________________
९२०
• अबाध्यफलापेक्षाया सदनुष्ठानरागप्रतिबन्धकता • द्वात्रिंशिका-१३/२० अभव्यानामपि स्वर्गप्राप्तिहेतुमुक्त्यद्वेषसत्त्वेऽपि तस्य सदनुष्ठानरागाऽप्रयोजकत्वाद्, बाध्यफलाऽपेक्षासहकृतस्य तस्य मोक्षार्थसदनुष्ठानरागाऽनुबन्धित्वात् ।।२०।।
___ अभव्यानामपि स्वर्गप्राप्तिहेतुमुक्त्यद्वेषसत्त्वेऽपि तस्य = मुक्त्यद्वेषस्य सदनुष्ठानरागाऽप्रयोजकत्वात् । न चाऽभव्यगतमुक्त्यद्वेषस्य कथं न सदनुष्ठानरागप्रयोजकत्वमिति शङ्कनीयम्, तेषामक्रियावादित्वात् । न ह्यक्रियावादिनां सदनुष्ठानरागः सम्भवति, न वा क्रियावादिनामभव्यत्वं सम्भवति । तदुक्तं भगवतीसूत्रे → किरियावादी णं भंते ! जीवा किं भवसिद्धीया अभवसिद्धीया ? गोयमा ! भवसिद्धीया, नो अभवसिद्धीया - (भ.सू.३०/१/९९९) इति । क्रिञ्चाभव्यानां तदा नवमग्रैवेयकादिफल-गोचराऽबाध्याऽपेक्षा समस्ति, तस्याश्च प्रतिबन्धकत्वात्, बाध्यफलाऽपेक्षासहकृतस्य = अबाध्यपौद्गलिकफलाऽपेक्षालक्षणप्रतिबन्धकाऽभावविशिष्टस्य तस्य = मुक्त्यद्वेषस्य मुक्तिरागस्य वा मोक्षार्थसदनुष्ठानरागाऽनुबन्धित्वात् = मोक्षप्रयोजनकसदनुष्ठानरागजनकत्वात् ।
ननु भवद्भिः प्राक् (द्वा.द्वा.१३/४-पृ.८९७) 'व्यापन्नदर्शनानां हि द्रव्यलिङ्गिनां उपाये चारित्रक्रियादौ लाभाद्यर्थितयैव न द्वेषो, रागसामग्र्यां द्वेषाऽनवकाशात्' इति यदुक्तं तत एव तेषां सदनुष्ठानरागः सिध्यति, कार्यार्थिनामनन्तरकारणेऽपि रागाऽऽवश्यकत्वात्, अन्यथा प्रवृत्त्यनुपपत्तेः । यथोक्तं पञ्चाशके
→ कज्ज इच्छंतेणं अणंतरं कारणं पि इटुं तु । जह आहारज-तित्तिं इच्छंतेणेह आहारो ।। 6 (पञ्चा.६/३४) इति । ततश्चाऽबाध्यफलाऽपेक्षायाः सदनुष्ठानरागं प्रति न प्रतिबन्धकत्वं किन्तूत्तेजकत्वमेव कल्पयितुमर्हति, आलस्यादेरेव तत्प्रतिबन्धकत्वौचित्यादिति चेत् ?
__ अत्रोच्यते - व्यापन्नदर्शनादीनां द्रव्यलिङ्गिनां चारित्रक्रियादौ सदनुष्ठाने स्वेष्टस्वर्गादिसुखसाधनत्वेन रूपेण रागोऽस्ति, न तु मुक्त्युपायत्वेन रूपेणाऽद्वेपो रागो वा । अतो मुक्त्युपायत्वेन रूपेण सदनुष्ठाने रागं प्रति प्रज्ञापनाद्यनिवर्तनीय-स्वर्गादिसुखफलाऽपेक्षायाः प्रतिबन्धकत्वमनाविलमेव । एतेन मुक्तौ मुक्त्युपाये मुक्तिमार्गप्रस्थिते चाऽद्वेषस्य यथा मुक्त्यद्वेषपदवाच्यत्वं तथा तत्र रागस्य मुक्तिरागपदवाच्यत्वेनाऽभव्यादीनां मुक्त्युपाये चारित्रक्रियादौ रागसत्त्वेन तत्प्रयुक्ते द्रव्यश्रामण्येऽतिव्याप्तिरिति (द्वा.द्वा.१३/१७ पृ.९१६) प्रागुक्तं निरस्तम्, तद्धत्वनुष्ठानकारणीभूतं मुक्त्युपायत्वप्रकारकसदनुष्ठानविशेष्यकरागं प्रति अबाध्यपौद्गलिकफलापेक्षाविरहविशिष्टस्य मक्त्यद्वेष-तद्रागाऽन्यतरस्य कारणतया तद्विरहेण तेषां मोक्षप्रयोजनकसदनुष्ठानरागाऽसम्भवात् । न हि कारणविरहे कार्य भवितुमर्हति ।।१३/२०।। નથી. કારણ કે અભવ્ય જીવોમાં પણ સ્વર્ગની પ્રાપ્તિમાં હેતુભૂત મુક્તિએષ હોવા છતાં ય તે મુક્તિઅદ્વેષ તેમને સનુષ્ઠાનવિષયક રાગમાં પ્રયોજક બનતો નથી. આનું પણ કારણ એ છે કે બાધ્ય ફલાપેક્ષાથી સહકૃત એવો જ મુક્તિએષ મોક્ષપ્રયોજનક સદનુષ્ઠાનના રાગને લાવનાર બને છે. (૧૩/૨૦)
વિશેષાર્થ-નવમા ગ્રેવેયકમાં જનારા અભવ્ય જીવો પાસે ચારિત્રપાલન કાળ દરમ્યાન મુક્તિષ તો હોય જ છે. બાકી તો નવમો વેયકમળેજ નહિ- આ વાત આ બત્રીસીના ૩જા શ્લોકમાં વિચારી ગયા છીએ. પરંતુ તે મુક્તિષ સદનુષ્ઠાનના અનુરાગનો સંપાદક બનતો નથી. કારણ કે અભવ્ય જીવોને નવમા ગ્રેવેયકની જે ઈચ્છા છે તે કોઈનાથી પણ દૂર કરી શકાય તેવી નથી. અતિતીવ્ર સ્વર્ગઈચ્છા હોય તો મુક્તિઅષ સદનુદ્ધનના રાગને પ્રગટાવી ન શકે. પણ સમજાવટવગેરે દ્વારા દૂર કરી શકાય તેવી સ્વર્ગકામના હોય તો જ તે મુક્તિઅષ સદનુષ્ઠાનના રાગનું મૂળ બની શકે. અભવ્યની સ્વર્ગકામના અનિવર્તનીય હોવાથી તેની પાસે રહેલ મુક્તિઅષા સદનુષ્ઠાનરાગસંપાદક બનતો નથી. દાન કરવા છતાં પુણ્ય ઊભું ન થાય તો તે દાનથી સ્વર્ગન મળે. તેમ મુક્તિ અપ હોવા છતાં તેનાથી
१. मद्रितप्रतौ 'तस्य मोक्षार्थ' इति पदे न स्तः । परं हस्तादर्श वर्तेते । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org