________________
• निर्वेजनीनिरूपणम् •
६५५ इत्यादिलक्षणा । चरणसम्पच्च सकलफलसिद्धिरूपा। एते गुणाः सम्पदश्च । शुभोदयस्याऽशुभध्वंसस्य च फलं (-शुभाशुभोदयध्वंसफलं) अस्याः = संवेजन्या रसः स्मृतः ।।१४।। चतुर्भंगी समाश्रित्य प्रेत्येहफलसंश्रयाम् । पापकर्मविपाकं या ब्रूते निर्वेजनी तु सा ।।१५।।
चतुर्भङ्गीमिति । या कथा पापकर्मविपाकं प्रेत्येहफलसंश्रयां = इहलोक-परलोकभोगाऽऽश्रितां चतुर्भङ्गीं समाश्रित्य ब्रूते सा तु निर्वेजनी चतुर्भिरेव भङ्गः प्रतिपाद्यमानैश्चतुर्विधेति भावः ।
चरणसम्पच्च सकलफलसिद्धिरूपा, नास्त्यसाध्यं नाम चरणस्य, तद्वन्तो हि देवैरपि पूज्यन्त इति । कर्मक्षपणसाधाद्दर्शनर्द्धिरपि प्रशमादिरूपाऽत्राऽवगन्तव्या । तदुक्तं आराधनापताकायां → सम्मट्ठिी जीवो गच्छइ नियमा विमाणवासीसु । जइ ण विगयसम्मत्तो अहव ण बद्धाउओ पुट्विं ।। 6 (आ.प. ५७९) इति । तदुक्तं दशवैकालिकनियुक्ती → वीरियविउव्वणिड्ढी नाणचरणदंसणाण तह इड्ढी । उवइस्सइ खलु जहियं कहाइ संवेयणीइ रसो ।। - (द.नि.२००) इति ।।९/१४ ।।
___ उक्ता सप्रपञ्चं संवेजनी धर्मकथा । साम्प्रतमवसरप्राप्तां निर्वेजनी धर्मकथामाह- 'चतुर्भङ्गीमिति । तदुक्तं दशवैकालिकनियुक्तौ अपि → पावाणं कम्माणं असुभविवागो कहिज्जए जत्थ । इह य परत्थ य लोए कहा उ णिव्वेयणी नाम । (द.नि.२०१) 6 इति । तदुक्तं स्थानाङ्गसूत्रे → णिव्वेगणी कहा चउब्विहा पन्नत्ता- तं जहा (१) इहलोगे दुच्चिन्ना कम्मा इहलोगे दुहफलविवागसंजुत्ता भवंति, (२) इहलोगे दुच्चिन्ना कम्मा परलोगे दुहफलविवागसंजुत्ता भवंति, (३) परलोगे दुच्चिन्ना कम्मा इहलोगे दुहफलविवागसंजुत्ता भवंति, (४) परलोगे दुच्चिन्ना कम्मा परलोगे दुहफलविवागसंजुत्ता भवंति - (स्था.४/२/२८२) इति । अभयदेवसूरिकृता तद्व्याख्या चैवम् → इह लोके दुश्चीर्णानि = चौर्यादीनि कर्माणि = क्रिया इहलोके दुःखमेव कर्मद्रुमजन्यत्वात् फलं = दुःखफलं तस्य विपाकः = अनुभवो दुःखफलविपाकस्तेन संयुक्तानि = दुःखफलविपाकसंयुक्तानि भवन्ति चौरादीनामिवेत्येका । एवं नारकाणामिवेति द्वितीया । आगर्भात् व्याधि-दारिद्र्याभिभूतानामिवेति तृतीया । प्राक्कृताशुभकर्मोत्पन्नानां नरकप्रायोग्यं बनतां काक-गृध्रादीनामिव चतुर्थीति, ‘इहलोए सुचिन्ने'त्यादि चतुर्भङ्गी तीर्थड्करदानदातृ'सुજ્ઞાની શ્વાસમાત્રમાં ખપાવે.' તેવી અભ્યતર તપની મૂડી જાણવી.
(૪) સઘળા ફળની સિદ્ધિ કરનારી ચારિત્રસંપત્તિ હોય છે. વૈક્રિય લબ્ધિ વગેરે ગુણો અને જ્ઞાનાદિ १९ २नी संपत्ति, ७५२iतमi (५) पुथ्योध्यनु, ३५ अने (६) पापक्षय३१. (८/१४)
निरनी ऽथा नि३५ - હવે નિર્વેજની કથાને બતાવતા ગ્રંથકારશ્રી જણાવે છે કે –
ગાથાર્થ :- જે પાપકર્મવિપાકને કહે તે નિર્વેજની કથા કહેવાય છે. આ લોક અને પરલોકના ફલ ઉપર આધારિત ચતુર્ભાગીને આશ્રયીને આના ચાર ભેદ છે. (૯/૧૫)
ટીકાર્ય - આ લોક અને પરલોકમાં થતા ભોગવટા ઉપર આધારિત ચતુર્ભગીને આશ્રયીને જે કથા પાપકર્મના ફળને જણાવે તે કથા નિર્વેજની કથા કહેવાય છે. તે નિર્વેજની કથા ચાર ભાંગા = પ્રકાર દ્વારા બતાવાય છે. તેથી તે ચાર પ્રકારવાળી છે - એવો અહીં આશય છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org