________________
६६५
• अकथा-विकथा-कथानां विपरिवर्तः • तदुक्तं- “एया चेव कहाओ' पन्नवगपरूवगं समासज्ज ।
अकहा कहा य विकहा हविज्ज पुरिसंतरं पप्प ।।” (द.वै.नि. ३/२०८) अत्र प्रज्ञापकप्ररूपकमित्यत्र 'कर्मधारयाऽऽश्रयणादवबोधकप्ररूपको व्याख्यातो घरट्टभ्रमणकल्पश्च व्यवच्छिन्नः । द्वन्द्वाऽऽश्रयणे तु द्वित्वे बहुवचनाऽऽपत्तिरित्यवधेयम् ।।२१।।। पत्तेः । अयमाशयो निरुक्ताः कथाः प्रज्ञापकस्य भगवदभिमताभिप्रायविशेषविरहे अकथाः स्युः, ततः श्रोतृणामपि धर्मादिपुरुषार्थप्रतिपत्त्यनुदयात् । तस्य रागादिपारवश्ये सति ता एव विकथाः स्युः, ततः श्रोतृणामपि धर्मादिपुरुषार्थविप्रतिपत्तिजननात् । तस्य भगवदभिमताभिप्रायविशेषानुसरणपरिणामे सति ताः कथाः स्युः, ततः श्रोतॄणामपि स्वरसतो नीतिसमेतव्यवहारादिलक्षणार्थपुरुपार्थ-स्वदारासन्तोपादिलक्षणकामपुरुषार्थ-विधियतनादिगर्भितधर्मादिपुरुपार्थप्रतिपत्तेरिति । रत्ननिगूहनोत्तरपरिग्रहत्यागोपदेशकरत्नाकरसूरिदृष्टान्तत इदं भावनीयम् । अर्थ-कामयोरपि धर्मफलत्वेन दर्शने एव कथात्वं, अन्यथा विकथात्वमकथात्वं वा । एतेन → तत्फलाभ्युदयाङ्गत्वादर्थ-कामकथा, अन्यथा विकथैवाऽसावपुण्याऽऽश्रवकारणम् - (म.पु.१/११९) इति महापुराणवचनमपि व्याख्यातम् ।
यां कथां श्रुत्वा यः श्रोता एकत्रोद्विजते तामेव कथां श्रुत्वा स एव श्रोताऽन्यत्र प्रतिबुध्यते तत्र प्रज्ञापकाशयविशेष एव प्रयोजक इति मन्तव्यम् । अत एव ‘गुणसुट्ठिअस्स वयणं घयपरिसित्तो व्व पावओ भाइ । गुणहीणस्स न सोहइ नेहविहूणो जह पईवो ।।' (बृ.क.भा.२४५) बृहत्कल्पभाष्ये इत्युक्तमिति पूर्व(पृ.१८८) दर्शितम् । ततश्चोपदेशकेन जिनप्रवचनपरिणतहृदयेन भाव्यमित्यत्रोपदेशो ध्वन्यते ।
अत्रैव दशवैकालिकनियुक्तिसंवादमाह- ‘एया' इति । तद्वृत्तिस्त्वेवम् → एता एवोक्तलक्षणाः कथाः प्रज्ञापयतीति प्रज्ञापकः प्रज्ञापकश्चासौ प्ररूपकश्चेति विग्रहस्तमवबोधकप्ररूपकं न तु घरट्टभ्रमणकल्पं, यतो न किञ्चिदवगम्यत इत्यर्थः समाश्रित्य = प्राप्य, किमित्याह ‘अकथा' वक्ष्यमाणलक्षणा, कथा चोक्तस्वरूपा, विकथा चोक्तस्वरूपैव भवति, पुरुषान्तरं श्रोतृलक्षणं प्राप्य = आसाद्य, साध्वसाध्वाशयवैचित्र्यात्, सम्यक्श्रुतादिवत् । अन्ये तु प्रज्ञापकं = मूलकर्तारं प्ररूपकं = तत्कृतस्याख्यातारमिति व्याचक्षते, न चैतदतिशोभनं, 'पण्णवयपरूवगे समासज्ज'त्ति पाठप्रसङ्गात् + (द.वै.नि.३/२०८ वृत्ति) इति ।।९/२१।।
શ્રીદશવૈકાલિકનિર્યુક્તિમાં પણ જણાવેલ છે કે – “આ જ કથાઓ પ્રજ્ઞાપક એવા પ્રરૂપકને આશ્રયીને અકથા, વિકથા અને કથારૂપે શ્રોતાવિશેષને પામીને બને છે. પ્રસ્તુત સંવાદમાં જણાવેલ “પ્રજ્ઞાપકપ્રરૂપક' શબ્દમાં કર્મધારય સમાસને સ્વીકારવાથી “અવબોધક પ્રરૂપક' અર્થાત્ “પ્રતિબોધ કરનાર એવા પ્રરૂપક = ધર્મદેશક' આવો અર્થ નીકળે છે. આવું કહેવાથી અનાજ દળનારી ઘંટીની જેમ ગોળગોળ ફરીને તેની તે જ વાત ગરબડ-ગોટાળા વાળીને કહેનાર એવા ઉપદેશકની પ્રસ્તુતમાં બાદબાકી થઈ જાય છે.
ने भधारय समासना पहले द्वन्द्व समासने स्वी२वामां मापे तो 'प्रज्ञापकप्ररूपके' मा शते સંસ્કૃત ભાષામાં દ્વિવચન આવે. તથા પ્રાકૃત ભાષામાં દ્વિવચનના બદલે કાયમ બહુવચન વાપરવામાં
भावतुंडोवाथी 'पन्नवगपरूवगे' । मु४५ वयनामित ८५ थवानी मापत्ति भावे.भाटे ६शवैधानि નિર્યુક્તિના ઉપરોક્ત સંવાદમાં કર્મધારય સમાસને સ્વીકારવો. આ વાત ધ્યાનમાં લેવી.(૨૧) १. हस्तादर्श 'कहाउ' इति पाठः । २. हस्तादर्श 'धर्मधार....' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org