्रीहेमचन्द्रसूरयः । तदुक्तं वाग्भटालकारेऽपि → जाया-पत्योमिथो रत्यावृत्तिः शृङ्गार उच्यते । संयोगो विप्रलम्भश्चेत्येष तु द्विविधो मतः ।। - (वा.भ.६/४) इति । रसगंगाधरे जगन्नाथेन → शृङ्गारो द्विविधः संयोगो विप्रलम्भश्च - (र.गं.पृ.३४) इत्युक्तम् । विष्णुधर्मोत्तरपुराणे तु → शृङ्गारं त्रिविधं विद्याद् वाड्नेपथ्यक्रियात्मकम्
(वि.ध.पु.भावाध्याय-५४) इत्युक्तम् । अन्त्यदीपकत्वेन शृङ्गारस्य स्त्रीजाति-कुलाधुपलक्षकत्वमवसेयम् । तदुक्तं निशीथभाष्ये → जातीकहं कुलकहं रूवकहं बहुविहं च सिंगारं 6 (नि.शी.११९) इत्यादि । तल्लक्षणं च निशीथभाष्ये → मातिसमुत्था जाती, पितिवंसं कुलं तु अहव उग्गादी । वण्णाऽऽकित्ति य रूवं, गति-पेहिति-भास सिंगारे ।। - (नि.भा.१२०) इत्येवमावेदितम् ।
उदर्चिषं = अत्युल्बणं मदनं = कामाग्निं सन्धुक्षयन्ती = उद्दीपयन्ती कथा सिद्धिं = केवलज्ञानादिनिष्पत्तिं इच्छता = अभिलषता साधुना = मोक्षमार्गसाधकेन निर्ग्रन्थेन नैव कथनीया = नैव वक्तव्या, तासां केवलज्ञानादिप्रतिबन्धकत्वात्, → चउहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा अस्सिं समयंसि अतिसेसे नाण-दंसणे समुप्पज्जिउकामे वि न समुप्पज्जेज्जा, तं जहा अभिक्खणं अभिक्खणं (१) इत्थिकहं (२) भत्तकहं, (३) देसकहं, (४) रायकहं कहेत्ता भवति - (स्था.४/२/२८४) इत्यादितः स्थानाङ्गसूत्रवचनात् । ___तदुक्तं दशवैकालिकनियुक्तौ अपि → सिंगारसुत्तइया मोहकुवियफुफुगा सहासिंति। जं सुणमाणस्स कहं समणेण ण सा कहेयव्वा (द.नि.३/२१२) इति। एतेन → इत्थिकहा अत्थकहा भत्तकहा જણાવેલ હોવાથી અહીં તેનું વિવેચન તેઓશ્રીએ કરેલ નથી. તેમ છતાં જ્યાં અમને આવશ્યકતા લાગશે ત્યાં વિશેષાર્થમાં વિશેષ બાબતોનો ઉલ્લેખ કરશું. આ બાબતને વાચકવર્ગ ખ્યાલમાં રાખે.
ગાથાર્થ:- શૃંગારિક ઉક્તિઓ વડે કામવાસનારૂપ અગ્નિને પ્રજ્વલિત કરતી એવી કથા મોક્ષાભિલાષી साधुभे या२५ ४२वी नोभे. (/२५)
१.सन्धुक्षयन्ति' इत्येवमशुद्धः पाठो मुद्रितादर्श । २.हस्ताद” 'सिद्धमि..' इत्यशुद्धः पाठः। ३.इत आरभ्य अष्टश्लोकी हस्तादर्श नास्ति । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org