________________
६४४
• विक्षेपणीचातुर्विध्यम्
द्वात्रिंशिका-९ / ९
तयोः
स्वपरश्रुत' मिथ्यान्यवादोक्त्या सङ्क्रमोत्क्रमम् । विक्षेपणी चतुर्धा स्यादृजोर्मार्गाऽऽभिमुख्यहृत् ।। ९ ।। स्वेति । स्वपरश्रुते स्वसमय-परसमयौ, मिथ्यान्यवाद मिथ्यावाद-सम्यग्वादौ, उक्त्या = प्रतिपादनेन (=स्वपरश्रुत-मिथ्याऽन्यवादोक्त्या) । सङ्क्रमोत्क्रमं पूर्वानुपूर्वी-पश्चानुपूर्वीसहितं यथा स्यात्तथा । चतुर्धा विक्षेपणी स्यात् । तथा च सम्प्रदाय :- “ विक्खेवणी सा चउव्विहा
=
•
यत्तु अग्निपुराणगते काव्यालङ्कारशास्त्रे
अक्षरं परमं ब्रह्म सनातनमजं विभुम् । वेदान्तेषु वदन्त्येकं चैतन्यज्योतिरीश्वरम् ।। आनन्दः सहजस्तस्य, व्यज्यते स कदाचन । व्यक्तिः सा तस्य चैतन्य - चमत्कार - रसाह्वयः ।।
=
=
← (का. अ. ४/१-२ ) इत्येवं रसलक्षणमुक्तं तत् सर्वनयात्मके जिनप्रवचने नयविशेषाभिप्रायेण नयविशारदैरनुयोज्यम् । अत्यन्तापकारिभावतमोभेदकमिति । यथोक्तं अज्ञानं खलु कष्टं, क्रोधादिभ्योऽपि सर्वपापेभ्यः ← ( आचारांगवृत्ती - २२२ उद्धृतः ) इति । चारित्रं देश - सर्वभेदेन द्विविधम् । तदुक्तं ओघनियुक्तिभाष्ये चरणपडिवत्तिहेउं धम्मकहा ← (ओ.नि.भा. ७) इति । शिष्टं तु दशवैकालिकनिर्युक्तिवृत्तिप्रदर्शनावसरे भावितमेव ।।९/८ ।।
उक्ताक्षेपणी कथा । साम्प्रतं विक्षेपणीमाह - 'स्वे 'ति । तदुक्तं दशवेकालिकनिर्युक्तौ कहिऊण ससमयं तो कहेइ परसमयमह विवच्चासा | मिच्छा -सम्मावाए एमेव हवंति दो भेया ।। ← (दश.नि. ३/१९६) । श्रीहरिभद्रसूरिकृता तद्वृत्तिस्त्वेवम् → कथयित्वा स्वसमयं स्वसिद्धान्तं ततः कथयति परसमयं परसिद्धान्तमित्येको भेदः । अथवा विपर्यासाद् व्यत्ययेन कथयति - परसमयं कथयित्वा स्वसमयमिति द्वितीयः । मिथ्या - सम्यग्वादयोरेवमेव भवतो द्वौ भेदाविति, मिथ्यावादं कथयित्वा सम्यग्वादं कथयति सम्यग्वादं च कथयित्वा मिथ्यावादमिति । एवं विक्षिप्यतेऽनया सन्मार्गात् कुमार्गे कुमार्गाद्वा सन्मार्गे श्रोतेति विक्षेपणी ← (द.वै.नि.३/१९६ वृत्ति ) इति ।
षट्खण्डागमस्य धवलायां वृत्तौ तु विक्खेवणी णाम परसमएण ससमयं दूती पच्छा दिगंतरसुद्धिं करेंती ससमयं थावंती छद्दव्व णवपयत्थे परूवेदि ← ( ष. खं. धव. १ १ २ / पृ. १०५ ) इत्येवं वीरसेनसूरिः आचष्टे । गोम्मटसारस्य जीवतत्त्वप्रदीपिकावृत्तौ तु प्रमाण-नयात्मकयुक्तिहेतुत्वादिबलेन सर्वथैकान्तादिपरसमयार्थनिराकरणरूपा विक्षेपणी कथा ← ( गो .सा. जी. त. ३५७ ) इत्येवं तल्लक्षणमुक्तम्। ग्रन्थकृत् प्रकृते दशवेकालिकवृद्धविवरणसंवादमाह 'विक्खेवणी सा' इत्यादि । अक्षरघटना त्वेवम् વિક્ષેપણી ક્યા
ધર્મકથાનો બીજો પ્રકાર વિક્ષેપણી કથા છે. તેના ચાર ભેદ બતાવતા ગ્રંથકારશ્રી કહે છે કે - ગાથાર્થ :- સ્વસમય-પરસમય તથા મિથ્યાવાદ અને સમ્યવાદને સંક્રમ-ઉત્ક્રમપૂર્વક કહેવાથી વિક્ષેપણીકથા ચાર પ્રકારની થાય છે. આ કથા મુગ્ધ જીવની માર્ગની રુચિને હરનારી છે. (ele)
ટીકાર્થ :- પૂર્વાનુપૂર્વી અને પશ્ચાનુપૂર્વીપૂર્વક જે રીતે કહી શકાય તે રીતે સ્વશાસ્ત્ર અને પરશાસ્ત્ર તથા સમ્યવાદ અને મિથ્યાવાદ કહેવાથી વિક્ષેપણી ધર્મકથા ચાર પ્રકારની થાય છે.
જૈનસંપ્રદાયમાં પ્રસ્તુત વાત આ મુજબ જણાવેલ છે કે → વિક્ષેપણી ધર્મકથા ચાર પ્રકારની કહેવાયેલ १. 'श्रुति' इति हस्तादर्शे पाठः । २ हस्तादर्शे 'पन्नत्ता, तं जहा' इति पाठो लुप्तः ।
Jain Education International
For Private & Personal Use Only
=
=
www.jainelibrary.org