SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ • कामकथानिरूपणम् • ६३७ रूपं वयश्च वेषश्च दाक्षिण्यं चापि शिक्षितम् । दृष्टं श्रुतं चानुभूतं द्वितीयायां च संस्तवः ।।३।। रूपमिति । रूपं सुन्दरं, वयश्च = उदग्रं, वेषश्च = उज्ज्वलः, दाक्षिण्यं च = मार्दवं, शिक्षितमपि विषयेषु, दृष्टं 'अद्भुतदर्शनमाश्रित्य, श्रुतं चानुभूतं च, संस्तवश्च = परिचयश्च, द्वितीयायां = कामकथायाम् । रूपादिवर्णनप्रधाना कामकथेत्यर्थः ।।३।। ___उक्तार्थकथा । साम्प्रतमवसरसङ्गत्यायातां कामकथामाह ‘रूपमिति । अन्ध्रीप्रभृतीनामन्यतमाया सुन्दरं रूपं प्रशंसतो रूपकथा । यथा “चन्द्रवक्त्रा सरोजाक्षी, सद्गीः पीनघनस्तनी । किं लाटी नो मता साऽस्य देवानामपि दुर्लभा ।।” (स्था.४/२/२८२ वृत्तौ उद्धृतः /पृ.२१०) इति । वयश्च उदग्रं यौवनावस्थं, वेषः = स्त्री-पुरुषाणां नेपथ्यं स्वाभाविक-विभूषाप्रत्ययभेदेन द्विधा । उज्ज्वलः इति इदञ्च प्रशंसायां, निन्दायान्तु कच्छाबन्धादिकं, यथा “धिग्नारीरौदीच्या बहुवसनाऽऽच्छादिताङ्गलतिकत्वात् । यद् यौवनं न यूनां चक्षुर्मोदाय भवति सदा ।।” (स्था.४/२/२८२/पृ.१९९ उद्धृत) इति । प्रकृते → शृङ्गारवेषं कुर्यात् + (बा.सू.३/२८) इति बार्हस्पत्यसूत्रं कामकथायामन्तर्भवति । ___मार्दवं = तथा-तथोक्त्या अनुवर्तनम् । ततश्च तच्चित्ताऽऽवर्जनम्। तदुक्तं कामसूत्रे → नरः कलासु कुशलो वाचालः चाटुकारकः । असंस्तुतोऽपि नारीणां चित्तमाश्वेव विन्दति ।। - (का.सू.१।३।२४) इति। अन्यच्च स्पष्टम् । तदुक्तं दशवैकालिकनियुक्तौ → रूवं वओ य वेसो दक्खत्तं सिक्खियं च विसएसुं । दिलै सुयमणुभूयं च संथवो चेव कामकहा ।। - (द.वै.नि.अ.३/गा.२९२) इति । तद्व्याख्या चैवम् → रूपं सुन्दरं, वयश्चोदग्रं, वेषः उज्ज्वलः, दाक्षिण्यं = मार्दवं, शिक्षितं च विषयेषु = शिक्षा च कलासु, दृष्टमद्भुतदर्शनमाश्रित्य श्रुतं चानुभूतं च संस्तवश्च = परिचयश्चेति कामकथा । रूपे च वसुदेवादय उदाहरणं, वयसि सर्व एव प्रायः कमनीयो भवति लावण्यात् । उक्तं च- “यौवनमुदग्रकाले विदधाति विरूपकेऽपि लावण्यम् । दर्शयति पाकसमये निम्बफलस्यापि माधुर्यम् ।।"( ) इति । वेष उज्ज्वलः कामाङ्ग, 'यं कञ्चन उज्ज्वलवेषं पुरुषं दृष्ट्वा स्त्री कामयते' (कामसूत्र-५/१/८) इति वचनात् । દક્ષત્વ” પદાર્થ જાણવો. તે જ રીતે પૈસા કમાવા માટે સામનીતિ (સમજાવટ કરવાની પદ્ધતિ), ભેદનીતિ, દંડનીતિ, દામનીતિ = દાન આ બધામાં પ્રયત્ન કરવો ઈત્યાદિ જેમાં વર્ણવાય તે અર્થકથા કહેવાય.(૨) * अभऽथा निsues. थार्थ :- ३५, क्य, वेष, क्षय, विषयमोगशिक्ष, ४ष्ट-श्रुत-अनुभूत विषय तथा पश्यियઆ બાબતો બીજી કામકથામાં વર્ણવાય છે. (૩) ટીકાર્થ :- સુંદર રૂપ, યુવાન વય, ઉજ્જવળ-દેદીપ્યમાન પહેરવેશ, સ્ત્રી પાસે દાક્ષિણ્ય રાખવું અર્થાત વિજાતીય સાથે કઠોર નહિ પણ કોમળ વ્યવહાર કરવો’ ઈત્યાદિ વર્ણન કામકથામાં પ્રધાન = મુખ્ય હોય છે. તે જ રીતે પાંચેય ઈન્દ્રિયના વિષયોનો ભોગવટો કેવી રીતે કરવો? તેનું શિક્ષણ પણ કામકથામાં પીરસાય છે. તથા અદૂભુત રૂપ વગેરે જે કાંઈ જોયેલ હોય, સાંભળેલ હોય કે અનુભવેલ હોય તેનું પણ મુખ્યતયા કામકથામાં વર્ણન થાય છે. તથા વિજાતીયનો પરિચય કઈ રીતે કરવો? તે પણ કામકથાનો વિષય છે. ટૂંકમાં, રુપ વગેરેનું પ્રધાનપણે વર્ણન કરનારી કામકથા કહેવાય. (૯૩) १. हस्तादर्श ‘अद्भुट्ठ' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004940
Book TitleDwatrinshada Dwatrinshika Prakran Part 3
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages358
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy