________________
९१६
• अभव्यानुष्ठानस्य तद्धेतुत्वापादनम् • द्वात्रिंशिका-१३/१८ प्रयुक्ताऽनुष्ठानेऽव्याप्तिरित्यर्थः ।।१७।। 'न चाद्वेषे विशेषस्तु कोऽपीति प्राग निदर्शितम्। ईषद्रागाद्विशेषश्चेदद्वेषोपक्षयस्ततः ॥१८॥
न चेति । अद्वेषे विशेषस्तु न च कोऽपि अस्ति, अभावत्वात् इति प्राक् = पूर्वद्वात्रिंशिकायां निदर्शितम् । ईषद्रागाच्चेद्विशेषः ? लक्षणस्य तत्र अव्याप्तिः लक्ष्यैकदेशाऽगमनलक्षणा इत्यर्थः ।
किञ्च व्यापन्नदर्शनानां द्रव्यलिङ्गिनां स्वेष्टसाधने चारित्रक्रियादौ लाभाद्यर्थितयैव रागोऽप्यावश्यकः । मुक्तौ मुक्त्युपाये मुक्तिमार्गप्रस्थिते चाऽद्वेषो यथा मुक्त्यद्वेषपदवाच्यः तथा मुक्तौ मुक्त्युपाये मुक्तिमार्गप्रस्थिते च रागो मुक्तिरागपदवाच्यः । ततश्च मुक्त्युपाये चारित्रक्रियादौ तेषां रागसत्त्वेनाऽभव्यकृते नवमौवेयकप्रापकमुक्त्युपायभूतचारित्रक्रियादिगोचररागप्रयुक्ते द्रव्यश्रामण्येऽतिव्याप्तिरप्यन्त्यविकल्पे दुर्वारेति ध्येयम् ||१३/१७।।
ननु मुक्त्यद्वेषस्यैव तद्धेतुतानियामकत्वं न तु मुक्तिरागस्य, व्यापन्नदर्शनानां द्रव्यश्रामण्ये नवमग्रैवेयकप्रयोजकमुक्त्यद्वेषस्य सत्त्वेऽपि तद्धेतुतोचितो मुक्त्यद्वेषो नाऽस्ति, अभव्य-व्यापन्नदर्शनादिव्यावृत्तस्यैव मुक्त्यद्वेषस्य तद्धेतुत्वसम्पादकत्वादित्याशङ्कायां पूर्वपक्ष्याह- 'न चेति । अद्वेषे = मुक्त्यद्वेषे विशेषः = भेदः तु न च = नैव कोऽप्यस्ति, अभावत्वात् इति पूर्वद्वात्रिंशिकायां = पूर्वसेवाद्वात्रिंशिकायां द्वात्रिंशत्तमे श्लोके (द्वा.द्वा.१२/३२ पृ.८८६) निदर्शितम् । ततश्चाऽभव्यादीनां चरमावर्तवर्तिजीवानां वा मुक्त्यद्वेष नास्ति कोऽपि भेदो येनाभव्यादिव्यावृत्तमुक्त्यद्वेषस्य तद्धेतुत्वनियामकत्वं वक्तुं शक्येत । न ह्यधिकरणभेदेऽभावभेदो भवति, गौरवात् ।
ननु मुक्त्यद्वेषस्य मुक्तिद्वेषप्रतियोगिकाऽभावरूपत्वेनैकत्वेऽपि ईषद्रागात् = मनाग्मुक्तिरागात् चरमावविर्तिजीवानामभव्यादितोऽस्ति विशेषः = भेदः । अत एव चरमावर्तवर्तिजीवकृते ईषमुक्तिरागप्रयुक्ताऽनुष्ठानेऽभव्यादिकृताऽनुष्ठानाऽपेक्षया विशेषोऽप्यनिवार्यः सुरगुरुणा । न ह्यभाववद् भावोऽपि सर्वत्रैकविध एव वक्तुं शक्यते, अन्यथाऽद्वैताऽऽपत्तेः । प्रकृते न मुक्त्यद्वेषस्य तद्धेतुताप्रयोजकत्वं न वा मनाग्मुक्तिरागस्य तत्त्वं किन्तु मनाग्मुक्तिरागविशिष्टमुक्त्यद्वेषस्यैव तत्त्वम् । ततश्च नाऽभव्याऽनुष्ठानविशेषेऽतिव्याप्तिः, तत्र मुक्त्यद्वेषसत्त्वेऽपि मुक्तिरागविरहात् । न च मनाग्मुक्तिरागप्राक्कालीनमुक्त्यद्वेषप्रयुक्ताऽनुष्ठानेऽव्याप्तिरिति शङ्कनीयम्, इष्टत्वात्, ईषमुक्तिरागविशिष्टमुक्त्यद्वेषस्यैव चरमावर्तवर्तिजन्तुगतस्य तद्धेतुत्वप्रयोजकत्वोपगमादिति चेत् ? જે પૂર્વસેવાદિ આરાધના કરવામાં આવે તે હેતુઅનુષ્ઠાનસ્વરૂપે નહિ બની શકે. કારણ કે જીવ પાસે भुस्ति। २४४२ छे. (१७/१७)
ગાથાર્થ :- તથા મુક્તિઅષમાં કોઈ પણ તફાવત નથી – એમ પૂર્વે જણાવેલ છે. જો કાંઈક રાગના લીધે તેમાં વિશેષતા દર્શાવવામાં આવે તો મુક્તિઅદ્વેષ અન્યથાસિદ્ધ થઈ જશે. (૧૩/૧૮)
ટીકાર્થ:- વળી, મુક્તિઅષમાં કોઈ પણ તફાવત નથી, કારણ તે મુક્તિવિષયક ષના અભાવસ્વરૂપ છે - આ વાત ૧૨ મી બત્રીસીના ૩ર મા શ્લોકમાં બતાવેલ છે. તથા કાંઈક મુક્તિરાગના લીધે જો મુક્તિઅષના સ્વરૂપમાં વિશેષતા સ્વીકારવામાં આવે અર્થાત કાંઈક મુક્તિરાગથી વિશિષ્ટ એવા મુક્તિઅષને १. हस्तादर्श 'न वा दोष' इत्यशुद्धः पाठः । २. हस्तादर्श 'निदर्शितः' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org