________________
६५४
• उपधेयसाकर्येऽपि उपाध्यसाङ्कर्यम् • द्वात्रिंशिका-९/१४ वैक्रियादयो ज्ञानतपश्चरणसम्पदः । शुभाऽशुभोदयध्वंसफलमस्या रसः स्मृतः ।।१४।।
वैक्रियेति । वैक्रियादयो गुणा इति गम्यं । तत्र वैक्रियर्द्धिक्रियनिर्माणलक्षणा । आदिना जङ्घाचारणादिलब्धिग्रहः । तथा ज्ञानतपश्चरणसम्पदः तत्र ज्ञानसम्पच्चतुर्दशपूर्विण एकस्माद् घटादेः घटादिसहस्रनिर्माणलक्षणा । तपःसम्पच्च “जं अन्नाणी कम्मं खवेइ” (बृ.क.भा.११७०) तत् स्वसमयस्थं श्रोतारमाश्रित्यावगन्तव्यम् । इह तु श्रोतृसामान्यमाश्रित्य धर्मकथाचातुर्विध्यमुच्यत इति न दोप इति भावनीयम् । एतेन → दया-दान-क्षमाद्येषु धर्माङ्गेषु प्रतिष्ठिता । धर्मोपादेयतागर्भा वुधैर्धर्मकथोच्यते ।। (उप.भ.प्र.१/३४) इति उपमितिभवप्रपञ्चायाः कथाया वचनमपि व्याख्यातम् । एतादृशी हि कथा श्रोतृणां भावरोगोन्मूलने सदौषधसमा समाम्नाता । एतेन → वाचा सरस्वती भिषग् + (य.वे. १९/१२) इति यजुर्वेदवचनमपि व्याख्यातम् ।।९/१३।।
साम्प्रतं शुभकर्मोदयाऽशुभकर्मक्षयफलकथनतः संवेजनीमकरन्दमावेदयति 'वैक्रियेति ।
वैक्रियादयो गुणाः तपःसामोद्भवा इति गम्यम् । जङ्घाचारणादिलब्धिग्रहः, आदिना आमीषध्यादिग्रहः । तदुक्तं आवश्यकनियुक्ती → आमोसहि-विप्पोसहि-खेलोसहि-जल्लमोसहि चेव । संभिन्नसोय-उज्जुमइ सव्वोसहि चेव बोद्धव्वा ।। चारण-आसीविस-केवली य मणणाणिणो य पुव्वधरा । अरहंत-चक्कवट्टी बलदेवा वासुदेवा य ।। ____ (आ.नि.६९/७०) इति । ज्ञानसम्पच्चतुर्दशपूर्विण एकस्माद् घटादेः घटादिसहस्रनिर्माणलक्षणा, तदुक्तं व्याख्याप्रज्ञप्तौ → पभू णं भंते ! चोद्दसपुची घडाओ घडसहस्सं पडाओ पडसहस्सं विउव्वित्तए? हंता पहू विउव्वित्तए - (व्या.प्र.५/४/२४०) इति । तपःसम्पच्च 'जं अन्नाणी' इति । सम्पूर्णा गाथा पञ्चकल्पभाष्ये महाप्रत्याख्यानप्रकीर्णके संस्तारकप्रकीर्णके बृहत्कल्पभाष्ये मरणविभक्तिप्रकीर्णके पञ्चवस्तुके सम्बोधसप्ततिकायां चैवम् → जं अन्नाणी कम्मं खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेइ ऊसासमित्तेण ।। - (पं.क.भा.१२१३,म.प्र.१०१,संस्ता.प्र.११४,बृ.क.भा.११७०, मरणवि.१३५, पं.व.५६४,सं.सप्त.१००) इति। न च 'जं अन्नाणी' इत्यत्र ज्ञानसम्पदेवोच्यते इति नेयं घटसहस्रनिर्माणसामर्थ्यस्वरूपायाः पूर्वोक्तज्ञानसम्पदोऽतिरिच्यत इति शङ्कनीयम्, प्रकृतेऽभ्यन्तरतपस्त्वेन विवक्षणात् निर्जराकारकत्वस्यैव च तपःपदप्रवृत्तिनिमित्तत्वात्, उपधेयसाङ्कर्येऽप्युपाध्यसाङ्कर्याच्चेत्यवधेयम् ।
હ સંવેજનીક્યા મક્રન્દ સહ સંવેજની કથાનો રસ દર્શાવતા ગ્રંથકારશ્રી કહે છે કે -
ગાથાર્થ :- વૈક્રિય ઋદ્ધિ વગેરે ગુણો, જ્ઞાન-તપ-ચારિત્રની સંપત્તિ, શુભોદયનું ફળ અને અશુભના ધ્વસનું ફળ- આ બધું સંવેજની કથાનો રસ કહેવાયેલ છે. (૯/૧૪)
ટીકાર્થ :- સંવેજની ધર્મકથાનો આ રસ કહેવાયેલ છે.- (૧) વૈક્રિયઋદ્ધિ વગેરે ગુણો. વૈક્રિય શરીરનું નિર્માણ કરવાની શક્તિ તે વૈક્રિય ઋદ્ધિ જાણવી. આદિ શબ્દથી જંધાચારણ વગેરે લબ્ધિ પણ સમજી લેવી. તથા (૨) જ્ઞાન સંપત્તિ. જેમ કે ચૌદ પૂર્વધર એક ઘડામાંથી હજારો ઘડા બનાવી શકે તેવી તેમની જ્ઞાનસંપત્તિ હોય છે. (૩) તપસંપત્તિ. “અજ્ઞાની કરોડો વર્ષમાં જે કર્મ ખપાવે તે કર્મ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org