________________
६४०
आचारादिकथाव्याख्याद्वैविध्यम्
द्वात्रिंशिका - ९/५
आचाराद् व्यवहाराच्च प्रज्ञप्तेर्दृष्टिवादतः । आद्या चतुर्विधा श्रोतुश्चित्ताऽऽक्षेपस्य कारणम् ।।५।। आचारादिति । आचारं व्यवहारं प्रज्ञप्तिं दृष्टिवादं चाश्रित्य आद्या = आक्षेपणी चतुविधा | श्रोतुः चित्ताऽऽक्षेपस्य तत्त्वप्रतिपत्त्याऽऽभिमुख्यलक्षणस्य अपूर्वशमरसवर्णिकास्वादलक्षणस्य → आक्षेपणीं तत्त्वविधानभूतां, विक्षेपणीं तत्त्वदिगन्तशुद्धिम् । संवेगिनीं धर्मफलप्रपञ्चां निर्वेगिनीं चाह कथां विरागाम् । ← ( ) इत्युक्तम् ।
स्थानाङ्गसूत्रेऽपि → चउव्विहा धम्मकहा पन्नत्ता, तं जहा अक्खेवणी, विक्खेवणी, संवेयणी, निव्वेगणी ← (स्था.४/२/२८२ ) इत्युक्तम् । तद्वृत्तौ → आक्षिप्यते = मोहात्तत्त्वं प्रत्याकृष्यते श्रोताऽनयेत्याक्षेपणी । तथा विक्षिप्यते सन्मार्गात् कुमार्गे कुमार्गाद्वा सन्मार्गे श्रोताऽनयेति विक्षेपणी । संवेगयति संवेगं करोतीति, संवेद्यते वा सम्बोध्यते संवेज्यते वा संवेगं ग्राह्यते श्रोताऽनयेति संवेदनी संवेजनी वेति । निर्विद्यते = संसारादेः निर्विण्णः क्रियतेऽनयेति निर्वेदनी ← ( स्था. ४/२/२८२ वृत्ति) इत्युक्तम् ।
उद्योतनसूरिभिः कुवलयमालायां सा उण धम्मकहा णाणाविहजीवपरिणामभावविभावणत्थं सव्योवायणिउणेहिं जिणवरिंदेहिं चउव्विहा भणिया । तं जहा- अक्खेवणी, विक्खेवणी, संवेगजणणी, णिव्वेयजणणित्ति । तत्थ (१) अक्खेवणी मणोणुकूला, (२) विक्खेवणी मणोपडिकूला, (३) संवेगजणणी णाणुप्पत्तिकारणं, (४) णिव्वेयजणणी उण वेरग्गुप्पत्ती । भणियं च सुहम्मसामिणा-अक्खेवणिअक्खित्ता पुरिसा विक्खेवणी विक्खित्ता । संवेयणी संविग्गा णिव्विण्णा तह चउत्थीए ।। ← ( कु. मा. पृ. ४) इत्येवं तत्स्वरूपमावेदितम् । तत्त्वार्थवृत्तौ सिद्धसेनगणिभिः यस्य कर्मण उदयात् तीर्थं दर्शन - ज्ञान- चरणलक्षणं प्रवर्तयति यतिगृहस्थधर्मं च कथयति आक्षेप सङ्क्षेप-संवेग - निर्वेदद्वारेण भव्यजनसंसिद्धये सुरासुरमनुजपतिपूजितश्च भवति तत् तीर्थकरनाम ← (त.सू. ८/१२ वृत्ति) इति यदुक्तं तदप्यत्रानुसन्धेयम् ।।९ / ४ ।।
आक्षेपण्या भेदानाह 'आचारादिति । तदुक्तं स्थानाङ्गसूत्रेऽपि अक्खेवणी कहा चउव्विहा पन्नत्ता, तंजहा (१) आचार अक्खेवणी, (२) ववहार अक्खेवणी, (३) पन्नत्तिअक्खेवणी, (४) दिट्ठिवातअक्खेवणी ← (स्था.४/२/२८२ ) इति । एतासामाक्षेपणीत्वमाविर्भावयति- श्रोतुः चित्ताक्षेपस्य तत्त्वप्रतिपत्त्याभिमुख्यलक्षणस्य कारणमिति । (द.वै.नि.३ / १९५) दशवैकालिकनिर्युक्तिकृन्मतमनुसृत्याह- अपूर्वशमरसवर्णिकाऽऽस्वादलक्षणस्य वेति ।
•
ધર્મકથાના પ્રથમ ભેદને બતાવતા ગ્રંથકારશ્રી કહે છે કે
,
•
ૢ આક્ષેપણી ધર્મક્થાના ચાર ભેદ શ્ન
ગાથાર્થ :- આચારથી, વ્યવહારથી, પ્રજ્ઞપ્તિથી અને દૃષ્ટિવાદથી પ્રથમ આક્ષેપણી ધર્મકથાના ચાર પ્રકાર છે. કારણ કે તે ચારેય કથા શ્રોતાના ચિત્તના આક્ષેપનું = આકર્ષણનું કારણ છે. (૯/૫) टीडार्थ :- (१) खायार, (२) व्यवहार, (3) प्रज्ञप्ति जने (४) दृष्टिवाह - आ यारने साश्रधीने પ્રથમ આક્ષેપણી ધર્મકથાના ચાર પ્રકાર છે. કારણ કે તે ચારેય કથા શ્રોતાના ચિત્તને તત્ત્વસ્વીકારની અભિમુખ કરવાનું કારણ છે. અથવા પ્રસ્તુત ધર્મકથા શ્રોતાના મનને અપૂર્વ ઉપશમરસની મીઠાઈનો
१. मुद्रितप्रतौ 'मुखल... इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
=
www.jainelibrary.org