________________
• आक्षेपण्यादिलक्षणोपदर्शनम् •
६३९ तृतीयेति । तृतीया धर्मकथा च एका आक्षेपणी, तथा परा विक्षेपणी, अन्या संवेजनी, च = पुनः निर्वेजनी इति चतुर्विधा ।।४।।
उक्ता कामकथा । अधुनावसरायातां धर्मकथामाह 'तृतीये'ति । तदुक्तं दशवैकालिकनियुक्ती → धम्मकहा बोद्धव्वा चउव्विहा धीरपुरिसपन्नत्ता । अक्खेवणि विक्खेवणि संवेगे चेव निव्वेए ।।
(दश. नि.३/१९३) इति । यथोक्तं अन्यत्रापि → अक्खेवणी य विक्खेवणी य संवेयणी य तह चेव । निव्वेयणी य एसा चउब्बिहा देसणा होइ ।। ( ) इति । प्रशमरतौ च → आक्षेपणीं विक्षेपणी विमार्गबाधनसमर्थविन्यासाम् । श्रोतृजनश्रोत्रमनःप्रसादजननीं यथा जननीम् ।। संवेदनीं च निर्वेदनीञ्च श्राव्यां कथां सदा कुर्यात् ।।
6 (प्रशम.१८२,१८३) इत्युक्तम् । तदवचूरिकारः → आक्षिप्यन्ते = धर्मं प्रत्यभिमुखाः प्राणिनो यया सा आक्षेपणी। विक्षिप्यन्ते परापरदेवादिदोषकथनेन प्रेर्यन्ते प्राणिनो यत्र सा विक्षेपणी । सम्यग् विवेच्यते = नरकादिदुःखेभ्यो भयं ग्राह्यते यया सा संवेजनी । निर्वे कामभोगेभ्यो यया सा निर्वेजनी - (प्रशम.१८२ अव.) इत्याह । तट्टीकाकारः श्रीहरिभद्रसूरिस्तु → आक्षिपति = आवर्जयति = अभिमुखीकरोति या सा आक्षेपणी कथा शृङ्गारादिप्राया । विक्षिपति भोगाभिलाषाद् या कामभोगेषु वैमुख्यमापादयति सा विक्षेपणी 6 इत्याह (प्र.रति.१८२ वृत्ति) । अन्यत्र च → स्थाप्यते हेतु-दृष्टान्तैः स्वमतं यत्र पण्डितैः । स्याद्वादध्वनिसंयुक्ता सा कथाऽऽक्षेपणी मता ।। मिथ्यादृशां मतं यत्र पूर्वापरविरोधकृत् । तन्निराक्रियते सद्भिस्सा च विक्षेपणी मता ।। यस्याः श्रवणमात्रेण भवेन्मोक्षाभिलाषिता । भव्यानां सा च विद्वद्भिः प्रोक्ता संवेदनी कथा ।। यत्र संसार-भोगाङ्गस्थितिलक्षणवर्णनम् । वैराग्यकारणं भव्यैः सोक्ता निवेदनी कथा ।। __( ) इत्युक्तम् । धर्मबिन्दुवृत्तौ च → आक्षिप्यन्ते = आकृष्यन्ते मोहात्तत्त्वं प्रति भव्यप्राणिनोऽनयेत्याक्षेपणी - (ध.बि.२/१०) इत्युक्तम् । → अक्खेवणी कहा सा विज्जाचरणमुवदिस्सदे जत्थ - (भ.आ.६५६/पृ.८५३) इति तु भगवती आराधना | षट्खण्डागमधवलायां वीरसेनसूरिः तु → अक्खेवणी णाम छद्दव्व-णवपयत्थाणं सरूवं दिगंतरसमयांतरनिराकरणं सुद्धिं करेंती परूवेदि - (ष.खं.ध भाग-१/१/२-पृ.१०५) इत्याचष्टे । → प्रथमानुयोग-करणानुयोग-चरणानुयोग-द्रव्यानुयोग-रूपपरमागमपदार्थानां तीर्थकरादिवृत्तान्त-लोकसंस्थान-देशसकलयतिधर्म-पञ्चास्तिकायादीनां परमताऽऽशङ्कारहितं कथनमाक्षेपणी कथा (गो.सा.जीवकाण्डवृ.३५७) इति तु गोम्मटसारस्य जीवतत्त्वप्रदीपिकायां वृत्तौ केशववर्णी व्याचष्टे ।
मूलाराधनायां तु → आक्खेवणी कहा सा विज्जाचरणमुवदिस्सदे जत्थ । ससमय-परसमयगदा कथा दु विक्खेवणी णाम । संवेयणी पुण कहा णाणचरित्त-तव-वीरियइढिगदा । णिव्वेयणी पुण कहा सरीरभोगे भवोघे य → (मूला. ६५६) इत्येवं सङ्खपतः तन्निरूपणमवगन्तव्यम् । अन्यत्र च तथा (४) नि४नी = निर्वेनी. (/४)
ટીકાર્થ :- તૃતીય ધર્મકથાના ચાર ભેદ છે. પહેલો ભેદ આપણી ધર્મકથા તથા બીજો ભેદ વિક્ષેપણી ધર્મકથા. ત્રીજો ભેદ છે સંવેજની ધર્મકથા અને ચોથો ભેદ છે નિર્વેજની ધર્મકથા. (લ૪િ)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org