________________
मिश्रकथादिविचारः
द्वात्रिंशिका - ९/२०
६६२ कथ्यते यत्र 'सूत्रकाव्येषु' = सूत्रेषु काव्येषु च तल्लक्षणवत्सु, क्वेत्यत आह- लोके रामायणादिषु वेदे यज्ञक्रियादिषु, समये तरङ्गवत्यादिषु सा पुनः कथा 'मिश्रा' मिश्रानाम, सङ्कीर्णपुरुषार्थाभिधानात् ← (द.वै.नि.३/२०६ वृत्ति) इति । इयं सङ्कीर्णकथेत्युच्यते, यथोक्तं बृहत्कल्पभाष्यवृत्ती श्रीक्षेमकीर्त्तिसूरिभिः → धर्म-कामार्थलक्षणपुरुषार्थत्रयवक्तव्यताप्रभवाः सङ्कीर्णकथाः ← (बृ.क. भा. २५६४ वृत्ति) इति । प्रकीर्णकथेत्यप्यस्यैव नामान्तरम् । तदुक्तं श्रीहरिभद्रसूरिभिरपि समरादित्यकथायाम् → जा उण तिवग्गोवायाणसंबद्धा, कव्वकहा- गन्थत्थवित्थरविरइया, लोइय-वेय- समयपसिद्धा, उयाहरण-हेउ-कारणोववेया सा संकिण्णकह त्ति वुच्चइ ← (सम. भ. १ / पृ. ४) इति । उपमितिभवप्रपञ्चायामपि कथायां → त्रिवर्गसाधनोपायप्रतिपादनतत्परा । याऽनेकरससारार्था सा सङ्कीर्णकथोच्यते ।।
चित्राभिप्रायहेतुत्वादनेकफलदायिका । विदग्धताविधाने च सा हेतुरिव वर्तते ।।
← (उपमि. १/३२-३३) इत्येवं सङ्कीर्णापराभिधानमिश्रकथालक्षणमावेदितम् । अत्रापि फलप्रयोजनोप्तसहकारवृक्षलब्धछाया - गन्धन्यायेन मोक्षोद्देशकृतधर्मलभ्यत्वमर्थ- कामयोः दर्शयितुमर्हति । प्रकृते → आम्रे फलार्थे निर्मिते छाया गन्ध इत्यनुत्पद्येते एवं धर्मं चर्यमाणमर्था अनूत्पद्यन्ते ← ( आ.स्त.ध.१/ ७/२०/३) इति आपस्तम्ब धर्मसूत्रवचनमपि स्मर्तव्यम् ।
उद्योतनसूरि-रत्नप्रभसूरिमतानुसारेण तु सकल-खण्डोल्लाप-परिहास-वराख्यपञ्चविधकथालक्षणधरा सङ्कीर्णकथा धर्मार्थ-कामभेदेन त्रिविधा भवति । यथोक्तं उद्योतनसूरिभिः कुवलयमालायां → पंच कहाओ तं जहा - ( १ ) सयलकहा, (२) खंडकहा, (३) उल्लावकहा, (४) परिहासकहा तहा ( ५ ) वरा कहिय त्ति । एयाओ सव्वाओ वि एत्थ पसिद्धाओ सुंदरकहाओ । एयाण लक्खणधरा संकिण्णकहा त्तिणायव्वा ← (कु.मा. पृ. ४) इति । रत्नप्रभसूरिभिः अपि तदनुसारेण कुवलयमालायां सा च ( कथा ) पञ्चधा सकल-खण्डोल्लाप-परिहासवराऽऽख्याभिः कथाभिः । एताः कथाः सर्वा अपि प्रसिद्धाः । एतासां लक्षणधरा सङ्कीर्णकथा ज्ञातव्या । अथ सङ्कीर्णकथोच्यते । सापि त्रिविधा धर्मार्थकामकथाभिः ← ( कु.मा.वृ. २) इत्युक्तम् ।
•
•
अग्निपुराणगते काव्यालङ्कारे
आख्यायिका कथा खण्डकथा परिकथा तथा । कथानिकेत मन्यन्ते गद्यकाव्यं च पञ्चधा ।। ← (का. अ.१/११) इत्येवं पञ्चधा गद्यकाव्यविभागो दर्शितः । तत्र खण्डकथालक्षणं तु भवेत् खण्डकथा या सा न निबन्धचतुष्पदी ← (का. अ. १ ।१८) इत्येवं काव्यालङ्कारे दर्शितमिह कुवलयमालासंवादेऽनुयोज्यम् ।
Jain Education International
काव्यानुशासने श्रीहेमचन्द्रसूरिभिः कथाया आख्यान- निदर्शन-प्रवलिका-मन्थल्लिका-मणिकुल्या-परिकथा-खण्डकथा-सकलकथोपलकथा - बृहत्कथारूपेण प्रकारा दर्शिताः । तत्र मध्यादुपान्ततो वा ग्रन्थान्तरप्रसिद्धमितिवृत्तं यस्यां वर्ण्यते सा इन्दुमत्यादिवत् खण्डकथा । समस्तफलान्तेतिवृत्तवर्णना समरादित्यादिवत् सकलकथा ← ( काव्या. वृ. ८/८/पृ. ४६५ ) इत्येवं काव्यानुशासनवृत्तौ प्रक्रान्तकथाद्वयलक्षणनिर्देशो वर्तते । उल्लाप - परिहासादिलक्षणन्तु ग्रन्थान्तरादवसेयम् ।
यद्वोत्सर्गापवादादिपरिभाषापुरस्कारेण प्रकीर्णकथा = उत्सर्गः, निश्चयकथा
For Private & Personal Use Only
= अपवादः । यद्वा नैगम
www.jainelibrary.org