________________
कामकथावैविध्योपदर्शनम्
द्वात्रिंशिका - ९/४
तृतीयाऽऽक्षेपणी चैका तथा विक्षेपणी परा । अन्या संवेजनी निर्वेजनी चेति चतुर्विधा ।।४।। एवं दाक्षिण्यमपि “पञ्चालः स्त्रीषु मार्दवम् ” ( ) इति वचनात्, शिक्षा च कलासु कामाङ्गं वैदग्ध्यात् । उक्तं च “कलानां ग्रहणादेव, सौभाग्यमुपजायते । देश - कालौ त्वपेक्ष्याऽऽसां, प्रयोगः सम्भवेन्न वा ।। ( कामसूत्र - १/३/२५)” अन्ये त्वत्राचल - मूलदेवी देवदत्तां प्रतीत्येक्षुयाचनायां प्रभूतासंस्कृत-स्तोकसंस्कृतप्रदानद्वारेणोदाहरणमभिदधति । दृष्टमधिकृत्य कामकथा यथा नारदेन रुक्मिणीरूपं दृष्ट्वा वासुदेवे कृता। श्रुतं त्वधिकृत्य यथा पद्मनाभेन राज्ञा नारदाद् द्रौपदीरूपमाकर्ण्य पूर्वसंस्तुतदेवेभ्यः कथिता। अनुभूतं चाधिकृत्य कामकथा यथा-तरङ्गवत्या निजानुभवकथने । संस्तवश्च - कामकथापरिचयः ‘कारणानी'ति (का.सू.अधिकरण-५ / अध्याय-२ / सू.१७) कामसूत्रपाठात् । अन्ये त्वभिदधति- ' सइदंसणाउ पेम्मं पेमाउ रई रईय विस्संभो। विस्संभाओ पणओ पञ्चविहं वड्ढए पेम्मं ' ।। ( ) ← (द.वै.नि.३/२९२ वृत्ति) इति । उपलक्षणात् वपुः प्रतिपत्ति- दूतीव्यापारादिकमप्यत्रावगन्तव्यम् । तदुक्तं समरादित्यकथायां → जा उण कामोवायाणविसया, वित्त-वपु-व्यय-कला-दक्खिण्णपरिगया, अणुराय-थुलइ अपडिवत्ति जोअसारा, दूईवावार-रमिय-भावाणुवत्तणाइपयत्थसंगया सा कामकह त्ति भण्णइ ← (सम. भ. १- पृ. ३) इति । वात्स्यायनस्तु कामसूत्रे प्रमाण-काल- भावेभ्यो रताववस्थापनम् । प्रीतिविशेषाः । आलिङ्गनविचाराः । चुम्बनविकल्पाः। नखरदनजातयः । दशनच्छेद्यविधयः । देश्या उपचाराः । संवेशनप्रकाराः । चित्ररतानि । प्रहणनयोगाः। तद्युक्ताश्च सीत्कृतोपक्रमाः । पुरुषायितम् । पुरुषोपसृष्टानि । औपरिष्टिकम्। रतारम्भावसानिकम् । रतविशेषाः । प्रणयकलहः ← (का. सू. १/२५-४१ ) इत्येवं मुख्यं कामकथाविपयं दर्शितवान् । कामकथायाः स्वरूपं फलञ्चोपवर्णयद्भिः सिद्धर्षिगणिभिरपि
कामोपादानगर्भार्था वयोदाक्षिण्यसूचिका । अनुरागेङ्गिताद्युत्था कथा कामस्य वर्णिता ।। सा मलीमसकामेषु रागोत्कर्षविधायिका । विपर्यासकटी तेन हेतुभूतैव दुर्गतेः ।।
६३८
← (१/२८-२९) इत्येवं उपमितिभवप्रपञ्चायां कथायामावेदितम् । अन्यत्र च 'कामोपादानगर्भा च वयोदाक्षिण्यसूचिका । अनुरागेङ्गिताद्युत्था कथा कामस्य वर्णिता । । ' ( स्था.वृ. ३/३/१८९ उद्धृत) इत्येवं कामकथालक्षणमुक्तम् । विलास - बिब्बोक - ललितादीनामपि कामकथागोचरत्वमवसेयम् । तत्स्वरूपञ्च यथाक्रमं नाट्यशास्त्रे स्थानाऽऽसन - गमनानां हस्त-भ्रू- नेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात्।। दृष्टानामर्थानां प्राप्तावभिमानगर्वसम्भूतः । स्त्रीणामनादरकृतो बिब्बोको नाम विज्ञेयः । । हस्त-पादाङ्गविन्यासो भ्रू- नेत्रोष्ठप्रयोजितः । सुकुमारो विधानेन ललितं तत् प्रकीर्त्तितम् ।। ← (ना. शा.२२/१५,२१-२२) इत्येवमुपवर्णितम् । धीरे गति- दृष्टी सस्मितं वचः = विलासः । मृदुशृङ्गारचेष्टा काव्यानुशासने श्रीहेमचन्द्रसूरयः । एवमेव मैथुनफलमप्यपुरुषस्य मैथुनं जरा (चा. सू.२८४) स्त्रीणाममैथुनं
ललितम् ← (काव्या.७/४-५ ) इति तु त्रोपलक्षणादवगन्तव्यम् । तदुक्तं चाणक्यसूत्रे जरा (चा.सू.२८५) अतिकामो दोषमुत्पादयति (चा. सू. ३४९) ← इत्यादि । ।९ / ३ ।। અવસરપ્રાપ્ત ધર્મકથાના ચાર ભેદ દર્શાવતા ગ્રંથકારશ્રી જણાવે છે કે આ ધર્મક્થા પ્રતિપાદન હ
गाथार्थ :- त्री धर्मस्थाना यार प्रहार छे. (१) आक्षेपशी, (२) विक्षेपशी, (3) संवेनी
For Private & Personal Use Only
www.jainelibrary.org
=
•
Jain Education International
-