________________
६६६
• भूलिङ्गन्यायेन मिथ्यादृक्कथायाः अकथात्वम् • द्वात्रिंशिका-९/२२ मिथ्यात्वं वेदयन् ब्रूते लिङ्गस्थो वा गृहस्थितः । यत्साऽकथाशयोद्भूतः श्रोतुर्वक्त्रनुसारतः ।।२२।।
मिथ्यात्वमिति । मिथ्यात्वं वेदयन् = विपाकेनाऽनुभवन् लिङ्गस्थो द्रव्यप्रवजितः अङ्गारमर्दकादिप्रायो, गृहस्थितो वा कश्चिद् यद् ब्रूते साऽकथा । श्रोतुर्वक्त्रनुसारतो वक्त्राशयाऽऽनुगुण्येनैव आशयोद्भूतेः = भावोत्पत्तेः प्रतिविशिष्टफलाऽभावात् । तदिदमुक्तं
“मिच्छत्तं वेयंतो जं अन्नाणी कहं परिकहेइ । लिंगत्थो व गिही वा सा अकहा देसिआ समए ।।" (द.वै.नि. ३/२०९) ।।२२।।
साम्प्रतमकथालक्षणमाह- 'मिथ्यात्वमिति । अकथाकथनबीजमाह-श्रोतुः वक्त्राशयानुगुण्येनैव = प्रज्ञा-पकपरिणामानुसारेणैव भावोत्पत्तेः = परिणामनिप्पत्तेः प्रतिविशिष्टफलाभावात् = प्रतिविशिष्टकथापरिणामविरहात् । अत्रैव दशवैकालिकनियुक्तिसंवादमाह- 'मिच्छत्तमिति । तद्वृत्तिस्त्वेवम् → मिथ्यात्वमितिमिथ्यात्वमोहनीयं कर्म वेदयन विपाकेन यां काञ्चिद अज्ञानी कथां कथयति, अज्ञानित्वं चास्य मिथ्यादृष्टित्वादेव। यद्येवं नार्थोऽज्ञानिग्रहणेन मिथ्यात्ववेदकस्याज्ञानित्वाव्यभिचारादिति चेद्, न, प्रदेशानुभववेदकेन सम्यग्दृष्टिना व्यभिचारादिति। किंविशिष्टोऽसावित्याह- लिङ्गस्थो वा = द्रव्यप्रव्रजितोऽङ्गारमर्दकादिः गृही वा यः कश्चिदितर एव सा एवं प्ररूपकप्रयुक्तयुक्त्या श्रोतर्यपि प्रज्ञापकतुल्यपरिणामनिबन्धना अकथा देशिता समये, ततः प्रतिविशिष्टकथाफलाभावाद् + (द.वै.नि.३/२०९ वृत्ति) इति । अभिन्नग्रन्थिर्हि द्रव्यतो जिनवाणीमुपदिशन्नपि सम्यक्परिणामविरहात् यथाशक्ति स्वोक्ताऽपालनात् मध्यमबुद्धौ मिथ्यात्वोदयनिमित्तमपि स्यात् कदाचिद् भूलिङ्गन्यायेन । तदुक्तं महाभारते सभापर्वणि → भूलिङ्गशकुनि म पार्थे हिमवतः परे । भीष्म ! तस्याः सदा वाचः श्रूयन्तेऽर्थविगर्हिताः ।। मा साहसमितीदं सा सततं भाषते किल । साहसं चात्मनातीव चरन्ती नाववुध्यते ।। सा हि मांसार्गलं भीष्म ! मुखात् सिंहस्य खादतः। दन्तान्तरविलग्नं यत् तदादत्तेऽल्पचेतना ।। - (म.भा.सभा./२८-२९-३०) इति । एवमेव मासाहसशकुनिन्यायोऽप्यत्रानुयोज्यः । तदुक्तं
હ મિથ્યાત્વીની ધર્મક્યા પણ અક્યા છે ગાથાર્થ :- મિથ્યાત્વનો અનુભવ કરતો દ્રવ્યસાધુ કે ગૃહસ્થ જે બોલે તે અકથા કહેવાય છે. કારણ કે શ્રોતાને વક્તાના આશય મુજબ પરિણામ ઉત્પન્ન થાય છે. (૯/૨૨)
ટીકાર્થ :- વિપાકોદયથી મિથ્યાત્વનો અનુભવ કરતો એવો અંગારમઈક વગેરે જેવો દ્રવ્યસાધુ હોય કે ગૃહસ્થ હોય, તે જે કાંઈ બોલે તે અકથા કહેવાય. કારણ કે વક્તાના આંતરિક શુભાશુભ પરિણામના આધારે જ શ્રોતાને ભાવ = પરિણામ પ્રગટે છે. મિથ્યાત્વીને તેવા પ્રકારના શુભ અધ્યવસાય ન હોવાથી તેના દ્વારા કહેવાતી ધર્મદેશના પણ શ્રોતામાં વિશિષ્ટ પ્રકારનું તાત્ત્વિક ફળ પ્રગટાવી શકતી નથી. મતલબ કે તે કાંઈ કહે કે ન કહે - બધું સરખું જ છે. માટે તેની કથા અકથા જ સમજવી. માટે જ દશવૈકાલિક નિર્યુક્તિમાં જણાવેલ છે કે કે “મિથ્યાત્વનો અનુભવ કરતો અજ્ઞાની જાણવો. તે દ્રવ્યથી સાધુવેશને ધારણ કરનાર હોય 3 गृस्थ होय. ते ४ था 5 ते २.४था ४ छ.- सेम भागममा ४॥वेल छ.' 6 (८/२२) १. हस्तादर्श 'भावादिद....' इति त्रुटितः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org