________________
८७३
• भवाभिनन्दिषु सिद्धस्वभावानुबन्धविरह: • 'मदिराक्षी न यत्राऽस्ति तारुण्यमदविह्वला। जडस्तं मोक्षमाचष्टे प्रिया स 'इति नो मतम् ।।२४।।
'मदिराक्षी'ति । लोकाऽऽलापोऽयम ।।२४।। यथावदवगच्छन्ति । न वा → सत्ति-सूलूपमा कामा (थेरी.६।३ ।१४१) इति थेरीगाथावचनं प्रतिपद्यन्ते । ते च तदानीं प्रबन्धैकस्वभावतया नैव विदन्ति यदुत ‘यैव विपयशर्मसक्तिः सैव विशुद्धशुक्लस्वभावतिरोधानजननी'ति, यतो वै संसृतिभोगरक्तानां सिद्धस्वभावजीवानुबन्धो न कर्हिचित् सम्भवेदिति (उत्स.पृ.४) व्यक्तं उत्सर्गापवादवचनैकान्तोपनिषदि ।
एतावता मुमुक्षुभिः → सव्वमिणं चइऊणं अवस्स जया य होइ गंतव्वं । किं भोगेसु पसज्जसि? किंपागफलोवमनिभेसुं ।। 6 (उत्त.नि.४०२) इति उत्तराध्ययननियुक्तिवचनोक्तदिशा, → काम ! जानामि ते मूलं सङ्कल्पात् किल जायसे । न त्वां सङ्कल्पयिष्यामि समूलो न भविष्यसि ।। - (म.भा.शांति. अ.१७७/२५) इति महाभारतोक्तरीत्या, → अद्दसं काम ! ते मूलं संकप्पा काम ! जायसि । न तं संकप्पयिस्सामि एवं काम ! न होहिसि ।। 6 (म.नि.पा.१1१1१) इति च महानिदेसपालिवचनोक्तपद्धत्या, → परोऽपेहि मनस्पाप किमशस्तानि शंससि ? परेहि, न त्वा कामये 6 (अथ.वे.६।४५।१) इति अथर्ववेददर्शितमार्गेण, → सङ्कल्पमूलः कामो वै + (म.स्मृ.२/३) इति मनुस्मृतितात्पर्याऽवलम्बनेन वा विषयशर्माऽऽकाङ्क्षा-सङ्कल्पादिकं त्याज्यमेवेत्युपदेशो ध्वनितः, अन्यथा मोहमलशुद्धयसम्भवात् । तदुक्तं मूलाराधनायां → जह कुंडओ ण सक्को सोधेउं तंदुलस्स सतुसस्स । तह जीवस्स ण सक्का मोहमलं संगसत्तस्स ।। - (मूलारा. ११२०) इति । श्रूयन्ते = आकर्ण्यन्ते चकारः पूर्वोक्तभावनार्थः एतदालापाः = मूढानां मुक्तिद्वेषवचनानि लोके = संव्यवहाराहे जने शास्त्रेऽपि = तथाविधस्मृति-पुराणरूपे, 'किम्पुनर्लोक' इत्यपिशब्दार्थः, असुन्दराः = सदा सतामश्रोतव्याः ।।१२/२३ ।।
लोकाऽऽलापमेव दर्शयति- 'मदिराक्षी'ति । स्पष्टार्थः श्लोकः । प्रकृते च 'जइ तत्थ नत्थि सिमंतिणीओ मणहरपियंगुवन्नाओ । ता रे सिद्धतिय ! बंधणं खु मोक्खो, न सो मोक्खो ।।' ( ) इत्यप्यनुसन्धेयम् । मुक्तिद्वेषप्रयुक्तप्रलापः अध्यात्मतत्त्वालोके अपि → सुस्वादुभुक्तिर्मधुरं च पानं, मनोज्ञवस्त्राऽऽभरणादिधानम् । इतस्ततः पर्यटनं यथेष्टं वयस्यगोष्ठी सुमुखीमुखञ्च ।। इत्यादिकं शर्म बहुप्रकारं संसारवासे प्रकटप्रतीति । मुक्तौ क्व नामेति विषस्य लड्डून् प्रसारयन्त्यज्ञगणे कुवोधाः ।।
6 (अ.तत्त्वा. २।३८-३९) इत्येवमुपदर्शितः । → न स्वर्गो नाऽपवर्गो वा नैवाऽऽत्मा पारलौकिकः । नैव वर्णाऽऽश्रमादीनां क्रियाश्च फलदायिकाः ।। (स.द.सं.१/१३) यावज्जीवेत्सुखं जीवेद् ऋणं कृत्वा घृतं पिबेत् । भस्मीभूतस्य देहस्य पुनरागमनं कुतः?।। 6(स.द.सं.१/१८) इत्यपि नास्तिकोक्तिः सर्वदर्शनसङ्ग्रहगतचार्वाकदर्शनाद् अत्र योज्या । → एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । भद्रे वृकपदं पश्य यद्वदन्त्यबहुश्रुताः ।। - (प.स.८१,लो.त.नि.३/२) → पिब खाद च चारुलोचने !
ગાથાર્થ :- યુવાનીના ઉન્માદથી વિહ્વળ થયેલી લલના જ્યાં ન હોય તેને જડ લોકો મોક્ષ કહે छ. पत्नी मे ४ भोय. छ. म अमारी मत छ. (१२/२४)
21र्थ :- 3५२. ४५॥वेल. छे ते मुक्तिद्वेषप्रयुत दौडि प्रदा५. छ. (१२/२४) १. हस्तादर्श 'मदिराग्नि' इति पाठः । २. हस्तादर्श 'जर्गस्तं' इत्यशुद्धः पाठः । ३. हस्तादर्श ‘इंति' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org