________________
६४२
आक्षेपणीफलप्रकाशनम्
द्वात्रिंशिका - ९/७
परे आचार्या आचारादीन् ग्रन्थान् जगुः तैराचाराद्यभिधानादिति भावः ॥ ६ ॥ एतैः प्रज्ञापितः श्रोता चित्रस्थ इव जायते । दिव्यास्त्रवन्न हि क्वापि मोघाः स्युः सुधियां गिरः ॥ ७ ॥
•
•
परे आचारादीन् ग्रन्थान् कथ्यमानानेव आचाराद्याक्षेपणीधर्मकथात्वेन जगुः तैः = आचाराङ्गादिभिः ग्रन्थैः आचाराद्यभिधानात् । अयमत्र परेषामाचार्याणामाशयः आचाराङ्गकथनेनाचारो ह्यभिधीयत इति आचाराङ्गमेवाचाराभिधानाक्षेपणी धर्मकथोच्यते, देशे समुदायोपचारन्यायात् । व्यवहारसूत्रव्याख्यानेन प्रायश्चित्तलक्षणो व्यवहारः प्रोच्यत इति व्यवहारसूत्रमेव व्याख्यायमानं पदैकदेशे पदोपचारन्यायात् व्यवहाराख्याक्षेपणी धर्मकथेति निगद्यते । व्याख्याप्रज्ञप्तिप्रज्ञापनेन श्रोतृप्रज्ञापनलक्षणा प्रज्ञप्तिरभिव्यज्यत इति व्याख्याप्रज्ञप्तिसूत्रमेव प्रज्ञाप्यमानं 'भीमो भीमसेन' न्यायेन प्रज्ञप्त्यभिधानाऽऽक्षेपणी धर्मकथेि व्यवह्रियते । दृष्टिवादानुयोगेन श्रोतॄणां स्थूल सूक्ष्मनानादृष्टयो दर्श्यन्त इति दृष्टिवाद एव व्यावर्ण्यमानो दृष्टिवादाभिधानाऽऽक्षेपणी धर्मकथा कथ्यत इति ।
तदुक्तं दशवैकालिकनिर्युक्तावपि आयारे ववहारे पन्नत्ती चेव दिट्ठीवाए य । एसा चउव्विहा खलु कहा उ अक्खेवणी होइ ।। ← (दश.नि.३ / १९४ ) इति । तद्वृत्तिस्त्वेवम् → आचारो = लोचाऽस्नानादिः, व्यवहारः - कथञ्चिदापन्नदोषव्यपोहाय प्रायश्चित्तलक्षणः, प्रज्ञप्तिश्चैव संशयापन्नस्य मधुरवचनैः प्रज्ञापना, दृष्टिवादश्च श्रोत्रपेक्षया सूक्ष्मजीवादिभावकथनम् । अन्ये त्वभिदधति आचारादयो ग्रन्था एव परिगृह्यन्ते, आचाराद्यभिधानादिति । एपा - अनन्तरोदिता चतुर्विधा खलुशब्दो विशेषणार्थः श्रोत्रपेक्षयाऽऽचारादिभेदानाश्रित्यानेकप्रकारेति कथा त्वाक्षेपणी भवति, तुरेवकारार्थः, कथैव प्रज्ञापकेनोच्यमाना नान्येन, आक्षिप्यन्ते मोहात्तत्त्वं प्रत्यनया भव्यप्राणिन इत्याक्षेपणी भवतीति गाथार्थः ← ( द.वै.नि. ३ / १९४ वृत्ति) इति ।
धर्मविन्दुवृत्तावपि (१) आचारः लोचाऽस्नानादिसाधुक्रियारूपः, (२) व्यवहारः कथञ्चिदापन्नदोपव्यपोहाय प्रायश्चित्तलक्षणः, (३) प्रज्ञप्तिः = संशयापन्नस्य मधुरवचनैः प्रज्ञापनम्, (४) दृष्टिवादश्च श्रोत्रपेक्षया सूक्ष्मजीवादिभावकथनम् ← (ध. बि. २/१० वृ.) इत्युक्तम् । स्थानाङ्गवृत्तिकारस्याप्ययमेवाभिप्रायः । सम्यग्दृष्टेः चतुर्थी एवाऽऽक्षेपणी युक्ता, अन्यथा तदाक्षेपणाऽसम्भवात् । तदुक्तं हरिभद्रसूरिभिः ब्रह्मसिद्धान्तसमुच्चये देशना पुनरस्यैवं गम्भीरार्थोचिता परा । प्रायेण सूक्ष्मबुद्धित्वान्नान्यथाऽऽक्षिप्यते ह्ययम् ।। ← ( ब्र.सि. १४२ ) इति । 'अस्य = सम्यग्दृष्टेः' शिष्टं भावितमेव ।।९/६ ।। आक्षेपणीकथोपदेशफलमाह - 'एतै 'रिति स्पष्टैव कारिका । नवरं तादृशधर्मकथाऽधिकार-सामर्थ्या
અન્ય આચાર્ય ભગવંતો એમ કહે છે કે (૧) આચારાંગ ગ્રન્થના પદાર્થો સમજાવવા તે આચાર આક્ષેપણી ધર્મકથા. (૨) વ્યવહારસૂત્રના પદાર્થો સમજાવવા તે વ્યવહાર આક્ષેપણી ધર્મકથા. (૩) વ્યાખ્યાપ્રજ્ઞપ્તિ (=ભગવતી) સૂત્રના પદાર્થો કહેવા તે પ્રજ્ઞપ્તિ આક્ષેપણી ધર્મકથા. તથા (૪) દૃષ્ટિવાદના પદાર્થો સમજાવવા તે ષ્ટિવાદ આક્ષેપણી ધર્મકથા કહેવાય. તેઓનો અભિપ્રાય એ છે કે તે તે આચારાંગ વગેરે ગ્રંથો દ્વારા આચાર વગેરેનું પ્રતિપાદન થવાથી તે તે આક્ષેપણી ધર્મકથાઓ પણ આચાર આક્ષેપણી, વ્યવહા૨ આક્ષેપણી ઈત્યાદિ રૂપે કહેવાય છે. (૯/૬)
ગાથાર્થ :- આ ચાર પ્રકારની આક્ષેપણી ધર્મકથા દ્વારા પ્રતિબોધ પામેલ શ્રોતા જાણે ચિત્રમાં દોરેલ ના હોય ! એમ સ્તબ્ધ-સ્થિર-શાંત-આશ્ચર્યચકિત થઈ જાય છે. ખરેખર જેમ દિવ્ય શસ્ત્ર નિષ્ફળ જતું
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org