________________
• प्रज्ञापकापेक्षया कथानिरूपणम् •
६६७ ज्ञानक्रियातपोयुक्ताः सद्भावं 'कथयन्ति यत् । जगज्जीवहितं सेयं कथा धीरैरुदाहृता ।।२३।। ____ ज्ञानेति। ज्ञान-क्रिया-तपोभिर्युक्ताः (=ज्ञान-क्रिया-तपोयुक्ताः) सद्भावं = परमार्थं यत् कथयन्ति जगज्जीवहितं सेयं धीरैः कथोदाहृता, निर्जराऽऽख्यफलसाधनात्, वक्तुः श्रोतुश्च कुशलपरिणामोत्पा-दनात्, अन्यथा तु तत्र भजनाऽपि स्यादिति । तदिदमुक्तं
“तवसंजमगुणधारी जं चरणरया कहंति सब्भावं ।
सव्वजगज्जीवहि सा उ कहा देसिआ समये ।।" (द.वै.नि.३/२१०) ।।२३।। उपदेशमालायां → वग्घमुहम्मि अहिगओ, मंसं दतंतराउ कड्डइ । मा साहसं ति जंपइ, करेइ न च तं जहाभणियं ।। 6 (उप.मा.४७२) इत्यवधेयम् ।।९/२२ ।।
अत्रैव प्रक्रमेऽधुना कथामाह- 'ज्ञानेति । अन्यथा = वक्तारं प्रति निर्जराकारणत्वाभावे श्रोतारं प्रति च कुशलपरिणामानुत्पादने तु तत्र = सुसंयतवचने भजनाऽपि स्यात् = अकथा-विकथा-कथाऽन्यतरविकल्पनाऽपि निश्चयनयाभिप्रायतः स्यादेव । श्रोतुः कुशलपरिणामाऽजननेऽकथा, अकुशलपरिणामजनने विकथा, कुशलपरिणामोत्पादने च कथैव संयतोक्तिरिति दिक् । ___अत्रापि दशवैकालिकनियुक्तिसंवादमाह- ‘तवेति। तवृत्तिस्त्वेवम् → तपःसंयमगुणान् धारयन्ति तच्छीलाश्चेति तपःसंयमगुणधारिणः यां काञ्चन चरणरताः = चरणप्रतिबद्धा न त्वन्यत्र निदानादिना कथयन्ति सद्भावं = परमार्थं, किंविशिष्टमित्याह- सर्वजगज्जीवहितं, न तु व्यवहारतः कतिपयसत्त्वहितमित्यर्थः, तुशब्दस्यावधारणार्थत्वात्, सैव कथा निश्चयतो देशिता समये, निर्जराख्यस्वफलसाधनात्कर्तृणां, श्रोतृणामपि चेतःकुशलपरिणामनिबन्धना कथैव, नो चेद् भाज्येति गाथार्थः - (द.वै.नि.३/२१० वृत्ति) इति । अधिकारिणा योग्यस्याऽकथने त्वाज्ञाभङ्गोऽपि प्रसज्येत । यथोक्तं धर्मबिन्दौ → अकथने उभयाऽफल आज्ञाभङ्गः - (ध.बि.३/११) इति । अधिकारिणाऽपि केवलनिर्जराकामनया योग्याय कथा कथनीया। तदुक्तं सूत्रकृताङ्गे → णो अन्नस्स हेउं धम्ममाइक्खेज्जा, णो पाणस्स हेउं धम्ममाइक्खेज्जा; अगिलाए धम्ममाइक्खेज्जा, नन्नत्थ कम्मनिज्जरट्टाए धम्ममाइक्खेज्जा - (सू.कृ.२/१/१५) इति पूर्वोक्तं(पृ.१३२)इहानुसन्धेयम् ।।९/२३ ।।
ગાથાર્થ :- જ્ઞાન, ક્રિયા અને તપથી યુક્ત એવા જે ધર્મદેશકો જગતના જીવોને હિતકારી એવી જે તાત્ત્વિક વાત કરે તે ધીર પુરુષો વડે કથા કહેવાય છે. (૨૩)
ટીકાર્થ :- તત્ત્વજ્ઞાન, આચાર અને તપસાધનાથી સંપન્ન એવા જે ધર્મદેશકો જગતના જીવોને હિતકારી એવો જે પરમાર્થ-રહસ્યાર્થ-ગૂઢાર્થ કહે તે ધીર પુરુષો વડે કથા કહેવાય છે. કારણ કે તે વક્તા માટે નિર્જરા નામના ફળની સાધિકા છે. તથા શ્રોતાને માટે તે કુશલ પરિણામની જનની છે. જો આવા ફળને ન આપે તો એમાં પણ કથા-અકથા એમ ભજના સમજવી.
દશવૈકાલિકનિર્યુક્તિમાં જણાવેલ છે કે – “તપ, સંયમ ગુણને ધારણ કરનાર અને સંયમમાં રત એવા ઉપદેશક જગતના જીવને હિતકારી જે પરમાર્થ કહે છે તે જિનપ્રવચનમાં કથા કહેવાયેલ છે.”
(M/२3) १. 'थयंति' इत्यशुद्धः पाठो हस्तादर्श । २. हस्तादर्श 'कहिंति' इति पाठः । ३. 'देसिआ धम्मे' इत्यशुद्धः पाठो मुद्रितप्रतौ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org