________________
• विकथाविमर्शः . विकथा कथालक्षणविरहिता तु स्यात् भक्त-स्त्री-देश-राड्गता' भक्तादिविषया। यदाह"इत्थिकहा भत्तकहा रायकहा चोरजणवयकहा य ।
नड-नट्ट-जल्ल-मुट्टिय'कहा उ एसा भवे विकहा ।।" (द.वै.नि.३/२०५) ।।२०।। सङ्ग्रह-व्यवहारैः या कथ्यते सा प्रकीर्णककथा, ऋजुसूत्रादिभिः शुद्धनयैः या कथ्यते सा निश्चयकथा । यथोक्तं निशीथभाष्ये → उस्सगा पइन्नकहा य, अववातो होति णिच्छयकथा तु । अहवा ववहारणया पइण्ण सुद्धा य णिच्छइगा ।। (नि.भा.२१३१) इति । यद्वा → शृङ्गार-हास्य-करुण-रौद्र-वीरभयानकाः । बीभत्साऽद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ।। - (का.प्र.४/२९) इति काव्यप्रकाशदर्शिताऽष्टविधरसानुविद्धा यद्वा → शृङ्गार-वीर-करुण-हास्याऽद्भुत-भयानकाः । बीभत्स-रौद्र-शान्ताश्च नवैते कथिता बुधैः ।। - (वा.भ.६/३) इति वाग्भटाऽलकारदर्शित-नवरसानुविद्धा कथा मिश्रकथाऽवसेयेत्येवं नयमतभेदेन विभावनीयमागमविशारदैः ।
अज्ञातस्वरूपायास्त्यागाऽसम्भवादिति साम्प्रतं कथाविपक्षभूतां त्याज्यां विकथामाह 'विकथा' इति । विकथायां दशवकालिकनियुक्तिसंवादमाह- 'इत्थिकहा' इति । तद्वृत्तिस्त्वेवम् → स्त्रीकथा‘एवंभूता द्रविडा' इत्यादिलक्षणा | भक्तकथा ‘सुन्दरः शाल्योदन' इत्यादिरूपा । राजकथा 'अमुकः शोभन' इत्यादिलक्षणा । चौरजनपदकथा च 'गृहीतोऽद्य चौरः स इत्थं कदर्थितः' तथा रम्यो मध्यदेश इत्यादिरूपा नट-नर्तक-जल्ल-मुष्टिककथा च एषा भवेद्विकथा प्रेक्षणीयकानां नटो रमणीयः यद्वा नर्तकः यद्वा जल्लः । जल्लो नाम वरत्राऽऽखेलकः मुष्टिको मल्लः, इत्यादिलक्षणा विकथा, कथालक्षणविरहात् + (द.वै.नि. ३/२०५ वृत्ति) इति । कथालक्षणन्तु धर्मादिपुरुषार्थसाधकवचनप्रबन्धविशेष इति ज्ञेयम् ।
प्रकृते च → चत्तारि विकहातो पनत्ता, तं जहा- इत्थिकहा, भत्तकहा, देसकहा, रायकहा । इत्थिकहा चउव्विहा पन्नत्ता, तं जहा (१) इत्थीणं जाइकहा, (२) इत्थीणं कुलकहा, (३) इत्थीणं रूवकहा, (४) इत्थीणं नेवत्थकहा । भत्तकहा चउव्विहा पन्नत्ता, तं जहा (१) भत्तस्स आवावकहा, (२) भत्तस्स णिव्वावकहा, (३) भत्तस्स आरंभकहा, (४) भत्तस्स निट्ठाणकहा । देसकहा चउव्विहा पन्नत्ता, तं जहा (१) देसविहिकहा (२) देसविकप्पकहा, (३) देसच्छंदकहा, (४) देसनेवत्थकहा। रायकहा चउव्विहा पन्नत्ता, तंजहा- (१) रन्नो अतिताणकहा, (२) रन्नो निज्जाणकहा, (३) रन्नो बल-वाहणकहा, (४) रन्नो कोस-कोट्ठागारकहा -(स्था.४/२/२८२) इति स्थानाङ्गसूत्रमनुसन्धेयम्। आवश्यकचूर्णी अपि (भाग-२/पृष्ठ-८१) प्रकृतविकथाभेद-प्रभेदानां सविस्तरं वर्णनमुपलभ्यते । गोमट्टसारस्य तत्त्वप्रदीपिकावृत्ती (गो.सा.जीवकाण्ड-४४/८४/१७) पञ्चविंशतिविधा विकथा दर्शिता इति जिज्ञासुभिस्ततोऽधिकमवसेयम् । ___ सप्तमस्थानाङ्गे तु → विकहा सत्तहा पन्नत्ता, तंजहा (१) इत्थिकहा, (२) भत्तकहा, (३) देसकहा, (४) रायकहा, (५) मिउकालुणिया, (६) दंसणभेइणी (७) चरित्तभेइणी - (स्था.अ.७/५६९)
જ્યારે ભોજન-સ્ત્રી-દેશ અને રાજા સંબંધી વાત તો વિકથા જ છે. કારણ કે તેમાં કથાનું કોઈ લક્ષણ જ નથી રહેતું. પ્રસ્તુતમાં શ્રીદશવૈકાલિકનિયુક્તિનો સંવાદ બતાવતા ગ્રંથકારશ્રી જણાવે છે કે → स्त्रीया, मो४४था (=भतथ), २४४था, यो२.४था, देश था, नटथा, नत था, ४८१.७॥ = ३२31 3५२ नायनारनी था, म था - २ मधी विस्था पने छे.' (/२०) १. मुद्रितप्रतौ 'रागता....' इत्यशुद्धः पाठः । २. 'मुट्टिया...' इति हस्तादर्श पाठः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org