________________
६३४ • विद्या-शिल्पाद्यर्थकथोदाहरणानि •
द्वात्रिंशिका-९/२ विद्या शिल्पमुपायश्चानिर्वेदश्चापि सञ्चयः। दक्षत्वं साम भेदश्च दण्डो दानं च यत्नतः।।२।।
विद्येति । विद्यादयोऽर्थोपाया 'यत्र वर्ण्यन्ते साऽर्थकथेति भावः ।।२।। कमाप्नुयुः । हितञ्चाऽऽमुष्मिकं निःश्रेयसं धर्मः स कीर्त्तितः ।। - (सं.गी.२/२१) इत्येवमुपदर्शितम् । एवमग्रेऽपि वाच्यम् । तदुक्तं दशवकालिकनियुक्तौ → अत्थकहा कामकहा धम्मकहा चेव मीसिया य कहा । एत्तो एक्केक्कावि य णेगविहा होइ नायव्वा ।। - (द.नि.अ.३/गा. १८८) इति ।।
समरादित्यकथायामपि → एत्थ सामन्नओ चत्तारि कहाओ हवन्ति। तं जहा- अत्थकहा, कामकहा, धम्मकहा, संकिण्णकहा य - (सम.भव-१-पृ.३) इत्येवं कथाचतुष्टयमावेदितं श्रीहरिभद्रसूरिभिः । उपमितिभवप्रपञ्चायां कथायामपि → अर्थं कामञ्च धर्मञ्च तथा सङ्कीर्णरूपताम् । आश्रित्य वर्तते लोके कथा तावच्चतुर्विधा ।। 6 (उप.भ. १/२४-पृ.२) इत्येवं सिद्धर्षिगणिभिरुक्तम् । तदुक्तं षट्त्रिंशत्षट्त्रिंशिकायां अपि → अर्थं कामं च धर्मं च तथा सङ्कीर्णरूपताम् । आश्रित्य वर्तते लोके कथा तावच्चतुर्विधा ।। - (प.पट.१/२) इति ।।९/१।।
अवसरसङ्गतिप्राप्तामर्थकथामाह- 'विद्य'ति । विद्या = देवताधिष्ठिता धनप्रदायिका । शिल्पं आचार्योपदेशजम् । कुम्भकार-लोहकार-चित्रकार-तन्तुवाय-नापितशिल्पलक्षणानि पञ्च शिल्पानि, एतेषां च पञ्चानां मूलशिल्पानां प्रत्येकं विंशत्या भेदैः शिल्पशतमिति कल्पसूत्रसुबोधिकाकारः (क.सुबो.क्षण७/सू.२१०/पृ.४३९) । उपायः अर्थशास्त्रादिवर्णितो नानाविधः । अनिर्वेदः = उत्साहपरता, तदुक्तं विष्णुशर्मणा पञ्चतन्त्रे → अनिर्वेदः श्रियो मूलम् - (पं.त.१/३५९) इति । वाल्मीकिरामायणेऽपि → उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु - (वा.रा.किष्किन्धाकाण्ड-१/१२२) इत्युक्तम् । चाणक्यसूत्रेऽपि → अमरवदर्थजातमर्जयेत् + (चा.सू.१५४) इत्युक्तम् । सञ्चयः = अनुपभोगादिव्यङ्ग्योऽसन्तोषः, तस्याप्यर्थोपायत्वात्, अन्यथा धनहानेः । तदुक्तं चाणक्यसूत्रे → अर्थतोषिणं श्रीः परित्यजति (चा.सू.७७) इति । दक्षत्वं = नैपुण्यं, साम = सामनीति भेदश्च = भेदनीतिश्च, दण्डः = दण्डनीतिः, दानं च = उपप्रदानं हि नीचस्य यत्नतः = आदरात् । → साम्ना दानेन भेदेन दण्डेन (म.भा.आदि. १९९/८) इति महाभारतवचनमपि योज्यमत्र । सामादिनीतिसु मध्ये पूर्वं सामप्रयोगः कार्यः। तदुक्तं बार्हस्पत्यसूत्रे → 'साम पूर्वं प्रयोक्तव्यम्' - (बा.सू.५/८) इति । उपलक्षणात् राज्यादिकमप्यत्रावगन्तव्यम् । तदुक्तं चाणक्यसूत्रे → अर्थस्य मूलं राज्यम् -- (चा.सू.३) इति । उपमितिभवप्रपञ्चायां कथायां→
सामाऽऽदि-धातुवादाऽऽदि-कृष्यादिप्रतिपादिका । अर्थोपादानपरमा कथाऽर्थस्य प्रकीर्तिता ।। सा क्लिष्टचित्तहेतुत्वात्पापसम्बन्धकारिका । तेन दुर्गतिवर्त्तन्याः प्रापणे प्रवणा मता ।।
6 (उप.भ.१/२६-२७) इत्येवं तस्याः स्वरूपं फलञ्चोपदर्शितम् । एतत्स्वरूपमुपवर्णयद्भिः भद्रबाहुस्वामिभिरप्युक्तं दशवैकालिकनियुक्तौ →
હ અર્થક્યા છે थार्थ :- विद्या, शिल्य, उपाय, अनि, संयय, होशियारी, सामनीत, मेहनति, नीति तथा प्रयत्नपूर्व आन (हामनील). मा यो पवाय ते अर्थथा उपाय. (२)
ટીકાર્થ :- ધન મેળવવાના ઉપાયભૂત વિદ્યા વગેરે વિષયો જે કથામાં દર્શાવાય છે તે અર્થકથા उपाय छ - सा प्रभारी माशय छे. (/२)
• हस्ताटणे 'मन' पटं नास्ति । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org